2. तत्त्वत्रयं चिदचिदीश्वरश्च ।
भाष्यम्:
किं तत् तत्त्वत्रयमित्यादि । चित् चैतन्याधारो वस्तु । अचित् चैतन्यानाधारो वस्तु । ईश्वरः न योगवैशेषिकाद्यभिहिततत्त्वनिष्ठैरभिधीयमानः पुरुषविशेषो भवति, किन्तु वेदान्तेष्वभिहितश्चिदचिन्नियन्ता “क्षरं प्रधानममृताक्षरहरः” “क्षरात्मानावीशते देव एकः” “प्रधानक्षेत्रज्ञपतिर्गुणेश’ इति श्रूयते ।

One thought on “Tattva Trayam: Sutram 2”