3. चिदित्यामोच्यते
भाष्यम्-
उद्देशक्रमेण तत्त्वत्रयस्य च स्वरूपस्वभाव- विशेषानुपपादयितुं प्रथमं चित्तत्त्वोपपादनमुपक्रमतेचिदिति ।
मध्यवीथीभट्टार्य्यकृष्णपादप्रभृतय आचार्यास्तत्त्वत्रयोपपादनसमयेऽचित्तत्त्वमुपक्रम्याभिदधुः। अयं चित्तत्त्वमुपक्रम्याभिदधाति, अस्यायमभिप्रायः अचित्तत्वस्य हेयतया ज्ञातव्यत्वादीश्वरस्योपादेयतया ज्ञातव्यत्वाद् एवमुभयोरपि तावयोर्ज्ञातुरधिकारिणश्चेतनस्य स्वरूपस्य प्रथमं ज्ञातव्यत्वादिति । तथाऽभिदधतां तेषामाशयस्तु प्रकृतेर्ज्ञानाभावे आत्मनः प्रकृतेः परत्वज्ञानासम्भवात् प्रथमतः प्रकृर्ति ज्ञात्वाऽनन्तरं तदन्तरर्वर्तिनमात्मानं ज्ञात्वा तदन्तर्यामिणः शरीरस्यात्मवदुभया- भिमानिन ईश्वरस्य स्वरूपज्ञानं बुद्धयारोहणक्रमेण सम्पादनीयमिति अचिदुपक्रमेणाभिधानम् अन्नमयारभ्यानन्दमयपर्यन्तमारोह- क्रमेणाभिदधत्याः श्रुतेर्मर्यादाऽनुगुणम्, चिदुपक्रमेणामिधानं च ‘भोक्ता भोग्यं प्रेरितारं च मत्वा ।’ इत्यादिश्रुत्यनुगुणम् । तस्मात् क्रमद्वयं च वेदान्तसिद्धम् । “चिदचिदीश्वरतत्स्वभाव” इति यामुनाचार्यवचनम् । “अशेषचिदचिद्वस्तुशेषिण’ इति भाष्यकार- वचनं च कोटिद्वयानुगुणम् । चिदुपक्रमयोजनाऽ क्षरस्वरससिद्धा। अचिदुपक्रमयोजनाऽपि अक्षरानुगुणैव तथा हि चिदुपक्रमस्तु समस्तपदत्वाद् द्वन्द्वसमासे अल्पाच्तरस्याभ्यर्हितस्य च पूर्वनिपा- तोऽनुशासनसिद्धः । तत्राभ्यर्हितत्वादल्पाच्तरत्वाच्च चिच्छब्दः पूर्वं निपातितः । अभ्यर्हितेश्वरवाचकशब्दाच्चेतन्वाचकचिच्छब्दस्य पूर्वनिपातश्चाल्पाच्तरं पूर्वमित्यनुशासनसिद्धः । एवं क्रमद्वयमपि वेदवैदिकपरिगृहीतत्वान्मुख्यमेव ।
चिच्छब्दस्य “प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतना’ इति ज्ञानवाचिशब्दैः सह पठितत्वाज् ज्ञानाश्रयवस्तुनि प्रसिद्धिप्राचुर्याभावाच्च “क्षरात्मानावीशते देव एकः” ‘य आत्मानमन्तरो यमयति यमात्मा न वेद यस्यात्मा शरीरम्” “आत्मा शुद्धोऽ क्षरः” “आत्माज्ञानमयोऽमल” इतिश्रुतिस्मृतिष्वनेकत्रोक्तत्वाज्जीवे प्रसिद्धिप्राचुर्यवता आत्मशब्देन चिच्छब्दं व्याचकारचिदित्यात्मेति ।

One thought on “Tattva Trayam: Sutram 3”