4. आत्मस्वरूपं “गत्वागत्वोत्तरोत्तरम्” इत्युक्तप्रकारेण देहेन्द्रिय-मनः-प्राणबुद्धिभ्यो विलक्षणमजड़मानन्दरूपं नित्यमण्वव्यक्तमचिन्त्यं निरवयवं निर्विकारं ज्ञानाश्रय ईश्वरस्य नियाम्यं धार्यं शेषम् ।
भाष्यम्:
अथ किमस्यात्मनः स्वरूपमित्याशंकायामात्मस्वरूपलक्षणमाह आत्मस्वरूपमित्यादिना श्रुतिस्मृत्यादिषु कस्यचित् प्रमाणस्योपादानौचित्येऽपि दिव्यसूरिवचनोपादानं तत्वप्रतिपादक श्रुतिस्मृत्यादिभ्यस्तत्त्वदर्शिप्रधानस्यदिव्यसूरेर्वचनमेव तन्निर्णयस्य मुख्यप्रमाणमिति ज्ञापनार्थम्, “भवन्ति लीलाविधयश्च वैदिकास्त्वदीयगम्भीरमनोऽनुसारिणः” इति परमाचार्यवचनम् । स्वरूपं स्वं रूपम, असाधारणाकार इति यावत् । “गत्वागत्वोत्तरोत्तरम् ।” इति अन्नमयप्राणमयमनोमयेभ्य उत्तरमित्यर्थः । देहेन्द्रियमनः प्राणबुद्धिभ्यो विलक्षणमित्यत्र बुद्धिपदेन किं महदनुगृहीतमन्तःकरणमुच्यते किं वा ज्ञानमुच्यते इति चेत्? अत्र ज्ञानं विवक्षितन्तत्त्वशेखरे देहादिवैलक्षण्याभिधानसमये तथाऽभिधानात् । “देहेन्द्रियमनः प्राणधीभ्योऽन्य” इति यामुनाचाय्यैरुक्तम् ।
उद्देशो लक्षणं परीक्षा चेति त्रिधा तत्त्वनिर्णयक्रमः । तत्र चिदचिदीश्वर इति तत्त्वत्रयमुद्दिश्योद्देशक्रमेण तेषां स्वरूपशोधनं कर्तुं विचार्य्य प्रथमं चिच्छब्दनिर्दिष्टस्यात्मनः स्वरूपशोधनमुपक्रम्य देहेन्द्रियमनः प्राणबुद्धिभ्यो विलक्षणमित्यारभ्य शेषमित्यन्तं स्वरूपलक्षणमुक्तम् । अथ तत्परीक्ष्यते ।

One thought on “Tattva Trayam: Sutram 4”