Tattva trayam: Sutram 5

तत्र प्रथममात्मनो देहिदिवैलक्षण्यशोधनाय तज्जिज्ञासुप्रश्नमनुभाषते। आत्मस्वरूपमित्यादिना ।

आत्मस्वरूपं कथं देहादिविलक्षणमिति चेद् ?

भाष्यम्-
तत्र प्रथममात्मनो देहिदिवैलक्षण्यशोधनाय तज्जिज्ञासुप्रश्नमनुभाषते। आत्मस्वरूपमित्यादिना । अयमर्थस्तत्त्वशेखरे स्वयमेव विस्तरेणोक्तः । तत्र हि देहस्यानेकावयवसङ्घा- तात्मकतां सिद्धम् । तत्र सर्वेषामवयवानां चैतन्यमस्ति चेदनेकचेतनोपलब्धिप्रसङ्गः अवयवानां परस्परमविवादनियमः तत्र ममत्वबुद्धिर्ममताव्यवहारश्च न सम्भवति, एकैकावयवस्यैव चैतन्याङ्गीकारे तद्विच्छेदेऽवयवान्त रानुभूतं न स्मरेत्, पश्चादहंकार- बुद्धिव्यवहारौ ममताबुद्धिव्यवहारौ च न स्युः, सर्वशरीरव्यापि- सुखदुःखानुभवश्च न स्यात् । ‘शरीरं नावयवसङ्घातात्मकमपि त्ववयवि, तत्र चैतन्यं स्वीकार्य्यम्’ इति तु न युक्तम्, उपलम्भानुपपत्त्यभावेनावयविस्वीकारानुपपत्तेः । किञ्चबालदेहोऽहं मन्दज्ञानः, युवदेहोऽहं बहुज्ञानः, मम शरीरमिति शरीरादह- मर्थयोर्जायमानौ भेदप्रतिपत्तिव्यवहारौ न स्याताम् । न च भमायमात्मेत्यत्रेव तावमुख्याविति युक्तम् । मुख्यत्वे बाधकाभावात् । अन्यथाऽहम्बुद्धेः शरीरमेव विषय इति स्वीकारेऽपि श्रुतितदर्थापत्तिभ्यां देहातिरिक्तो देहान्तरपरिग्रहयोग्य आत्मा सिद्ध्यति ।

बाह्येन्द्रियाण्यपि नात्मा, एकस्यैव सर्वेद्रियविषयज्ञानात् । एवमनाङ्गीकारे योऽहममुमर्थमपश्यं सोऽहं स्पृशामीति प्रतिसन्धानानुपपत्तिः । यदि चक्षुरेवात्मा, तर्हि अन्धो रूपं न स्मरेत्। यदि श्रोत्रमात्मा, तदा बधिरः शब्दं न स्मरेत् । एवमिन्द्रियान्तराणमात्मत्वेऽ प्यनुपपत्तिर्द्रष्टव्या । नाप्यन्तःकरणात्मा, स्मर्तुः स्मरणादिकार्य्यस्य करणतया कल्पितमिदमेव स्मरतीति स्वीकारासम्भ्रमात्, स्मरणस्य कारणाभावात् । न च करणमपीदमेवः, विरोधात् । अन्यत्किञ्चित्करणमिति चेत् ? तद्यदि वाह्यकरणं तदा तच्छून्यो न स्मरेत् । यद्यन्तःकरणं; तदात्मनो मन इति नाम कृतं स्यात् । यद्यन्तःकरणमनपेक्षितं तदेन्द्रियार्थसम्बन्धकाले सर्वदा ज्ञानमुत्पद्येत, तस्मान्मनश्च नात्मा; सङ्घातरूपत्वाहेहात्मपक्षोक्तदूषणानामत्रापि प्रसङ्गात् । ज्ञानं नात्मा; मम ज्ञानमुत्पन्नं नष्टमिति क्षणिकत्वेनात्मधर्मत्वेन चोपलम्भात्स्थिरः कश्चनात्माऽस्तीति पूर्वेद्युर्द्दष्टवानयमद्य पश्यामीति प्रत्यभिज्ञया सिद्धमिति विस्तरेणोक्तम् ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

One thought on “Tattva trayam: Sutram 5”

Leave a comment