एवमत्रापि प्रत्येकनिरासे क्रियमाणे ग्रन्थविस्तरो भवेदिति मन्दमतीनां प्रतिपत्त्यर्थं देहादिकं समुच्चित्योपादाय तत आत्मनो वैलक्षण्यं कैश्चिद्युक्तिविशेषैः सुग्रहमाह- देहादीनामित्यादिना ।
६. देहादीनां मम देहादिकमित्यात्मनः पृथगुपलभ्यमानत्वात्, इदमित्युपलभ्यमानत्वात्, आत्मनोऽहमित्युपलम्भात्; अस्य कदाचिदुपलम्भादात्मनः सर्वदोपलम्भात् । एतेषामनेकत्वादात्मन एकत्वादात्मैतेभ्यो विलक्षणः स्वीकार्य्यः
भाष्यम्
देहादीनां मम देहो ममेन्द्रियं मम प्राणो मम बुद्धिरिति ममताबुद्धिव्यवहार विषयतयाऽ हमर्थात्पृथगुपलम्भात्, आत्मनोऽह- मर्थत्वेनोपलम्भाच्वेत्यर्थः । अस्येत्यादि अस्येति देहेन्द्रियादिकं परामृश्यते । देहस्य कदाचिदुपलम्भः कदाचिदनुपलम्भश्च जाग्रद्दशायां स्थूलोऽहं कृशोऽहमित्यहम्बुद्धिव्यवहारविषयतयाऽऽत्मत्वेन भासमानस्यापि सुषुप्तिदशायां तथाऽनुपलम्भः । आत्मनः सदोपलम्भश्च सुषुप्तेः प्रागेतत्सर्वं जानन्नहं सुषुप्तौ मम शरीरमपि न जानामीति प्रत्यभिज्ञोदयाद् उभयावस्थायामपि देहातिरिक्तः कश्चनात्माऽस्तीत्युपलम्भः ।
अथवा जन्ममरणभाक्त्वेन देहस्य कदाचिदुपलम्भः कदाचिदनुपलम्भः । मया जन्मान्तरे कृतस्य फलमिदमिति लोक व्यवहारेणात्मनो जन्ममरणादिरहिततया सदोपलम्भः । एवं चक्षुरादिरूपेणोपलभ्यमानानामिन्द्रियाणामन्धबधिराद्यवस्थायामनुपलम्भात्, संकल्पादिहेतुतयोपलभ्यमानस्य मनसः कदाचिन्मूढतयाऽनुपलम्भात्, उच्छ्वासनिश्वासाभ्यामुपलभ्यमानस्य प्राणस्य कदाचिन्मोहाद्यवस्थायां रक्तस्पर्शाद्यनुमेयतयाऽ नुपलम्भात्, विषयग्रहणवेलायामुपलभ्यमानस्य ज्ञानस्य विषयग्रहणाभावदशायामनुपलम्भात्, आत्मनस्तु प्राक् चक्षुः श्रोत्राभ्यां सुसम्पन्नोऽहमिदानीमन्धो जातो बधिरो जातः पूर्वं सुविशदमनस्क इदानीं न किञ्चिज्जानामि, तदानीमहं निष्प्राण इदानीं सप्राणो जातः, मम प्राग् ज्ञानमजनि इदानीं नष्टमित्येतेषामुपलम्भदशायामनुपलम्भदशायां चाविशेषेणोपलभ्यमानत्वात् ।
एतेषामित्यादि । अत्रैतच्छब्देन देहादयः परामृश्यन्ते । देहास्यानेकत्त्वमनेकावयवसङ्घातात्मकत्वम् । इन्द्रियाणामनेकत्वं चक्षुः – श्रोत्रादिव्यक्तिभेदेन । मनसोऽनेकत्वं, मनोबुद्धिचित्ताहङ्कारभेदेन । प्राणस्यानेकत्वं, प्राणापानादिभेदेन । बुद्धेरनेक्वं ज्ञानभेदेन । एवं देहादेरेकैकस्यैवानेकत्वाद् अहंबुद्धिव्यवहारार्हस्यात्मन एकत्वात् । देहादिप्रकारस्य स्वात्मनः प्रकारस्य च निरूपणे आत्मा देहादिभ्योऽन्य एव स्वीकर्तव्य इत्यर्थः। एवं युक्तिभिः साधितमर्थं शास्त्रेण दृढीकरोति- एवमित्यादिना ।

One thought on “Tattva Trayam: Sutram 6”