७. एवं युक्तीनां बाधसम्भावनायामपि शास्त्रबलेनात्मा देहादिविलक्षणः सिद्ध्यति
भाष्यम्:
बाधसम्भावनायामपीत्युक्त्या सर्वथा बाधोद्भावनं केनापि न शक्यते कर्तुम् । तदुद्भावनेऽपि अस्यार्थस्य श्रुतिस्मृत्यादिसकलशास्त्रसिद्धत्वाच्छास्त्रमेवामुमर्थ साधयतीत्यभिप्रायः सूचितः ।
“पञ्चविंशोऽयं पुरुषः” “पञ्चविंश आत्मा भवति”
“भूतानि च कवर्गेण चवर्गेणेन्द्रियाणि च ।
टवर्गेण तवर्गेण ज्ञानगन्धादयस्तथा।
मनः पकारेणैवौक्तं फकारेण त्वहंकृति।
बकारेण भकारेण महान्प्रकृतिरुच्यते। आत्मा तु स मकारेण पञ्चविंशः प्रकीर्त्तितः ।
यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः ।
स एव सर्वभूतात्मा नर इत्यभिधीयते । आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः ।।
प्रवृद्ध्यपचयौ नास्य एकस्याखिलजन्तुषु।
पिण्डः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः ।।
ततोऽहमितिकुत्रैतां संज्ञां राजन्करोम्यहम् ।
किं त्वमेतच्छिरः किन्तु शिरस्तव तथोदरम् ।।
किमु पादादिकं त्वं वै तवैतत्किं महीपते।
समस्तावयवेभ्यस्त्वं पृथग्भूतो व्यवस्थितः ।।
कोऽहमित्येव निपुणो भूत्वा चिन्तय पार्थिव ।
पञ्चभूतात्मके देहे देही मोहतमोवृतः ।।
अहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम् ।
आकाशवाय्वग्निजलपृथिवीभ्यः पृथक्स्थिते ।।
अनात्मन्यात्मभावं वा कः करोति कलेवरे ।”
इत्यादिश्रुतिस्मृत्यादिसकलशास्त्रप्रतिपन्नमात्मनो देहादिविलक्षणत्वं दुरपह्नवमित्याशयेन शास्त्रबलेनात्मा देहादिविलक्षणः सिद्ध्यतीति सुनिश्चयमनेनोक्तम्

One thought on “Tattva Trayam: Sutram 7”