मूल- अजडत्वं नाम ज्ञानेन विना स्वयमेव प्रकाशमानत्वम्।
भाष्यम्-
अजडत्वमित्यादि । अजडत्वं नामानन्याधीन- प्रकाशत्वं, स्वयं प्रकाशत्वमिति यावत् । स्वयंप्रकाशत्वं च दापस्य दीपान्तरनिरपेक्षत्व व्यवहारहेतुत्ववत् प्रकाशान्तरनिरपेक्षस्व व्यहारहेतुत्वम् । तदेवाह- ज्ञानेनेत्यादिना । “हृद्यन्तज्योतिः पुरुषः।” “यत्रायं पुरुषः। स्वयं ज्योतिर्भवति विज्ञानघनः” “आत्मा ज्ञानमयः” “तच्च ज्ञानमयं व्यापि” “स्वयंवेद्यमनुपममात्मसंवेद्यं तज्ज्ञानम्” इति ।

One thought on “Tattva Trayam: Sutram 8”