9. मूल- आनन्दरूपत्वं सुखस्वरूपत्वम्,
भाष्यम्-
आनन्दरूपत्वमित्यादि। आनन्दरूपत्वं स्वत एवेष्टत्वम् । तच्च स्वभावत एवानुकूलत्वम् ।
अनुकूलं सुखं दुःखं प्रतिकूलमिति स्थिते ।
स्वात्मा स्वस्यानुकूलो हीत्यात्मसाक्षिक एव सः ।।
इत्युक्तप्रकारेण स्वस्य स्वयमेव सुखरूपं भवतीत्यर्थः । एवमात्मस्वरूपं सुखरूपमित्यत्र सुप्तप्रतिबुद्धप्रत्यभिज्ञां प्रमाणमाहप्रबुद्धइत्यादिना
10. मूल – “सुखमहमस्वाप्सम्” इति प्रतिसन्दधातीति सुखरूपं भवति।
भाष्यम्:
“सुखमहमस्वाप्सम्” इति प्रत्यभिज्ञैवात्र प्रमाणमिति तत्त्वशेखरे स्वयमेवावोचत् सुषुप्तिदशायां परागर्थानुभवाभावात् प्रत्यगर्थस्मरणसद्भावात् सुप्तोत्थितेन परामृश्यमानं सुखं स्वरूपसुखमेव भवेत् । इदानीं यथा सुखं भवति तथाऽस्वाप्समिति “सुखमहमस्वाप्सम्” इति प्रतिसन्धानस्य विषय इति तु न युक्तम्, प्रतिपन्नशरीरस्यातथात्वाद् “मधुरमगायम्” इति प्रतिपत्तितुल्यत्वात् । अमुमर्थ श्रीभाष्ये “एवं हि सुप्तोत्थितस्य परामर्शः सुखमहमस्वाप्सम” इति । अनेन प्रत्यवमर्शेण तदानीं मप्यहमर्थस्यैवात्मनः सुखित्वं ज्ञातृत्वं च ज्ञायते । न च वाच्यं यथेदानीं सुखं भवति, तथा तदानीमस्वाप्समित्येषा प्रतिपत्तिरिति, अतद्रूपत्वात्प्रतिपत्तेरिति भाष्यकारोऽप्याह स्वरूपस्यानुकूलत्वाभावे प्रेमास्पदत्वं न स्यात् । “आश्चर्य्यवत्पश्यति कश्चिदेनम्” इत्यादिभिश्चायमर्थ सिद्धः । “आर्द्र ज्वलति निर्वाणमयमात्मा” “ज्ञानानन्दमयस्त्वात्मा ।” ज्ञानानन्दैकलक्षणमित्त्यादिश्रुतिस्मृत्यादिष्वात्मनो ज्ञानानन्दरूपत्वं सुस्पष्टम् । एवं प्रकृतेः परत्वोक्तेर्देहात्मवादो निरस्तः । अजडत्वानन्दरूपत्वोक्तेर्जडात्मवादो निरस्तः

One thought on “Tattva Trayam: Sutram 9, 10”