18.अव्यक्तत्वं नाम घटपटादिग्राहिचक्षुराद्यग्राह्यत्वम्।
भाष्यम् – अव्यक्तत्वमित्यादि छेदनादियोग्यानि घटपटादीनि वस्तूनि यैः प्रमाणैर्व्यज्यन्ते तैरयमात्मा न व्यज्यत इत्यव्यक्त इति भाष्यकारैरुक्तं, तथैवायमाह। केनापि प्रमाणेन न व्यजत इत्यव्यक्तमित्युक्तौ तु तुच्छत्वं स्यात् । अतो मानसज्ञानमात्रगम्यं न त्वैन्द्रियकज्ञानगम्यमिति भावः । अव्यक्तशब्दार्थो गत्वा गत्वोत्तरोत्तरमित्यारभ्यात्मस्वरूपवैलक्षण्यमभिदधता दिव्यसूरिणाऽपि ज्ञानमतिक्रान्तमिन्यैन्द्रियकज्ञानागोचरत्वमुक्तम् ।
19. अचिन्त्यत्वं नाम अचित्सजातीयतया चिन्तयितुमनर्हत्वम्।
भाष्यम्– अचिन्त्यत्वमित्यादि । यतश्छेद्यादिविसजातीयस्तत एव सर्ववस्तुविजातीयत्वेन तत्तत्स्वभावयुक्ततया चिन्तयितुमपिनार्ह इति भाष्यकृतोक्तम् । अयमपि तदेव वदति । अन्यथा अचिन्त्यत्वं केनापि प्रकारेण चिन्तयितुमयोग्यत्वमित्युक्तावात्मस्वरूपविषयश्रवणमननादिवैयर्थ्यप्रसङ्गः। तस्मादचित्सजातीयताबुद्धयनर्हत्वमेवा – चिन्त्यशब्दार्थः । एवम् “अव्यक्तोऽयमचिन्त्योऽयम् इति गीतोपनिषदाचाय्र्योक्तप्रकारे णात्मस्वरूपवैलक्षण्यप्रकटनार्थ- मनेनाप्यत्राव्यक्तत्वाचिन्त्यत्वे उक्ते ।
20. निरवयवत्वं नाम अवयवसमुदायानात्मकत्वम् ।
भाष्यम् – निरवयवत्वमित्यादि । विज्ञानमयो विज्ञानमिति चोक्तप्रकारेण ज्ञानैकाकारतयाऽचिद्वस्तुवदवयवसङ्घातात्मकत्वाभाव इत्यर्थः ।
21. निर्विकारत्वं नामाचिद्वद्विकारत्वेन विनैक रूपतयाऽवस्थानम् ।
भाष्यम् – निर्विकारत्वमित्यादि । “अमृताक्षरं हरः” “आत्माशुद्धोऽ क्षर” इत्यक्षरशब्दवाच्यवस्तुत्वात् क्षरण स्वभावतया क्षरशब्दवाच्याचिद्वद् विकारित्वं विना सदैकरूपेणावस्थानमित्यर्थः । अत एवाऽविकार्योऽयमिति श्रीगीतोपनिषदाचार्य्यः ।

One thought on “Tattva Trayam: Sutram 18, 19,20,21”