22. एवंस्थितत्वाच्छस्त्राग्निजलवातातपप्रभृतिभिश्छेदन- दहनक्लेदन शोषणादीनामयोग्यम् ।
भाष्यम् –एवंप्रकारत्वाच्छेद्यादिविसजातीयमित्याह- एवंस्थितत्वादित्यादिना । एवमित्यनेनाव्यक्तत्वादीनि चत्वारि निर्विकारित्वमात्रं वा परामृश्यते । शख्खाग्रीइत्यादिना । शस्त्राग्न्यादयश्छेदनदहनादिकं यदा कुर्वन्ति, तदा तत्तद्वस्तूनि व्याप्य कुर्वन्ति । आत्मनः सर्वाचिद्वस्तुव्यापकतया ततोऽप्यत्यन्तसूक्ष्मत्वाद् व्याप्यानां स्थूलानां तेषां व्यापकं सूक्ष्ममात्मवस्तु व्याप्यविकार – यितुमनर्हत्वाद् शस्त्राग्निजलवातातपादिप्रयुक्तानां छेदनदहनक्लेदन- शोषणानामनर्हमित्यर्थः ।
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लदयन्त्यापो न शोषयति मारुतः ।।
अच्छेद्यो ऽ यमदाह्योऽ यमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ।। (गीता २/23-24 )
इति गीयते ।

One thought on “Tattva Trayam: Sutram 22”