एवं निर्विकारस्यात्मवस्तुनः परिणामित्वं वदतामार्हतानां मतमयुक्तमिति दर्शयति आर्हता इत्यादि ।
23. आर्हता आत्मा देहपरिमाण इत्याहुः,
भाष्यम्:
आर्हता जैनाः । ते हि पादे मे वेदनेत्यादिप्रकारेणापादचूडं देहे दुःखानुभवो देहपरिमाणत्वाभावे न सम्भवति । तस्मादात्मा स्वकर्मानुगुण्येन परिगृहीतानां गज पिपीलिकादिशरीराणामनुरूपं परिणम्य, तत्तद्देहपरिमाणो भवतीति वदन्ति । तदेवाह देहपरिमाण इत्याहुरिति ।
तन्निराकरोति- तदित्यादिना
24. तच्छ्रुतिविरुद्धम्।
भाष्यम्:
अत्रानेन विवक्षिता श्रुतिः “अमृताक्षरं हरः” इत्यात्मनो निर्विकारत्वप्रतिपादिका । आत्मा देहपरिमाण इति पक्षो निर्विकार आत्मेति श्रुत्या बाधित इति तत्त्वशेखरे
स्वयमुक्तत्वात् । “एषोऽणुरात्मा” “बालाग्रशतभागस्य’ इत्यादिश्रुतयो देहपरिमाणपक्षबाधिका अत्र विवक्षिता इत्यपि वदन्ति ।
एतद्विषये दूषणान्तरमाह- अनेकदेहानित्यादिना ।
25. अनेकदेहान्परिगृह्णतां योगिनां स्वरूपस्य शैथिल्यं च प्रसज्येत ।
भाष्यम्:
देहपरिमाणपक्षे संसिद्धयोगानां सौभरिप्रभृतीनामेककालेऽनेकदेहान् परिगृहणतांस्वस्वरूपमनेकधा कृत्वा तत्तदेहपरिग्रहप्रसङ्गः । यद्वा, परकायप्रवेशमुखेनानेकशरीराणि परिगृहणतां योगिनां स्वरूपस्य स्थूलशरीरं त्यक्त्वा ततः सूक्ष्मशरीरपरिग्रहसमये तस्य सर्वस्यावकाशाभावाच्छैथिल्यं स्यादित्यर्थः । एवं चात्माऽ कार्त्यमितिसूत्रोक्तप्रकारेणाल्पमहत्परिमाणानि। गजपिपीलिकाऽऽदिशरीराणि स्वकर्मानुगुणं परिगृह्णतां गजशरीरं त्यक्त्वा पिपीलिकाशरीरपरिग्रहणसमये गजशरीरपरिमाणस्य स्वरूपस्य पिपीलिकाशरीरेऽवकाशाभावाच्छैथिल्यं स्यादिति योजना तु योगिनां स्वरूपस्येत्युक्त्याऽत्रास्य नाभिप्रेता ।

One thought on “Tattva Trayam: Sutram 23, 24,25”