Tattva Trayam: Sutram 29, 30

ज्ञातृत्वकर्तृत्वभोक्तृत्वानां त्रयाणां वक्तव्यत्वेऽपि ज्ञानाश्रय इति ज्ञातृत्वमात्रस्याभिधानमन्ययोरनभिधानं च कथं युज्यत इति शङ्कायामाह ज्ञातेत्यादि ।

29. ज्ञातेत्युक्तौ कर्ता भोक्ता चेत्युक्तः ।

एवं प्रतिज्ञामात्रमयुक्तमिति तत्र हेतुमाह-कर्तृत्वेत्यादिना ।

30.कर्तृत्वभोक्तृत्वे ज्ञानावस्थाविशेषौ ।

भाष्यम्

हेयोपादेयविज्ञानमूलं ज्ञातृत्वमात्मनः ।

तत्तत्प्रहाणोपादानचिकीर्षाकर्तृताश्रयाः ।।

इत्युक्तप्रकारेणात्मनो ज्ञातृत्वं हेयोपादेयप्रतिपत्तेर्हेतुः । तत्तद्धेयपरित्यागोपादेयपरिग्रहयोश्चिकीर्षा कर्तृत्वमूला । कर्तुर्हि चिकीर्षा जायते, साच चिकीर्षा ज्ञानावस्थाविशेषः । तया सह कर्तृत्वस्य प्रत्यासत्तिं दृष्ट्वा कर्तृत्वं ज्ञानावस्थाविशेष इत्युपचारः कृतः । अन्यथा कर्तृत्वस्य क्रियाऽऽश्रयत्वरूपत्वात् तज्ज्ञानावस्थाविशेष इति मुख्योक्तिर्न सम्भवति । क्रिया हि नाम जानाति इच्छति यतते करोतीत्यत्र ज्ञानचिकीर्षाप्रयत्नान्तरभाविनी प्रवृत्तिरूपा, तदाश्रयत्वं कर्तृत्वम् । तच्च ज्ञानावस्थाविशेष इत्यौपचारिकप्रयोगो वक्तव्यः। अथ भोक्तृत्वं नाम भोगाश्रयत्वम् । भोगश्च सुखदुःखरूपानुभवज्ञानम्, तज्ज्ञानावस्थाविशेष एव । तदाश्रयत्वस्य ज्ञानावस्थाविशेषत्वोक्तिश्चौपचारिक्येव । एवं ज्ञानस्य तस्य च विद्यमानप्रत्यासत्त्या तदैक्यकथनसम्भवात्, ज्ञातृत्वोक्त्यैव कर्तृत्वभोक्तृत्वे चोक्ते इत्यत्र न कोऽपि विरोधः ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

One thought on “Tattva Trayam: Sutram 29, 30”

Leave a comment