Tattva Trayam: Sutram 31, 32, 33, 34

सांख्य मत खण्डन

एवमात्मनः स्वाभाविकं कर्तृत्वं नास्ति, किन्तु प्रकृतेरेव तदिति वदतः सांख्यान् प्रतिक्षिपति- केचिदित्यादिना ।

३१. केचिद् गुणानामेव कर्तृत्वं नात्मन इति वदन्ति।

भाष्यम्– केचिदित्यनेन तेष्वस्यानादरो ज्ञायते। गुणानामिति । गुणाः प्रकृतिश्चेति तन्मते भेदो नास्ति, तस्मात्प्रकृतेरेवेत्यत्र गुणानामेवेत्युक्तम् । मूलप्रकृतिर्नाम – सुखदुःखमोहात्मकानि लाघवप्रकाशचलनोपष्टम्भनगौरवावरणकार्याण्यतीन्द्रियाणि काय्यैकनिरूपणविवेकान्यन्यूनानतिरेकाणि समतामुपेतानि सत्त्वरजतमांसि द्रव्याणि इति तेषां सिद्धान्तः । तथा च प्रकृतेरेव कर्तृत्वं नात्मन इत्यर्थः। अत्र कठवल्ल्यां “न जायते म्रियते वा” इत्यादिनाऽऽत्मनो जन्ममरणादिप्रकृतिधर्मान् प्रतिषिध्य ।

हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजातीनो नायं हन्ति न हन्यते ।।

इति हननादि क्रियासु कर्तृत्वनिषेधात् । श्रीगीतायां च सर्वेश्वरेण-

नान्यं गुणेभ्यः कत्र्तारं यदा द्रष्टाऽनुपश्यति ।
कार्यकारणकतृत्वे हेतुः प्रकृतिरुच्यते ।। पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ।
इति स्वयमेवोक्तत्वात् । एवमध्यात्मशास्त्रेषु आत्मनो भोक्तृत्वस्य गुणानां कर्तृत्वस्य च आभिधानात् कर्तृत्वं प्रकृतेरेवात्मनस्तु न कर्तृत्वमपि तु भोक्तृत्वमेवेति ते वदन्ति ।

तन्निराकरोति तदेत्यादिना ।

३२. तदाऽस्य शास्त्रवश्यत्वं भोक्तृत्वं च न स्यात् ।

भाष्यम्– यदि प्रकृतेरेव कर्तृत्वं नात्मनस्तदास्य विधिनिषेधरूपशास्त्राधिकारितया तद्वत्त्वं विहितनिषिद्धकरणप्रयुक्त सुखदुःखरूपफलभोक्तृत्वं च न स्यादित्यर्थः । चेतनस्याकर्तृत्वे शास्त्रवैयर्थ्यप्रसङ्गः “शास्त्रफलं प्रयोक्तरि” “कर्त्ता शास्त्रार्थवत्त्वात्” इत्युक्तम् । “स्वर्गकामो यजेत” “मुमुक्षुर्ब्रह्मोपासीत” इति स्वर्गमोक्षादिफलभोक्ता हि कर्तृत्वेन शास्त्रेण नियुज्यते । तस्मात् फलभोक्त्रैव कर्त्रा भवितव्यम्। अचेतनस्यैव यदि कर्तृत्वं तदा चेतनमधिकृत्य विधिर्न सम्भवति । शासनाच्छास्त्रमुच्यते । शासनं प्रवर्तनम् । शास्त्रस्य प्रवर्त्तकत्वं बोधजननद्वारा अचेतनस्य प्रधानस्य बोधोत्पादनं न सम्भवति । अतः शास्त्रस्यार्थवत्त्वे भोक्तुश्चेतनस्यैव कर्तृत्वं वक्तव्यम् । एतत्सर्वमभिप्रेत्य तदाऽस्य शास्त्रवश्यत्वं भोक्तृत्वं च न स्यादित्युक्तम् ।

तर्हि कर्तृत्वं सर्वमस्य स्वरूपप्रयुक्त किमित्याशङ्कायामाह सांसारिकेत्यादि ।

३३. सांसारिकप्रवृतिषु कर्तृत्वं न स्वरूपप्रयुक्तमपि तु

भाष्यम्- सांसारिकप्रवृत्तयः रूयन्नपानादि भोगानुद्दिश्य क्रियमाणाः स्वव्यापाराः, तत्र कर्तृत्वमौपाधिकत्वात्स्वरूप प्रयुक्तं न भवतीत्यर्थः ।

तर्हि तदस्य किंप्रयुक्तमित्यत आह- गुणेत्यादि-

३४. गुणसंसर्गकृतम् ।

गुणाः सत्त्वरजस्तमांसि तेषां संसर्गेण भवतीत्यर्थः ।

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते।। इति

गीतायाम् । एतत्सर्वं “कर्त्ता शास्त्रार्थवत्त्वात्” इतिसूत्र- व्याख्याने पूर्वपक्षसिद्धान्तरूपेण भाष्यकृद्विस्तरेण स्वयमवोचत् । एवं सांख्यपक्षं निराकृत्यात्मनः कर्तृत्वं प्रसाधितम् ।

३५. कर्तृत्वं चेश्वराधीनम् ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

One thought on “Tattva Trayam: Sutram 31, 32, 33, 34”

Leave a comment