Tattva Trayam: Sutram 35

एतच्च किं स्वायत्तं किं वा परायत्तमित्याशंकायामाह- कर्तृत्वं चेत्यादि ।

३५. कर्तृत्वं चेश्वराधीनम् ।

भाष्यम्:

इदञ्चात्मनः कर्तृत्वं न स्वाधीनमपि त्वीश्वराधीनमित्यर्थः । “परात्तुतच्छुतेः (2.3.40) ” इतिवेदान्तसूत्रेणात्मनः कर्तृत्वं परायत्तमिति श्रुतिसिद्धमित्युक्तम् । शास्त्रार्थवत्वाय कर्तृत्वमात्मधर्म इति स्वीकर्त्तव्यम् । तस्य कर्तुर्धर्मभूतानां ज्ञानेच्छाप्रयत्नानां भगवदधीनत्वात् तेषां ज्ञानादीनां भगवदनुमतिं विना क्रियाहेतुत्वासम्भवात्, अस्य कर्तृत्वमीश्वराधीनमित्युच्यते । एतद्बुद्धिपूर्वमप्रयत्नमपेक्ष्येश्वरेणानुमतिकरणात्तत्क्रियानिबन्धनानि पुण्यपापान्यपि चेतनस्यैवेति विवरणे कृष्णपादैरुक्तम् । कर्तृत्वस्य परमात्माधीनत्वेऽपि विधिनिषेधवाक्यानां न वैयर्थ्य “कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्य (2.3.41)” इति परिहृतत्वात् ।

अयमर्थः- विधिनिषेधानां वैयर्थ्याप्रसक्तये चेतनकृतप्रथमप्रयत्नमपेक्ष्येश्वरः प्रवर्त्तयतीति । तथा हि, सर्वेषां चेतनानां ज्ञातृत्वस्य स्वभावत्वात् सामान्येन प्रवृत्तिनिवृत्तियोग्यत्वमस्ति । एवंभूतस्वरूपनिर्वाहायेश्वरोऽन्तरात्मतया तिष्ठति दाहितस्वरूपशक्तिश्चेतनस्तत्तत्पदार्थेषूत्पन्नज्ञानचिकीर्षाप्रयत्नो वर्त्तते, तत्र मध्यस्थत्वादुदासीनवद्वर्त्तमानः परमात्मा तेषां चेतनानां पूर्ववासनाऽनुरूपायां विधिनिषेधप्रवृतावनुमत्यनादराभ्यां युक्तविहितेष्वनुग्रहं निषिद्धेषु निग्रहं च कुर्वन्ननुग्रहात्मकस्य पुण्यस्य फलं सुखं निग्रहात्मकस्य पापस्य फलं दुःखं च तत्तच्चेतनानां ददाति ।

अमुमर्थमभियुक्ता अपि वदन्ति
आदावीश्वरदत्तयैव पुरुषः स्वातन्त्र्यशक्त्या स्वयं,
तत्तज्ज्ञानचिकीर्षणप्रयतनान्युत्पादयन् वर्तते।
तत्रोपेक्ष्य ततोऽनुमत्य विदधत्तन्निग्रहानुग्रहौ,
तत्तत्कर्मफलं प्रयच्छति ततः सर्वस्य पुंसो हरिः ।।
इति ।

आदौ सर्वनियन्त्रा सर्वान्तर्यामिणा सर्वेश्वरेण स्वस्योत्पाद्यदत्तया ज्ञातृत्वरूपया शक्त्याऽयं पुरुषः स्वयमेव तत्तद्विषयेषु ज्ञानचिकीर्षाप्रयत्नानि कुर्वस्तिष्ठति, तत्राशास्त्रीयेषूपेक्षां शास्त्रीयेष्वनुमतिं च कृत्वा तत्तद्विषयेषु निग्रहानुग्रहौ कुर्वन् तत्तत्कर्मफलं सर्वेश्वरो ददातीत्यर्थः । एवं सर्वप्रवृत्तिषु चेतनस्य प्रथमप्रयत्नमपेक्ष्य परमात्मा प्रवर्तयतीत्युक्तमित्यादिना दीपप्रकाशे वादिकेसरिभिरुक्ता अर्था अत्रानुसन्धेयाः। ननु तर्हि “एष एव साधु कर्म कारयति तं यमेभ्योलोकेभ्य उन्निनीषति (कौषीतकि उपनिषत् 3.9) इत्युन्निनीषयाऽधोनिनीषया च सर्वेश्वरः स्वयमेव साध्वसाधुकर्माणि कारयतीति कथमुपपद्यत इति चेत् ? न’ इदं न सर्वसाधारणं किन्तु यः पुरुषो भगवद्विषयेऽतिमात्रानुकूल्ये व्यवस्थितः प्रवर्त्तते, तस्य भगवान्स्वयमेव स्वप्राप्त्युपायेष्वतिकल्याणेषु कर्मसु रुचिमुत्पादयति, यस्त्वतिमात्रप्रातिकूल्ये व्यवस्थितः प्रवर्त्तते तस्य स्वप्राप्तिविरोधिष्वधोगतिसाधनेषु कर्मषु सङ्ग कारयति इति एतच्छ्रुतिवाक्यार्थः ।
अमुमर्थं सर्वेश्वरः स्वयमेवाह-

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्त्तते ।
इति मत्वाभजन्ते मां बुधा भावसमन्विताः ।। (गीता १०.८) इत्यारभ्य

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।। तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ।। (गीता १०.१०-११) इति ।

असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् । (गीता १६.८) इत्यारभ्य
मामाऽत्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । । (गीता १६.१८)

इत्यन्तं तेषां प्रातिकूल्यातिशयमुक्त्त्वा-

तस्मादनुमन्तृत्वमेव सर्वसाधारणं, प्रयोजकत्वं विशेषविषयमित्येव स्वीकार्य्यम् । “कृतप्रयत्नापेक्षस्तु(२.3.४२) इति सूत्रव्याख्याने एतत्सर्वभाष्यकृता स्वयमेवोक्तम् । एतत्सर्वमभिप्रेत्य कर्तृत्वमीश्वराधीनमित्युक्तम् ।

एवमेतावता ज्ञानाश्रयत्वं नाम ज्ञानस्याधारत्वमिति प्रथममात्मनो ज्ञातृत्वमुक्त्वा ज्ञानमात्रमात्मेति वादिनो निराकृत्य ज्ञातृत्वकथनानन्तरं कर्तृत्वभोक्तृत्वयोर्वक्तव्यतया तदुभयमपि ज्ञातृत्वबलेन स्वत एवोक्तमिति दर्शयित्वा गुणस्यैव कर्तृत्वं नात्मन इति वादिनो निराकृत्यात्मनः कर्तृत्वं स्थापयित्वा तत्र कर्तृत्वे स्वरूपाप्रयुक्तांशमस्य तदागमनहेतुं चोक्त्वा एवंभूतमात्मनः कर्तृत्वं स्वसर्वावस्थायामपीश्वराधीनमित्युक्त्वा न्यगमयत् । एतत्सर्वमात्मनो ज्ञानाश्रयत्वकथनेनार्थात्सङ्गतम् ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

One thought on “Tattva Trayam: Sutram 35”

Leave a comment