Tattva Trayam: Sutram 36, 37

नन्वेवमात्मा ज्ञानाश्रयश्चेत् “यो विज्ञाने तिष्ठन् । विज्ञानमयः, विज्ञानं यज्ञं तनुते” इति ।

“ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः ।”
“विज्ञानं परमार्थों हि द्वैतिनोऽतथ्यदर्शिन” इति शास्त्रेष्वयं ज्ञानमिति कथमुच्यत इति जिज्ञासुप्रश्नमनुवदति- ज्ञानाश्रय- श्चेदित्यादिना ।

३६. मूल- ज्ञानाश्रयश्चेदयं शास्त्रेषु ज्ञानत्वेन कथन्निर्दिश्यते।


शास्त्रेष्वेवंनिर्देशस्य मूलमाह- ज्ञानेनेत्यादिना ।

३७. ज्ञानेन विनाऽस्य प्रकाशात् ज्ञानस्य सारभूतगुणत्वेन निरुपकधर्मतया तथा निर्दिश्यते ।

भाष्यम्- ज्ञानस्य स्वाश्रयं प्रति स्वयं प्रकाशत्ववज्ज्ञाननिरपेक्षमात्मनोऽपि स्वं प्रति स्वयंप्रकाशत्वाज्ज्ञानस्य ज्ञानाश्रयस्य सारभूतगुणत्वात् स्वरूपानुबन्धित्वेन स्वरूपनिरूपकधर्मत्वात् तथा निर्द्दिश्यत इत्यर्थः । अयमर्थः “तद्गुणसारत्वात्तद्व्यपदेशः प्राज्ञवत्” “यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्” इतिसूत्राभ्यामुक्तः । “ज्ञानमात्रव्यपदेशस्तु ज्ञानस्य प्रधानगुणत्त्वात् स्वरूपानुबन्धित्वेन स्वरूपनिरूपकगुणत्वाज्ज्ञानवत्स्वयं प्रकाशत्वाच्चोपपद्यते” इति दीपे भाष्यकारैरुक्तम्।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

One thought on “Tattva Trayam: Sutram 36, 37”

Leave a comment