Tattva Trayam: Sutram 38

नियाम्यत्वमित्यादिना ।

३८. नियाम्यत्वं नामेश्वरबुद्धयधीन सकलव्यापारवत्वम्।

भाष्यम्- “य आत्मनि तिष्ठन् य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः” इत्याद्युक्तप्रकारे- णान्तरात्मतया नियमनस्येश्वरस्य सर्वकालीनत्वात् इदमात्मवस्तु तस्य नियाम्यं भवति । शरीरस्य सकलप्रवृत्तयोऽपि यथा शरीरिणो बुद्ध्यधीना भवन्ति, तथा शरीरभूतस्यात्मवस्तुनः सकलव्यापारा अपि शरीरिणः परमात्मनो बुद्ध्यधीना भवन्तीति भावः । एवं तच्छरीरतया तदधीनसकलप्रवृत्तिकत्वेऽपि अचेतनशरीरवत् स्वयं किञ्चित्प्रवृत्तिङ्कर्तुसामर्थ्याभावाज् ज्ञातृत्वभोक्तृत्वस्वाभाविकधर्मकत्वेन ज्ञानचिकीर्षाप्रयत्नपूर्वकप्रवृत्तिक्षमत्वात् सकलप्रवृत्तिष्वप्यस्य प्रथमप्रयत्नमपेक्ष्येश्वरेणानुमतिदानान्न विधिनिषेधशास्त्रवैयर्थ्यम् । एतत्प्रवृत्तिमूलयोरीश्वरेण क्रियमाणयोर्निग्रहानुग्रहयोस्तदनुगुण- फलप्रदानस्य च न विरोध इत्ययमर्थः प्रागुक्तः ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

One thought on “Tattva Trayam: Sutram 38”

Leave a comment