धार्यत्वमित्यादि ।
३९. मूल धार्यत्वं नाम तत्स्वरूपसङ्कल्पव्यतिरेकप्रयुक्तस्वसत्ताव्यतिरेकयोग्यत्वम् ।
भाष्यम्- “एष सेतुर्विधरणः” “तत्सर्वं प्रज्ञाने प्रतिष्ठितम्” “एवमेव चास्मिन्नात्मनि सर्वाणि भूतानि सर्व एवात्मानः समर्पिताः” “एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः” इत्याद्युक्तप्रकारेणेश्वरस्य सकलचेतनानामपि धारकत्वात् एतदात्मवस्तुनो धार्य्यत्वात् स्वस्य नियमेन धारकस्य सत्ताहेतोस्तस्य दिव्यात्मस्वरूपस्य एतत्स्व- रूपाश्रयत्वस्य सत्ताऽ नुवृत्तिरूपस्थितेश्च हेतोस्तस्य नित्येच्छाकार्य्यस्य नित्यसङ्कल्पस्य च ब्यतिरेके स्वसत्ताहानिसम्भवार्हत्वमित्यर्थः । एवं धार्यवस्तूनि स्वरूपसङ्कल्पाभ्यां धत्त इत्ययमर्थोऽभियुक्तैरपि विस्तरेण प्रतिपादितः । “तथा हि, ईश्वरः स्वस्वरूपनिरूपकधर्माणां निरूपितस्वरूपबिशेषणानां गुणानामिव स्वव्यतिरिक्तसमस्तद्रव्याणा- मप्यव्यवधानेन स्वरूपेण धारको भवति, तत्तद्ब्रव्याश्रितगुणानां तत्तद्दव्यद्वारा धारको भवति, जीवैध्रियमाणानां शरीराणां जीवद्वाराधारक इति केचिदाचार्या वदन्ति । जीवान् द्वारीकृत्य स्वरूपेण च धारको भवतीति केचिदाचार्या वदन्ति।
एवं सर्वेषामप्याश्रयापेक्षयाऽ पृथक्सिद्धविशेषण- त्वादेतेषां सत्ताऽऽदय आश्रयसत्ताऽधीनाः सर्ववस्तूनां सत्तायाः सङ्कल्पाधीनत्वं नाम अनित्यानामनित्वेच्छाऽ घीनोत्पत्तिकत्वं नित्यानां नित्येच्छाऽ धीनसिद्धिकत्वम् । अमुमर्थम् “इच्छात एव तव विश्वपदार्थसत्ता’ इति श्लोकेनाभियुक्ता विवेचितवन्तः । एतेन सर्वेषामपि सत्ताऽनुवृत्तिरूपायाः स्थितेरीश्वरेच्छाऽ धीनत्वात् सर्वंमपीश्वरसङ्कल्पाश्रितमित्युक्तं गुरुद्रव्याणि सङ्कल्पेन धृतानीति शास्त्रेणोच्यते-
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः । वासुदेवस्थ वीर्येण विधृतानि महात्मनः ।।
इत्मुक्तप्रकारेण क्वचिद्देशविशेषे प्रच्युतिस्थापनमपेक्ष्य एवमिच्छाऽधीनसत्तास्थितिप्रवृत्तिकानां वस्तूनां परमात्मस्वरूपेण किं क्रियत इति चेत्परमात्मन इच्छा एतानि परमात्मस्वरूपाश्रितानि करोति। एवं सर्वाण्यपि वस्तूनीश्वरस्वरूपाधीनानीश्वरेच्छा ऽ धीनानि तिष्ठन्ति । लोकेऽपि शरीरं शरीरिणः स्वरूपाश्रयं सङ्कल्पाश्रयं च पश्यामः । एतदवस्थानकाले विद्यमानत्वात् एतद्वियोगकाले नष्टत्वात्स्वरूपाश्रयम् । अयमर्थः सङ्कल्पशून्यसुषुप्त्याद्यवस्थासु सुविशदजागरादिदशसु सङ्कल्पेनाग्नच्युतिधारणे सङ्कल्पाश्रितमित्युक्तमिति” रहस्यत्रयसारे प्रतिपादितत्वात् ।

One thought on “Tattva Trayam: Sutram 39”