Tattva Trayam: Sutram 40, 41

शेषत्वमित्यादि।

४०. शेषत्वं नाम चन्दनकुसुमताम्बूलादिवत्तस्येष्टविनियोगार्हत्वम् ।

भाष्यम्-

चन्दनकुसुमादिपदार्थानां यथास्वार्थतालेशोऽपि नास्ति, लिम्पतो दधतश्चोपयोगः । स्वार्थ विनियुञ्जानः स्वाभिमतानां दद्यात्तथा यथेष्टविनियोगार्हत्वं भवति । तथा चेतनवस्तुत्वेऽपि स्वप्रयोजनगन्धो नास्ति स्वस्य स्वरूपस्वभाववैलक्षण्यादिभिः सर्वैरपि हि शेषिणोऽतिशयकरत्वम्। विनियोगदशायां, स्वयं स्वार्थं विनियुङ्गाद् “दासानां मां दासं कुर्वन् विमल” (अमलनादि पिरान) इत्युक्तप्रकारेण स्वाभिमतानामप्युपयुक्तं कुर्यात् तथा यथेष्टनिवियोगार्हत्वमित्यर्थः । अचिद्रव्यस्य चिद्दव्यदृष्टान्तत्वाभिधानं पारतन्त्र्यातिशयद्योतनार्थम् । आत्मस्वरूपयाथात्म्यस्यैतादृशत्वा – त्प्राप्यरूपनिष्कर्षकरणावसरे “स्वार्थमेव मां स्वीकुर्विति ” (तनक्के आघ) दिव्यसूरिभिरुक्तम् । ‘परगताऽतिश- याधानेच्छयैवोपादेयत्वमेव यस्य स्वरूपं स शेषः, परः शेषी’ (वेदार्थ संग्रह) इति शेषशेषित्वलक्षणं भाष्यकारैरुक्तम् । एतल्लक्षणवाक्य मनुसृत्य-

इच्छया यदुपादेयं यस्यातिशयसिद्धये । उभयानुभयैकैकजुषा तौ शेषशेषिणौ ।।

इति शेषशेषिलक्षणमभियुक्ता अप्यवदन् ।

यथेष्टं विनियोगार्हः शेषशब्देन कथ्यते ।
ईश्वरेण जगत्सर्वं यथेष्टं विनियुज्यते ।।

इत्युक्तत्वाद् शेषत्वं यथेष्टं विनियोगार्हत्वमिति शास्त्रसिद्धम्। एवमीश्वरविषये आत्मनः शेषत्वं, यस्यास्मि न तमन्तरैमि ।”

परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते ।

दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः ।
नान्यथा लक्षणं तेषां बन्धे मोक्षे तथैव च ।।

स्वोज्जीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि ।
आत्मदास्यं हरेः स्वाम्यं स्वभावं च सदा स्मर ।

इत्यादिश्रुतिस्मृत्यादिभिरुक्तम्

कस्यचिद् गृहक्षेत्रादीनां शरीरस्य च शेषत्वेऽपि गृहक्षेत्रादयः पृथस्थित्यादेरर्हाः शरीरं तदनर्ह दृश्यते । इदमात्मवस्त्वीश्वरस्थ शेषं कथमिति शङ्कायामाह – इदं चेत्यादि ।

41. इदं च गृहक्षेत्रपुत्रकलत्रादिवत्पृथस्थित्यादीनां योग्यं न भवति, किन्तु शरीरवत्तदयोग्यं भवति ।

भाष्यम् – इदमेवमीश्वरशेषतयोक्तमात्मवस्तु, गृहक्षेत्रकलत्रादीत्यत्रादिशब्देनधन धान्यारामदासदासीवर्गा उच्यन्ते। पृथ‌सिद्ध्यादीनां योग्यं न भवतीत्यत्र पृथसिद्धिर्नाम सहोपलम्भनियमं विना शेषिणं विहाय सिद्धिः । आदिशब्देनानेकसाधारण्यमुच्यते । गृहक्षेत्रदासदासीप्रभृतयः । पितृपुत्रज्येष्ठकनिष्ठादीनां साधारणशेषाः । पुत्रो मातापितृपितृव्यादीनां साधारणशेषः। कलत्रं च

सोमः प्रथमो विविदे गन्धों विविद उत्तरः ।
तृतियोऽग्निष्टे पतिस्तुर्य्यस्ते मनुष्यजः ।।

इति पाणिग्रहणान्तरं सोमादीनां शेषतयाऽभिहितत्वादनेकसाधारणं भवति । एतद्विलक्षणं शरीरवत्तदयोग्यत्वं नाम अपृथसिद्धानन्यसाधारणशरीरवत्पृथसिद्ध्यादीनामनर्हत्वम् । पृथक्स्थित्यादीनामिति पाठे आदिशब्देन पृथगुपलम्भ उच्यते । तदानीमपि गृहक्षेत्रकलत्रादिवत्पृथक्स्थितेः पृथगुपलम्भस्य च योग्यत्वं विना शरीरवत्तदुभयानर्हत्वमिति हृदयम् ।

“अयमेवात्मशरीर भावः पृथसिद्ध्यनर्हाधाराधेयभावो नियन्तृनियाम्यभावः शेषशेषिभाव इति, यस्य चेतनस्य यद्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यं तच्छेषतैकस्वरूपम् तत् तस्य शरीरमिति च”, वेदार्थसंग्रहे श्रीभाष्ये चात्मशरीरभावलक्षणतया भाष्यकारैरुक्तम् । नियन्तृनि- याम्यभाव आधाराधेयभावः शेषशेषिभाव इत्येतत्त्रयमत्रोक्तम् । अतो “यस्यात्मा शरीरं” “यस्याक्षरं शरीरं” इत्यादिश्रुति- सिद्धमात्मनः परमात्मनः शरीरत्वमर्थादुक्तम् । एवमात्मस्वरूपशोधनं कृतम् ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

One thought on “Tattva Trayam: Sutram 40, 41”

Leave a comment