Tattva Trayam: Sutram 42, 43

एवंभूतात्मस्वरूपस्यानाद्यचित्सम्बन्धतद्वियोगतदनन्वयैर्बद्धमुक्तनित्यरूपेण त्रैविध्यमाहआत्मस्वरूपं चेत्यादिना।

42. आत्मस्वरूपं च बद्धमुक्तनित्यभेदेन त्रिविधम् ।

तत्र बद्धाः के इत्याकांक्षायामाह बद्धा इत्यादि ।

43. बद्धा इत्युच्यन्ते संसारिणः।

भाष्यम्- ते च तिलतैलवद्दारुवह्निवदुर्विवेचगुणत्रयात्मकानादिभगवन्मायातिरोहितस्वरूपा अनाद्यविद्यासञ्चितानन्तपुण्यपापरूपकर्मवेष्टितास्तत्तत्कर्मानुगुणविविध देहानुबन्धिषु विचित्रदेवादिरूपदेहविशेषप्रविष्टास्तत्तद्देहेष्वहंबुद्धिं ममताबुद्धिं च कुर्वाणा दुर्वासनारुचिविवशाः स्वस्वकर्मानुगुण- सुखदुःखपरम्परामनुभवन्तः ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

2 thoughts on “Tattva Trayam: Sutram 42, 43”

Leave a comment