ननु मुक्ताः के इत्याकांक्षायामाह – मुक्ता इत्यादि।
44. मुक्ता निवृत्तसंसाराः
भाष्यम्: ते चानादिकर्मप्रवाहप्रयुक्ते संसारसम्बन्धे वर्त्तमाने मोक्षरुचिप्रतिबन्धके कर्मविशेषेऽनुभवेन वा सामान्येनानुष्ठितैः प्रायश्चित्तकर्मभिर्वाऽ नभिसंहितफलैरत्युत्कटैः प्रामादिकपुण्यैर्वा नष्टे तेन हेतुना जायमानदशायां भगवत्कटाक्षेण जातेन सत्त्वोद्रेकेण मोक्षरुचौ जातायां सद्गुरुसमाश्रयणसम्प्राप्तवेदान्तवेद्य परब्रह्मज्ञानात्तत्प्राप्ति रूपमोक्षसिद्ध्यर्थ स्ववर्णाश्रमोचितानि कर्माणि फलसङ्गकर्तृत्वत्यागपूर्वकमनुष्ठाय “धर्मेण पापमपनुदति” “कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते” इत्युक्तप्रकारेण तादृशसत्कर्मानुष्ठानेन ज्ञानोत्पत्तिविरोधिप्राचीनकर्मक्षये सति निर्मले चान्तःकरणे भगवदेकालम्बिनि सम्यग्ज्ञाने चोदिते अनन्तरम् –
जन्मान्तरसहस्त्रेषु तपोध्यानसमाधिभिः
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ।।
इत्युक्तप्रकारेण बहुतरजन्मसाध्यकर्मज्ञानाभ्यामुत्पन्नतैलधारावदविच्छिन्नस्मृतिसन्तानरूपभक्तिमूलभगवत्प्रसादेन वा स्वीयनिर्हेतुकसौहार्दविशेषेण यादृच्छिकसुकृतपरम्पराः कल्पयित्वा तद्धेतुकं विशेषकटाक्षकं कृत्वाऽ नन्तरमद्वेषमुत्पाद्याभिमुख्यं जनयित्वा सात्त्विकसम्भाषणं कारयित्वा तन्मार्गेण सदाचायें समाश्रयणं कारयित्वा तन्मार्गेण वा स्वीयविशेषकटाक्षेन वा तत्त्वज्ञानमुत्पाद्य महाविश्वासपूर्वकं स्वचरणावेवोपायावित्यध्यवसाये स्थापयतो भगवत आकस्मिककृपयोपायान्तरविषये दुष्करत्वादिबुद्धिमूलकप्रपदनमूलकभगवत्प्रसादेन वा सांसारिकसकलदुरितेषु निवृत्तेष्वाविर्भूतस्वरूपा भगवत्कैङ्कय्यैक भोगाश्चेतनाः अविशेषेण निवृत्तसंसारबन्धानामेव मुक्ता इत्यभिधानात्, भगवदनुभवे रुचिं विना तत्समाश्रयणं कृत्वा संसारनिवृत्तिं कृत्वा देशविशेषं गत्वा स्वस्वरूपानुभवं कुर्वाणाः केवला अप्युच्यन्ते ।

2 thoughts on “Tattva Trayam: Sutram 44”