अथ नित्याः क इत्याकांक्षायामाह – नित्या इत्यादिना ।
45. नित्या इत्युच्यन्ते कदाऽपि संसारमप्राप्ताः शेषशेषाशनादयः ।
भाष्यम् : कदाऽपि संसारमप्राप्ता इत्युक्त्या मुक्ता व्यावर्त्यन्ते। ते हि निवृत्तसंसाराः। एते ह्यस्पृष्टसंसारगन्धाः । “अहतसहजदास्याः सूरिणः स्रस्तबन्धा विमलचरमदेहाः” इति भट्टार्य्याः (श्री रंगराज स्तव)। “नित्यो नित्यानां,” “ज्ञाज्ञौ द्वावजावीशानीशौ” इत्युक्तप्रकारेणात्मस्वरूपस्य नित्यत्वेऽपि “असन्नेव” इत्युक्तिः “सन्तमेनम्” इत्युक्तिश्च भगवद्विषयज्ञानराहित्यसाहित्याभ्यां खलु तस्मादेतेषां नित्यत्वाभिधानं भगवज्ज्ञानस्य कदाऽपि सङ्कोचाभावादिति स्वीकर्त्तव्यम् । अत एव “यत्र पूर्वे साध्याः सन्ति देवाः” इति “यत्रर्षयः प्रथमजा ये पुराणा” इति च श्रुतिरेताञ् श्लाघते। भाष्यकारश्चैतेषां वैभवं स्वच्छन्दानुवृत्तीत्यादिभिर्गद्ये विस्तरेणावोचत् । अतः कदाऽपि संसारमप्राप्ता इत्येनेनैतेषां सर्वोऽपि विभव उक्तः । अशेषशेषवृत्तिष्वप्यन्वितत्वात्कैङ्कर्य्यपराणां सर्वेषां प्रधानत्वाच्चानन्तः शेष इत्युच्यते ।
निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः ।
शरीरभेदैस्तव शेषतां गतैर्यथोचितं शेष इतीर्य्यते जनैः ।। (स्तोत्र रत्न)
इति यामुनाचाय्यैरुक्तम् । इतरतदीयवदनियमं विना सर्वेश्वरभुक्तशेषं विना किञ्चिदपि न भुंक्त इति नियमेन सेनानीश्शेषाशन इति निरूप्यते । “त्वदीयभुक्तोज्झितशेषभोजिना‘ इति यामुनाचार्य्याः “वनाद्रिनाथस्य सुसुन्दरस्य वै प्रभुक्तशिष्टाश्यथ सैन्यसत्पतिः” इति कूरेशः । आदिशब्देन “शेषशेषाशनगरुड प्रमुखनानाविधानन्तपरिजनपरिचारिकापरिचरितचरणयुगल‘ इत्युक्तप्रकारेण भगवत्कैङ्कय्यैकभोगा वैनतेयप्रमुखा नित्यसिद्धा उच्यन्ते ।

2 thoughts on “Tattva Trayam: Sutram 45”