Tattva traya: Sutram 93, 94, 95, 96

विकारदशायामेतेषां कार्येकनिरूपणीयत्वात् कार्यकथनमुखेनैतेषां स्वरूपाणि दर्शयति ।

  1. सत्त्वं ज्ञानसुखे तदुभयसङ्ग च जनयति,

भाष्यम्- सत्त्वमित्यादिना । सत्त्वगुणो निर्मलत्वाज् ज्ञानसुखावरणत्वं बिना तज्जनकं तत्प्राप्तये प्रवृत्त्यर्थं तयोः सङ्गं च जनयतीत्यर्थः ।

तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ।। (भगवद्गीता 14.6)

इत्यादि । रज इत्यादि ।

  1. रजो रागतृष्णासङ्गान् कर्मसङ्गं च जनयति

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ।।

इत्यादिना । रागो योषित्पुरुषयोरन्योऽन्यस्पृहा । तृष्णा शब्दादिसर्वविषयस्पृहा । सङ्गः पुत्रमित्रादिसंश्लेषस्पृहा । कर्म्मसङ्गः क्रियासु स्पृहा । तम इत्यादि ।

  1. तमो विपरीतज्ञानमनवधानमालस्यं निद्राञ्च जनयति ।

भाष्यम् : तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ।।

इत्यादि विपरीतज्ञानं नाम वस्तुयाथात्म्यविपरीतविषयकं ज्ञानम्। अनवधानं क्रियमाणेऽवधानाभावः । आलस्यं कुत्रापि कार्येऽनारम्भरूपा तन्द्रा । निद्रा पुरुषस्येन्द्रियप्रवर्तनश्रान्तिमूलका सर्वेन्द्रियप्रवर्तनोपरतिः ।

अथैतेषां गुणानां समदशयां विषमदशायां च प्रकृतेर्विकारानाह-

  1. एतेषां साम्यदशायां विकाराः समा अस्पष्टाश्च भवन्ति, वैषम्यदशां विकारा विषमाः स्पष्टाश्च भवन्ति ।

भाष्यम्:- एतेषां साम्यदशायामित्यादिना । एतेषां गुणानां परस्परोद्रेकं वा कृत्स्नोद्रेकं वा विना साम्यापत्तिदशायां प्रकृतेर्विकारा नामरूपराहित्येन मिथः समाः प्रमाणैर्दर्शयितु मयोग्या अस्पष्टाश्च भवन्ति । एतद्गुणानामुद्रकेण वैषम्ये प्रकृतेर्विकारा नामरूपविशेषसाहित्येन परस्परं विषमाः प्रमाणैर्द्दर्शयितुं योग्याः स्पष्टाश्च भवन्तीत्यर्थः । प्रदेशभेदेन कालभेदेनेति पूर्वोक्तस्यैतद्गुणवैषम्यमेव हेतुः । तदत्र विशदम् ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

Leave a comment