Tattva traya: Sutram 77, 78

लोकाचार्यमुपास्महे यतिपतेः कारुण्यपात्रं गुरुम्
श्रीमन्मारुतिकल्पमिन्द्रियजये कारुण्यवारांनिधिम् ।
मोहध्वान्तविवेकशून्यजनता संसृत्यरण्याश्रया
यच्छ्रीसूक्तिमणित्विषैव सुसुखं सन्मार्गमालोकते ॥

अथ अचित्प्रकरणम्

भाष्यम्- तत्त्वत्रयं चिचिदीश्वरश्चेत्युद्देशक्रमेण प्रथमं चिच्छब्दवाच्यस्यात्मनः स्वरूपस्वभावविशेषान् स्फुटमवोचत् । अनन्तरमचिद्वस्तुनः स्वरूपस्वभावविशेषानतिस्फुटमाह । तत्र प्रथममचिल्लक्षणमाह । अचिदित्यादिना ।

77. अचिज्ज्ञानशून्यं विकारास्पदम् ।

भाष्यम् – अचित् चैतन्यानाधारो वस्तु । तदेवाह-ज्ञानशून्यमिति । अत एव श्रुतिर्भोग्यशब्देनाचिद्वस्त्वाभिधत्ते । विकारास्पदत्वं नाम विकारस्याश्रयत्वम् । विकारोऽवस्थान्तरापत्तिः ।
सा च विद्वत्सदैकरूपत्वाभावः ।

एवमेतल्लक्षणकथनानन्तरमस्याचिद्वस्तुनः सत्त्वैकाधारतया सत्त्वादिगुणत्रयाधारतया सत्त्वादिगुणत्रयशून्यतया च त्रैविध्यमाह- इदमित्यादिना ।

78. इदं शुद्धसत्त्वं मिश्रसत्त्वं सत्त्वशून्यं चेति त्रिविधम् ।

भाष्यम्: उद्देशक्रमेणाचित्तत्त्वस्य च स्वरूपस्वभावविशेषान् प्रतिपादयिष्यन् प्रथमं शुद्धसत्त्वस्य प्रकारानाह ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

Leave a comment