Tattva traya: Sutram 79

तत्र शुद्धसत्त्वमित्यादिना-

79. तत्र शुद्धसत्त्वं नाम रजस्तमोऽमिश्रकेवलसत्त्वं नित्यं ज्ञानानन्दजनकं कर्मणा विना केवलभगवदिच्छया विमानगोपुरमण्डपप्रासादादिरूपेणपरिणतं निरवधिकतेजोरूपं नित्यमुक्तैरीश्वरेण च परिच्छेतुमशक्यमत्यद्भुतं वस्तु ।

भाष्यम्- शुद्धसत्त्वं गुणान्तरामिश्रितसत्त्वगुणवदित्यर्थः । तदाह रजस्तम इत्यादिना। “क्षयन्तमस्य रजसः पराके” “तमस्तु पारे, तमसः परस्तात्” “पञ्चशक्तिमये दिव्ये शुद्धसत्त्वे सुखाकरे” इत्यादिश्रुतिस्मृतिभिरुक्तम् । नित्यमनादिनिधनम् तदक्षरे परमे व्योमन् ।”

कालातीतमनाद्यन्तमप्राकृतमचञ्चलम् ।
प्राप्यमर्चिर्मयात्सद् भिर्मयि संन्यस्तमानसैः ।।
यत्तत्पुराणमाकाशं सर्वस्मात्परमं ध्रुवम् ।
यत्पदं प्राप्य तत्त्वज्ञा मुच्यन्ते सर्वकिल्विषैः ।।

इत्येतस्य नित्यत्वमपि श्रुतिसिद्धम् । ज्ञानानन्दजनकमिति, शुद्धसत्त्वमयत्वात् ज्ञानानन्दजनकमित्यर्थः । सत्त्वं ज्ञानसुखावहं खलु । अत एव शुद्धसत्त्व इत्यनन्तरं सुखाकर इत्युक्तम् । कर्मणा विना केवलभगवदिच्छया विमानगोपुरमण्डपप्रासादादिरूपेण परिणतमिति चेतनाः कर्मानुगुणमिच्छन्ति । तदिच्छानुगुणभगवत्सङ्कल्पेन चतुर्विशतितत्त्वरूपेण परिणम्य चेतनानां भोग्यभोगोपकरणभोगस्थानरूपेण स्थितं प्रकृतितत्त्वमिव न भवतीदं, किन्तु स्वभोगार्थतया भगवदिच्छया विमानगोपुरादिरूपेण परिणमत
इत्यर्थः। “देवानां पूरयोध्या तस्यां हिरण्मयः कोशः यो वै तां ब्रह्मणो वेदामृतेनामृतां पुरीम्” (अथर्ववेद 10.2.31) “अपराजिता पूर्ब्रह्मणः प्रजापतेः सभां वेश्म प्रपद्ये” इति श्रुतौ संग्रहेण नित्यविभूतौ विद्यमाना दिव्यनगरदिव्यायतनादय उक्त्ताः । अमुमर्थ श्रीभाष्यकारः श्रीवैकुण्ठगद्ये “दिव्यावरणशतसहस्त्रावृते दिव्यकल्पतरूपशोभिते दिव्योद्यानशतसहस्त्रकोटिभिरावृतेऽतिप्रमाणे दिव्यायतने कस्मिश्चिद्विचित्रदिव्यरत्नमयदिव्याऽ ऽ स्थानमण्डप” (वैकुण्ठ गद्य) इत्यादिना विस्तरेणावोचत् । निरवधिकतेजोरूपमिति । अग्न्यादित्यादितेजः पदार्थानपि खद्योतकल्पान् कुर्वदनवधिकतेजः स्वरूपमित्यर्थः ।

न तत्र सूर्यो भाति न च चन्द्रतारकं । नेमा विद्युतो भान्ति कुतोऽयमग्निः ।। (कठोपनिषद 5.15)

अतर्क्यानलदीप्तं तत्स्थानं विष्णोर्महात्मनः ।
स्वयैव प्रभया राजन् दुष्प्रेक्ष्यं देवदानवैः ।।

(विष्णु पुराण)

इत्यादि । एवं दिव्यसूरिभिरप्येतस्य निरवधिकतेजोरूपत्वं बहुषु स्थलेषूक्तम् ।

नित्यमुक्तैरीश्वरेण च परिच्छेत्तुमशक्यमिति, अस्य परिमाणदयः केनापि परिच्छेत्तुं न शक्यन्त इत्यर्थः । तेषामपीयत्परिमाणमियदैश्वर्यमीदृशस्वभावमिति परिच्छेत्तुमयोग्यमितिनित्यैः परिच्छेत्तुमयोग्यमिति श्रीवैकुण्ठगद्ये भाष्यकारैर्य्यदुक्तम्, तन्मुक्तानामपि तुल्यम् । ईश्वरज्ञानस्यैवैतेषां ज्ञानस्यापि सर्वदर्शित्वसत्त्वात्तेन परिच्छेत्तुं शक्यते चेदेतैरपि परिच्छेत्तुं शक्येतैव । तस्मात्तेनाप्यशक्यमेवेत्यर्थः । तर्हि एतेषां सर्वज्ञताया विरोध इति नाशङ्कनीयम्, सर्वज्ञता हि सर्वेषां यथावस्थिताकारविषयज्ञानम् । परिच्छेद्यं चेत्तथा ज्ञानम् । अपरिच्छेद्यं चेत्तथा ज्ञानम् । निस्सीमस्य कस्यचिदपरिच्छेद्येन ज्ञानं सर्वज्ञत्वानुगुणमिति ।

देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते ।
यद्यप्येवमथाऽपि नैव युवयोः सर्वज्ञता हीयते ।।
यन्नास्त्स्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदुः।
र्व्योमाम्भोजमिदन्तया किल विदन् भ्रान्तोऽयमित्युच्यते । ।

इति श्रीस्तुतौ कूरेशैरुक्तम् । अन्यथा स्वेनापि ज्ञातुमशक्यस्वभाव इत्येतदपि सर्वज्ञतया विरुध्येत । तस्मान्नित्यमुक्तेश्वरैरपरिच्छेद्यमित्यत्र न कोऽपि विरोधः । अनेनास्य विभव उक्तः ।

अत्यद्भुतमिति । अत्यद्भुतत्वं नामानुक्षणमपूर्वाश्चर्यावहत्वम्। अनन्ताश्चर्य्यानन्तमहाविभवेति भाष्यकृतः। एवं शुद्धसत्वमेतादृशमित्युक्तम् ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

Leave a comment