Tattva traya: Sutram 80, 81, 82

80. केचनैतज्जडं वदन्ति, केचिदजडं वदन्ति ।

एतच्छुद्धसत्त्वमेतद्दर्शनस्थेषु केचिज्जडमिति वदन्ति, केचिदजहमिति वदन्तीत्यर्थः । “इह जडामादिमां केचिदाहुः” इत्यभियुक्ताः । जडत्वं स्वयंप्रकाशराहित्यम् । तदेवाह- अजडत्व इत्यादिना ।

81.अजडत्वे नित्यानां मुक्तानामीश्चरस्य च ज्ञानेन बिना स्वयमेव प्रकाशते ।

भाष्यम्: अजडत्व इति, अजडमिति पक्ष इत्यर्थः । जडमिति केषाञ्चित्पक्षं विहाय तत्पक्षोपपादनादस्यायमेव पक्षोऽभिमत इति ज्ञायते । ज्ञानेन बिना प्रकाशत इति । ज्ञानेनैव न भासतेऽपि तु स्वयमेव भासत इत्यर्थः । नन्वेवं स्वयं भासत इति चेत्संसारिणामपि ज्ञानमनपेक्ष्य स्वयमेव कुतो न भासत इत्याशङ्कायामाह – संसारिणामिति ।

82.संसारिणां न भासते ।

भाष्यम् : इदं चाभियुक्तैर्विस्तरेण प्रतिपादितम् । तथा हि, “त्रिविधाऽ चेतनानीत्यारभ्य तत्र प्रकृतिः कालश्च जडौ, शुद्धसत्त्वद्रव्यमपि केचिज्जडं वदन्ति । जडत्वन्नाम स्वयंप्रकाशराहित्यम् । भगवच्छास्त्रादिकं परामृशन्तो ज्ञानात्मकतया शास्त्रसिद्धतया शुद्धसत्त्वद्रव्यं स्वयंप्रकाशमिति वदन्ति । एवं स्वयंप्रकाशं चेत्संसारिणां शास्त्रेणैव विना स्वयमेव भासेतेति चेत्सर्वेषामात्मनां स्वरूपस्य ज्ञानस्य च स्वयंप्रकाशत्वेऽपि स्वरूपं स्वस्यैव स्वयंप्रकाशम्, अन्येषां ज्ञानान्तरवेद्यं यथा भवति । यथा च धर्मभूतज्ञानं स्वाश्रयस्यैव स्वयंप्रकाशतेनेतरेषाम्, तथेदमपि नियतविषये स्वयंप्रकाशते चेन्न कोऽपि विरोधः ।

यो वेत्ति युगपत्सर्वं प्रत्यक्षेण सदा स्वतः ।
तम्प्रणम्य हरिं शास्त्रन्यायतत्त्वम्प्रचक्ष्महे ।।

इत्युक्तप्रकारेण धर्मभूतज्ञानेन सर्वं सदा साक्षात्कुर्वत ईश्वरस्य शुद्धसत्त्वद्रव्यं स्वयम्प्रकाशत इति कथमुपपद्यत इति चेन्न, अस्य धर्मभूतज्ञाने दिव्यात्मस्वरूपप्रभृतीनि सर्वाणि विषयीकुर्वत्यपि यथा दिव्यात्मस्वरूपं स्वयम्प्रकाशं भवति तथेदमपि स्वयम्प्रकाशं भवाति, तथा मुक्तानां तदवस्थायामिदमपि स्वयंप्रकाशम्भवतीति न कश्चिद्विरोधः । यथा धर्मभूतज्ञानस्य स्वात्मप्रकाशनशक्तिर्विषयप्रकाशाभावकाले कर्मविशेषैः प्रतिबद्धा भवति, तथा शुद्धसत्त्वस्य स्वात्मप्रकाशनशक्तिश्च बद्धदशायां प्रतिबद्धा भवति । तस्माच्छुद्धसत्वं बद्धानां न प्रकाशते ।

धियः स्वयंप्रकाशत्वं मुक्तौ स्वाभाविकं यथा ।
बद्धे कदाचित्संरुद्धं तथाऽत्रापि नियम्यते ।।

“एतावदवस्थाऽन्तरापत्तिर्विकारिद्रव्यस्य न विरुध्यते । तस्मात्प्रतिपन्नार्थस्य न युक्तिविरोधावकाश” इति रहस्यत्रयसारे प्रतिपादितम् ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

Leave a comment