मिश्र सत्त्वन्नाम रजस्तमोयुक्तसत्त्ववत् । तदेवाह सत्त्वरजस्मोभिरिति ।
85- मिश्रसत्त्वन्नाम सत्त्वरजस्तमोभिस्त्रिभिर्युक्तो बद्धचेतनानां ज्ञानानन्दयोस्तिरोधायको विपरीतज्ञानजनको नित्य ईश्वरस्य क्रीडापरिकरः प्रदेशभेदेन कालभेदेन च सदृशासदृशविकारोत्पादकः प्रकृत्यऽविद्यामायाऽपरनामाचिद्विशेषः ।
भाष्यम्- सत्वरजस्तमोभिस्त्रिभियुक्त इति ।
त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् । (विष्णु पुराण 1.2.21)
त्रिगुणं कर्मिणं क्षेत्रं प्रकृते रूपमुच्यते ।।
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।। (गीता)
इत्यादिकमत्र प्रमाणम् । बद्धचेतनानां ज्ञानानन्दयोस्तिरोधायक इति, गुणत्रयात्मकतया रजस्तमोंऽ शाभ्यां ज्ञानादेस्तिरोधायक इत्यर्थः । चेतनानां ज्ञानानन्दयोस्तिरोधायक इति सामान्येनानुक्त्त्वा बद्धचेतनानामिति विशेषणात् कर्मसंसृष्टचेतनानां ज्ञानादीनामेव तिरोधायकः । अन्यथा ऐच्छिकप्राकृतशरीरं परिगृहणतां नित्यमुक्तानां ज्ञानादेरिदं सङ्कोचकरं स्यात् । अत एव
“अहतसहजदास्याः सूरयः स्त्रस्तगन्धा विमलचरमदेहा इत्यमी रङ्गधा ममहितमनुजतिर्यक्स्थावरत्वाश्रयन्त” (रंगराज स्तव पूर्वशतक 33)
इत्युक्तप्रकारेण नित्यमुक्तानामत्रागत्य प्राकृतदेहान् परिगृह्य शेष्यतिशयं कुर्वता तदानीं सङ्कोचं न करोति। तस्माद्वद्धचेतनानां ज्ञानादेरेवेदं तिरोधायकमिति सिद्धम्। “अनीशया शोचति मुह्यमानः” (मुण्डक 3.1.2) “अनादिमायया सुप्तः” (पाँचरात्र) “भगवन्मायातिरोहितस्वप्रकाश‘ (शरणागति गद्य) इत्यादि । विपरीतज्ञानजनक इति । विपरीतज्ञानमतस्मिस्तद्बुद्धिः । सा चानात्मनि देह आत्मत्वबुद्धिः, अस्वतन्त्र आत्मनि स्वतन्त्रत्वबुद्धिः, अनन्यशेषेऽन्यशेषत्वबुद्धिः, अनीश्वरेष्वीश्वरत्वबुद्धिः, अपुरुषार्थ ऐश्वर्यादौ पुरुषार्थत्वबुद्धिः, अनुपायेषूपा- यत्बुद्धिरेवमादिका । यथार्थज्ञानं नोत्पादयतीत्येव न, अपि त्वेतादृशविपरीतज्ञानान्यपि बद्धचेतनानामुत्पादयतीत्यर्थः । भगवत्स्वरूपतिरोधानकरीं विपरीतज्ञानजननीमिति अयमर्थो भाष्यकारैरुक्तः । नित्य इति । उत्पत्तिविनाशरहित इत्यर्थः । “अजामेकाम्” (श्वेताश्वर) “गौरनाद्यन्तवती सा जनित्री भूतभाविनी । (मंत्रिकोपनिषद 4)”
अचेतना परार्था च नित्या सततविक्रया ।
विकार जननी मज्ञामष्टरूपामजां ध्रुवाम् ।। (मंत्रिकोपनिषद 3) इत्यादि ।
ईश्वरस्य क्रीडापरिकर इति । सर्वेश्वरस्य जगत्सृष्ट्यादिलीलायाः परिकर इत्यर्थः।
क्रीडतो बालकस्येव चेष्टां तस्य निशामय ।
अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी ।।
मोदते भगवान् भूतैर्बालः क्रीडनकैरिव । त्वं न्यञ्चद्भिरुदञ्चद्भिः कर्मसूत्रोपपादितैः ।
हरे विहरसि क्रीडां कन्दुकैरिव जन्तुभिः ।। (विष्णु पुराण 12.18-19)
इत्यादि भिरुक्तायाः सर्वेश्वरस्य लीलाया गुणत्रयात्मिका प्रकृतिः खलु प्रधानोपकरणम् । “सितासिता च रक्ता च सर्वकामदुधा विभोः” इत्यादि “दैवी ह्येषा गुणमयी मम माया दुरत्यया” इति स्वयमेवोक्तम् ।
प्रदेशभेदेन कालेभेदेन च सदृशासदृशविकारोत्पादक इति, प्रदेशभेदो गुणवैषम्यशून्यप्रदेशो गुणवैषम्यवान्, प्रदेशश्च । अस्य गुणवैषम्यं कार्योन्मुखे स्थूले, अन्यत्र सर्वत्र साम्यापन्नगुणवदेव भवति । तत्र गुणवैषम्यशून्य प्रदेशः सदृशविकारवान्, गुणवैषम्यवान् विसदृशविकारवान् भवति । सदृश विकारो नाम नामरूपविभागनिर्देशानर्हः सूक्ष्मविकारः, विसदृशविकारो नाम नामरूपविभागनिर्देशयोग्यः स्थूलविकारः, “गुणसाम्यम- नुद्रिक्तन्यूनम्” इत्युक्तत्वादव्यक्तावस्थायां सर्वेऽपि विंकाराः सदृशा भवन्ति, महदादिर्विसदृशविकारः ।
अथ कालभेदो नाम संहारकालः सृष्टिकालश्च । संहारकालेऽ स्याविभक्ततमत्वेन स्थितत्वात्कुत्रापि गुणवैषम्याभावेन सर्वत्राविशेषेण सदृश एव विकारः सृष्टिकाले भगवदधिष्ठानविशेषेण विभक्ततया कार्योन्मुखस्य गुणवैषम्ये सति विसदृशविकारा भवन्ति । सततविकारास्पदतयाऽस्य सत्ताप्रयुक्तो हि विकारः । तस्य सौक्ष्म्यासौक्ष्म्यनिबन्धनो विभागनिर्देश एव । अन्यथा निर्विकारतया काचिदवस्था नास्ति ।
प्रकृत्यविद्यामायापरनामाचिद्विशेष इति । मिश्रसत्त्वं नामैवंविधोऽचिद्विशेष इति वाक्यान्वयः । प्रकृत्यादिनामभेदोऽस्य स्वभावप्रयुक्त इत्याह ।
