Tattva traya: Sutram 88, 89

अनेन पाशुरेण तत्त्वान्येवाभिहितानि, न तु तेषां क्रमोऽप्युक्तः । तस्मादत्र प्रथमतत्त्वं किमित्याकांक्षायामाह ।
अत्रेत्यादि

  1. अत्र प्रथमतत्त्वम्प्रकृतिः ।
    भाष्यम् :- प्रकृतिः प्रधानमव्यक्तमिति च प्रथमतत्त्वस्य नामानि । प्रकृतिरिति नाम्नो निदानं प्रागेवोक्तम् । प्रधानमिति, प्रधानमित्युच्यते भगवल्लीलायाः प्रधानोपकरणत्वात् अव्यक्तमित्युच्यतेऽ नभिव्यक्तगुणविभागत्वात् ।

अथैवं प्रथमतत्त्वभूतायाः प्रकृतेरवस्थाविशेषानाह- अस्य चेत्यादिना ।

  1. अस्य चाविभक्ततमो विभक्ततमोऽक्षरमिति चावस्थाविशेषास्सन्ति ।

भाष्यम् :- “अव्यक्तमक्षरे लीयतेऽक्षरं तमसि लीयते, तमः परे देवे एकीभवति “इत्युक्तप्रकारेण संसारसमयेऽव्यक्तावस्थानिवृत्तेरवस्था, ततस्तन्निवृत्तिः, ततोऽतिसूक्ष्मतया तमः शब्दवाच्यता, ततोऽपि नामरूपविभागानर्हतया सर्वेश्वरेणैकीभावो भवतीत्यतोऽ विभक्ततम” इति “सर्गकाले तु सम्प्राते प्रादुरासीत्तमोनुद” इत्युक्तप्रकारेण तेन प्रेरित सन्नामरूपविभागयोग्यं यथा भवति, तथा तस्माद्विभक्तं विभ कार्योन्मुखं भवतीति विभक्ततम इति, अनन्तरं सङ्कल्पविशेषेण पुरुषसमष्टिगर्भत्वं यथा ज्ञायते, तथाऽवस्थाम्प्राप्य स्थितत्वादक्षरमिति च अत्र केचनावस्थाविशेषाः सन्तीत्यर्थः ।
तस्मादस्याविभक्तमस्त्वं नामाक्षरावस्थानिवृत्तौ तमःशब्दवाच्यतया नामरूपविभागानर्हतया च सर्वेश्वरविषये एकीभवनम् । विभक्ततमस्त्वं नाम नामरूपविभागार्हता यथा स्यात्तथा विभक्ततया कार्योन्मुखत्वम् । अक्षरत्वं नामेदमचित् अत्र पुरुषसमष्टिरिति विवेचनानर्हमतिसूक्ष्मायास्तमोऽवस्थाया निवृत्तौ पुरुषसमष्टिगर्भत्वं यथा ज्ञायते, तथाविधावस्थाप्राप्तिः । “गुणत्रयवैषम्यस्यानन्तर- पूर्वावस्थागुणसाम्यलक्षणमव्यक्तं यस्यामवस्थायां गुणसाम्यवैषम्यमस्फुटं तदवस्थस्य चेतनसमष्टिगर्भत्वमक्षरशब्देनोच्यते न तु चेतन मात्रं, तस्याव्यक्तप्रकृतित्वतमोविकृतित्वायोगात् । अतस्सर्व तत्त्वजातं चिदिचिदात्मकं मन्तव्यम् “प्रधानादिविशेषान्तं चेतनाचेतनात्मकम्’ इतिपराशरवचनात् । अत्र चिद्गर्भवस्तुन्यक्षरशब्द उपचारतः, प्रयोगेऽन्यथासिद्धे शक्तत्यन्तरकल्पनायोगात् । “अक्षरं तमसि लीयत” इति. चिद्गर्भत्वमचित्त्वमपि, यत्र विवेक्तुमशक्यं, तदवस्थमतिसूक्ष्मम्प्रधानं तमः शब्देनाभिलप्यमक्षराद्यवस्थाप्राप्तयौन्मुख्यविशिष्टं तदेव विभक्ततमः । तदौन्मुख्यरहितमविभक्ततमः परमात्मशरीरतयाऽपि चिन्तयितुमशक्यं सलिलविलीनलवणचन्द्रकान्तस्थसलिलसूर्यकान्तस्थवह्निकल्पं सर्वज्ञपरमात्मैकवेद्यमवतिष्ठते भूतलविनिहितबीजस्थानीयमविभक्ततमः मृन्निः सृतबीजवद्विभक्ततमः । सलिलसंसृष्टार्द्राशिथिलावयबीजतुल्यमक्षरमुच्छूनबीजसमानमव्यक्तम्। अंकुरस्थानीयो महानिति विवेक इति सुबालोपनिषद्व्याख्याने श्रुतप्रकाशिकाकारैरेतदवस्थाविशेषाः सुस्पष्टमभिहिताः । एतेनाक्षर- तमसी कुसुमस्य मुकुलकोरकावस्थावदस्य सङ्कोचदशारूप- त्वान्महदादिवन्न तत्त्वान्तरमिति सिद्धम् ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

Leave a comment