एतुगुणवैषम्यप्रयुक्तेषु विकारेषु प्रथमविकारः क इत्याकांक्षायामाह
- विषमविकारेषु प्रथमविकारो महान् ।
भाष्यम्- विषमविकारेष्वित्यादि ।
गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने । गुणव्यञ्जनसम्भूतिः सर्गकाले द्विजोत्तम ।।
इत्यादि । अस्यार्थः गुणसाम्यवतः क्षेत्रज्ञेन बद्धचेतनेना- घिष्टिताद् अव्यक्ताद्वयक्तगुणोन्मेषहेतुतया गुणव्यञ्जनसंज्ञकान्म- हत्तत्वमुत्पन्नमिति ।
अस्य स्वरूपं कीदृशमित्याकांक्षायामाह – अयं चेत्यादि ।
- अयं सात्त्विकराजसतामसभेदेन त्रिविधोऽध्यवसायजनकः ।
भाष्यम्: इत्युक्तप्रकारेण प्रकाशप्रवृत्तिमोहोन्नेयसत्त्व – रजस्तमोरूपगुणान्वयेन सात्त्विकं राजसं तामसं चेति त्रिविधम् । महान्वै बुद्धिलक्षण इति बुद्धिलक्षणत्वादध्यवसायजनक इत्यर्थः । अत्र सात्त्विकबुद्धिर्नाम
प्रवृत्तिञ्च निवृत्तिञ्च कार्याकार्ये भयाभये।
बन्धं मोक्षं च या वेत्ति, बुद्धिः सा पार्थ सात्त्विकी ।। (भगवद्गीता 18.30)
इति प्रवृत्तिनिवृत्योः कार्याकार्ययोर्भयाभययोर्बन्धमोक्षयोश्च यथावदध्यवसायः । राजसबुद्धिन्त्रम
यया धर्ममधर्मञ्च कार्य चाकार्यमेव च ।
अयथावत्प्रजानाति, बुद्धिस्सा पार्थ राजसी ।। (भगवद्गीता 18.31)
इति धर्माधर्मयोः कार्याकार्ययोरयथावन्निर्णयः तामसबुद्धिर्नाम्
अधर्मं धर्ममिति या मन्यते तमसावृता ।
सर्वार्थान् विपरीतांश्च, बुद्धिः सा पार्थ तामसी ।। (भगवद्गीता 18.32)
इत्यधर्मस्य धर्मत्वेन धर्मस्याधर्मत्वेन सर्वेषामर्थानां वैपरीत्येन
निर्णय इति भगवता गीतोपनिषदि स्वयमुक्तम् । एवं प्रकृतेर्विषम- विकारेष्वयं प्रथमविकार इति तस्य स्वरूपं तस्य कृत्यं चोक्तम्।
