पूर्वोक्तस्वरूपवैलक्षण्यवत आत्मनोऽविद्यादिदोषसम्बन्धस्य को वा हेतुरित्याकांक्षायां तद्धेतुं सदृष्टान्तमाह- जलस्येत्यादिना:
४६. जलस्याग्निसंसृष्टस्थालीसंसर्गेण यथौष्ण्यशब्दादयो जायन्ते । तथाऽऽत्मनोऽचित्सम्बन्धेनाविद्याकर्म्मवासनारुचयो जायन्ते।
भाष्यम्- स्वभावत एव निर्विकारस्य शीतलस्य जलस्याग्निना संसृष्टाया स्थाल्याः संसर्गेणौष्ण्याशब्दोद्रेकरुपविकारा जायन्ते। तथा स्वतो ज्ञानानन्दामलस्वरूपस्यात्मनो गुणत्रयाचित्सम्बन्धेनविद्याकर्मवासनारुचयो जायन्त इत्यर्थः । अस्यानुजोऽप्याचार्य्यहृदये ऽ विद्याकारणमनाद्यचित्सम्बन्ध इत्यवोचत् ।
एवं श्रीविष्णुपुराणे (6.1.22-24)-
निर्वाणमय एवात्मा ज्ञानानन्दमयोऽमलः ।
दुःखाज्ञानमला धर्माः प्रकृतेस्ते न चात्मनः ।। जलस्येवाग्निसंसृष्टस्थालीसङ्गात्तथाऽपि हि ।
शब्दोद्रेकादिकान् धर्मान् तत्करोति यथा मुने ।।
तथाऽऽत्मा प्रकृतेः सङ्गादहंमानादिदुषितः ।
भजते प्राकृतान् धर्मानन्यस्तेभ्योऽपि सोऽव्ययः ।।
इत्युक्तम्।
अत्राविद्या अज्ञानम् । तच्च ज्ञानानुदयान्यथाज्ञानविपरीतज्ञानरूपेणानेकविधम् । कर्म करणत्रयकृतः पुण्यपापात्मकः क्रियाविशेषः । तत्र पुण्यमैहिकामुष्मिकनानाविधभोगसाधनतया बहुविधम् । पापमकृत्यकरणकृत्याकरण भगवदपचार भागवतापचारासह्यापचाररूपेणानन्तविधम् । वासना पूर्वं कृतेषु पुनश्चाभिनिवेशस्य हेतुः संस्कारः । इयं च हेतुभेदेन बहुविधा । रुचिः रसान्तरेणाप्रतिनिवृत्तः कुत्रचिज्जायमान आदरः । इयं च विषयभेदेन बहुविधा अविद्याकर्मवासनारुचयो जाता इत्यनुक्त्या जायन्त इत्युक्त्या तासां प्रवाहरूपत्वमुक्तम् ।
