एवमात्मन औपाधिका अविद्यादयः कस्यामवस्थायां निवर्त्तन्ते इत्याकाक्षायामाह अचिदित्यादि।
४७. अचिन्निवृत्तावविद्यादयो निवर्तन्त इति वदन्ति ।
भाष्यम्- कारणनिवृत्त्या कार्य्यनिवृत्तेरचित्सम्बन्धनिबन्धना एता अपि तत्त्सम्बन्धनिवृत्ती निवर्तन्त इति तत्त्वविदो वदन्तीत्यर्थः । वदन्तीत्येतत्परमतमित्युक्त्वा अज्ञाननिवृत्तिपूर्वकमानन्दरूपं ज्ञानं प्रसादितं प्राप्तानां भगवत्प्रसादविशेषेणाचिन्निवृत्तेः प्रागविद्यादेर्निवृत्तिदर्शनात् स नियमो नास्तीत्यस्याभिप्राय इति केचिदाहुः । तन्न मुख्यम्, तेषां शरीरेण सहावस्थानदशायां परमभक्तिपर्यन्तोत्पत्तावपि पापपटलनिवृत्या ‘त्वां सत्यमेव प्राप्नुयाञ्चेद्यावल्लोकपर्यन्तं स्वामित्युक्तत्वात्” “सर्वं ह पश्यः पश्यति” (छान्दोग्य 8) इत्युक्तस्य मुक्तावस्थायां वैशद्यस्याचिन्निवृत्तेः प्रागभावात् । एवं प्रागात्मस्वरूपं बद्धमुक्तनित्यरूपेण त्रिविधम् । तत्र बद्धचेतनानामविद्याद्युत्पत्तिमूलं, तन्निवृत्तिक्रमश्श्रोक्तः ।
