Tattva Trayam: Sutram 48, 49, 50, 51, 52

एवमुक्तानां त्रिविधात्मवर्गाणां संख्याऽस्ति न वेत्याशङ्कायामाह एते त्रयोऽपीत्यादि:

४८. एते त्रयोऽपि प्रत्येकमनन्ताः ।

भाष्यम्- एते त्रयोऽप्यनन्ता इत्युक्तौ वर्गत्रयस्य समुदितस्यानन्तत्वं ज्ञायेतेत्यभिप्रेत्य प्रत्येकमित्युक्तम् । अनन्ताः इत्यसंख्येया इत्यर्थः ।

उक्तजीवानन्त्यविरोध्येकात्मवादं निराकरोति- केचिदित्यादिना:

४९. केचिदात्मभेदो नास्ति, आत्मैक एवेत्ति वदन्ति ।

भाष्यम् केचिदित्यनादरोक्तिः । एवं वदन्तः क इति चेत्? जीवाद्वैतप्रतिपादकशास्त्रे कुदृष्टयः । ब्रह्माद्वैतं जीवाद्वैतमिति शास्त्रे प्रातपाद्यमानमद्वैतं द्विविधम् । तत्र ब्रह्माद्वैतं नाम प्रकार्य्यद्वैतम् । जीवाद्वैतं प्रकाराद्वैतम्। एतन्त्रियामकं किमिति चेत् ? ब्रह्मप्रकरणेषु “सर्व खल्विदं ब्रह्म” “ऐतदात्म्यमिदं सर्वं” “पुरुष एवेदं सर्वम्” इति समानाधिकरण्येन ब्रह्माद्वैतप्रतिपादनात्, समानाधिकरण्यस्य प्रकारभेदविशिष्टप्रकार्येकत्वपरत्वात् । एकः सन् बहुधा विचवारेति प्रकार बहुत्वस्य कण्ठोक्ते आत्मनां साम्योक्ते ऐक्यविधिशेषस्य नेह नानाऽस्ति किञ्चनेत्या (बृहदारण्यक 4.4.19) दिभेदनिषेधस्य विहितैक्यावरोधिभेदविषयकत्वात् सामान्यनिषेधस्य विहितव्यतिरिक्तविषयकत्वेन प्रकारिबहुत्वनिषेधपरत्वात्, “न तत्समःश्वाभ्यधिकश्च दृश्यते” इति तुल्यप्रकार्यन्तरनिषेधस्य कण्ठोक्तेः प्रकारिद्वैतमेव ब्रह्माद्वैतम्, जीवबहुत्वस्य श्रुतिसिद्धत्वात् । अन्यथा बद्धमुक्तव्यवस्थानुपपत्तेः, उपदेशानुपपत्तेः सुखादिव्यवस्थाऽ नुपपत्तेः ।

पुमान्न देवो न नरो न पशुर्न च पादपः ।
चतुर्विधो विभेदोऽयं मिथ्याज्ञाननिबन्धनः ।। (विष्णु पुराण 2.13.98)

“देवादिभेदे विध्वस्ते ।” इत्यादिभिर्भेदविशेषनिषेधस्य कण्ठोक्तेः ।

तस्यायुक्ततां साधयति तत्पक्ष इत्यादिना ।

५०. तत्पक्षे कस्यचित्सुखित्वकालेऽन्यस्य कस्यचिद्दुःखित्वं न स्यात् ।

तत्पक्षे- तथाऽऽत्मभेदाभावपक्षे । अहं सुखीति कस्यचित्सुखोत्तरत्वकालेऽन्यस्य कस्यचिदहं दुःखीति दुःखातुरत्वमिति सुखदुःखव्यवस्था न स्यादित्यर्थः । सुखदुःखयोरुभयोरेकाश्रयत्व उभयप्रतिसन्धानमेकस्यैव स्यात् । अतः सुखदुःखयोर्नियतत्वादात्मभेद आवश्यक इति भावः ।

तादृशसुखदुःखव्यवस्थाहेतुर्देहभेद इति तेषां युक्तिमनुवदति- तच्चेत्यादिना ।

५१. तैच्च देहभेदेनेति चेत् ?

तदनुपपत्तिमाहसौभरीत्यादिना

५२. सौभरिशरीरेऽपि दृश्येत ।

देहभेदस्य सुखदुःखनियमहेतुत्वेऽने- कदेहपरिग्रहवतः सौभरेरपि स नियमो दृश्येतत्यर्थः । देहभेदस्य सुखदुःखनियामकत्वाभावे जन्मान्तरानुभव एतज्जन्मनि कुतो न स्मर्य्यत इति चेत् ? स स्मरणाभावः संस्कानुद्धृतवात्, तन्नाशाद्वा। शरीरान्तरे सुखदुःखस्मृत्याद्यभावोऽप्यन्यतरेणेति चेत् ? एकस्मिन्नपि शरीरे स्मृतिर्न स्यात् । तस्मात्सुखदुःखनियमहेतुर्देहभेद इति न शक्यते वक्तुम् ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

Leave a comment