एवं सुखदुःखव्यवस्थाऽनुपपत्तिरेव न भवत्येकात्मपक्षे । अपि तु बद्धमुक्तव्यवस्थायाः शिष्याचार्य्यव्य- वस्थायाश्चानुपपत्तिश्चेत्याह कश्चिदित्यादिना :-
५३. कश्चित्संसरति कश्चिन्मुच्यते कश्चिच्छिष्यः कश्चिदाचार्य इति च न स्यात् ।
आत्मा एकश्चेत्-
अनेकजन्मसाहस्त्रीं संसारपदवीं व्रजन् ।
मोहश्रमं प्रयातोऽसौ वासनारेणुगुण्ठितः ।। (विष्णु पुराण 6.7.19)
इत्युक्तप्रकारेण कश्चित्संसरति शुको मुक्तो वामदेवो मुक्त इत्युक्तप्रकारेण कश्चिन्मुक्तो भवति ।
“तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् । तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाज तां तत्त्वतो ब्रह्माविद्याम् ।” (मुण्डक 1.2.12)
इत्युक्तप्रकारेण कश्चिच्छिष्यो भूत्वोपसत्तिं करोति, कश्चिदाचार्य्यः सन्नुपदेशं करोतीति व्यवस्था न स्यादित्यर्थः।
अन्यां चानुपपत्तिमाह- विषमेत्यादिना :
५४. विषमसृष्टिश्च नोपपद्यते ।
आत्मैकश्चेत् देवतिर्य्यगादिरूपेण केषाञ्चित्सुखोत्तराणां केषाञ्चिदुःखोत्तराणां केषाञ्चिन्मिश्रसुखदुःखानामेवं; लोक पदार्थानां वैषम्येण सर्वेश्वरस्य सृष्टिर्नोपपद्यत इत्यर्थः । जीवभेदः कर्मतारतम्यञ्च खलु विषमसृष्टेर्हेतुः । एर्वं युक्तितोऽनेकविरोधा दर्शिताः ।
अथास्मिन् पक्षे श्रुतिविरोधोऽप्यस्तीत्याह- आत्मभेदमित्यादिना:
५५. आत्मभेदमभिदधत्या श्रुत्या च विरोधः ।
एकात्मपक्षो “नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्” इत्यात्मभेदाभिधायिश्रुतिविरुद्धत्यर्थः ।
नन्वियं श्रुतिरात्मभेदाभिधायिनी चेत् ?
“भोक्ता भोग्यं” “पृथगात्मानम्’ “ज्ञाज्ञौ द्वावजावीशानीशौ” “अन्योन्तर आत्मा विज्ञानमय” इति जीवैकत्वप्रतिपादकश्रुतीनां विरोधः । तस्मादौपाधिक भेदाभिधायिनीयं श्रुतिरिति तन्मतं निराकरोति – श्रुतिरित्यादिना :-
५६. श्रुतिरौपाधिकं भेदमभिधत्त इति न शक्यते वक्तुम्।
औपाधिकभेदो नाम देवमनुष्यादिभेदः कामक्रोधादिभेदश्च ।
औपाधिकभेदो न भवतीत्यत्र हेतुमाह- मोक्षदशायामित्यादिना ।
५७. मोक्षदशायाम्भेदसत्त्वात् ।
“सदा पश्यन्ति” “मम साधर्म्यमागताः” “मुक्तानाम्परमा गतिः” “सायुज्यं प्रतिपन्ना ये” “यस्मिन्पदे विराजन्ते मुक्ताः संसारबन्धनैः” इति मोक्षदशायामात्मभेदस्य श्रुत्याद्युक्तस्य सत्त्वादित्यर्थः । मोक्षदशा हि सर्वोपाधिविनिर्मुक्तदशा । तत्राप्यात्मभेदस्य श्रुतिसिद्धत्त्वात्, नित्यो नित्यानामिति श्रुतिरप्यात्मभेद वदतीति भावः ।
नन्वात्मभेदप्रतिपत्तिहेतूनामौपाधिकानां देवमनुष्यादिभेदानां कामक्रोधादिभेदानां निवृत्तौ आत्मनां स्वरूपमत्यन्तसमतया केनापि प्रकारेण भेदकथनायोग्यं मोक्षदशायां तिष्ठति, तत्रात्मभेदः कथं सिद्ध्यतीति वादिप्रश्नमनुवदति तदानीमित्यादिना,
५८. तदानीं देवमनुष्यादिभेदानाञ्च निवृत्तावात्मनां स्वरूपस्यात्यन्तसमतया केनापि प्रकारेण भेदकथनायोग्यत्वेऽपि
भेदकथना- योग्यत्वे ऽपीत्यन्तेन । दृष्टान्तमुखेन भेदं साधयति- परिमाणेत्यादिना:
५९. परिमाणगुरुत्वाकाराणां साम्येऽपि स्वर्णकलशरत्नव्रीहिप्रभृतीनां यथा भेदः सिध्यति, तथाऽऽत्मस्वरूपंभेदः सिद्धः
परिमाणगुरुत्त्वादिभिः समानानां स्वर्णकलशरत्नब्रीहिप्रभृतीनां पदार्थानां भेदकस्य लक्षणस्याभावेऽपि यथा नानात्वं दृश्यते, तथा केनापि प्रकारेण भेदज्ञापनायोग्यानामेकाकाराणां मुक्तात्मनां स्वरूपभेदः सिद्ध्यतीत्यर्थः ।
पूर्वोक्तंसर्वमनुभाषमाणस्तस्मादात्मभेदोऽवश्यं स्वीकर्तव्य इति निगमयति तस्मादित्यादिना।
६०. तस्मात आत्मभेद: स्वीकार्य्यः
एवं केचिदात्मभेदो नास्तीत्यारभ्यैतावता प्राक् स्वोक्तजीवानन्त्यप्रतिभट मेकात्मवादमुत्क्षिप्य युक्तितः शास्त्रतश्च तं बहुमुखं दूर्षीयत्वाऽऽत्मभेदस्साधितः ।
