Tattva Trayam: Sutram 61, 62, 63, 64, 65

प्रागात्मस्वरूपवैलक्षण्यं विस्तरेणोक्तम्। तत्र ह्यचिद्विलक्षणत्वमजडत्वमानन्दरूपत्वमव्यक्तत्वमचिन्त्यत्वं निरवयवत्वं निर्विकारत्वं ज्ञानाश्रयत्वमेतानि जीवेश्वरसाधारणानि, नियाम्यत्वादित्रयं चिदचित्साधारणम् । अणुत्वमचित्परमाणुजीवसाधारणम् । एतेषां सर्वेषां मिलितानामचिदीश्वरव्यावर्तकत्वाल्लक्षणत्वं सम्भवति, तथाऽपि सुग्रहं लघु लक्षणमाह – एतेषां लक्षणमित्यादिना ।


६१. एतेषां लक्षणं शेषत्वसहितं ज्ञातृत्वम् ।

भाष्यम्: एतेषामिति त्रिविधचेतनानामित्यर्थः । असाधारणधर्मो हि लक्षणम् । शेषत्वमात्रेणाचिद्वयावृत्त्यसिद्धेर्ज्ञातृत्वमात्रोक्तावीश्वरव्यावृत्त्यसिद्धेश्च शेषत्वे सति ज्ञातृत्वं लक्षणमुक्तम् ।

एवं ज्ञातुरात्मनो ज्ञानस्य स्वरूपस्य च साधर्म्यवैधर्म्य आह- एतेषां ज्ञानमित्यादिना ।

६२. एतेषां ज्ञानं स्वरूपमिव नित्यं द्रव्यमजडमानदन्दरूपञ्च ।

भाष्यम्: स्वरूपमिव नित्यं द्रव्यमजडमानन्दरूपमित्यनेन नित्यत्त्वद्रव्यत्वाजडत्वानन्दरूपत्वानि स्वरूपस्येव ज्ञानस्यापि सन्तीत्युक्तम् ।

नित्यत्वादिकमुपपाद्य वैधर्म्यकथनेऽ नेकग्रन्थव्यवधानं स्यादिति विचार्य्य साधर्म्यकथनानन्तरं वैधर्म्य वक्तु ताञ्जिज्ञासुप्रश्नमुत्क्षिपति – तर्हीत्यादिना ।

६३. तर्हि ज्ञानस्वरूपयोः परस्परं वैलक्षण्यं किमिति चेत् ?

वैधर्म्यमाह- स्वरूपमित्यादिना ।

६४. स्वरूपं धर्मिम सङ्कोचविकासानर्ह स्वव्यतिरिक्ताप्रकाशकं स्वस्मै स्वयंप्रकाशकमणु । ज्ञानं धर्मः सङ्कोचविकासयोग्यं स्वव्यतिरिक्तप्रकाशकं स्वस्मै स्वाप्रकाशमात्मने प्रकाशकं विभु च।

भाष्यम्: धर्मिमत्वं सङ्कोचविकासायोग्यत्वं स्वव्यतिरिक्तार्थाप्रकाशत्वं स्वस्मै” स्वयंप्रकाशकत्वमणुत्वमेतानि स्वरूपस्य विशेषाः धर्मत्वं संकोचनिकासयोग्यत्वं स्वयतिरिक्तार्थप्रकाशकत्वं स्वस्मै स्वयंप्रकाशरहितवं स्वाश्रयस्य स्वयंप्रकाशत्वं विभुत्वमेतानि ज्ञानस्य विशेषाः । विभ्विति ज्ञानस्य स्वाभाविको वेष उक्तः ।

ननु सकलचेतनानां ज्ञानंसमानमेव कुतो न भवतीत्याशङ्कायां सङ्कोचासङ्कोचनिबन्धनं तारतम्यमाह – तत्र केषाञ्चिदित्यादिना:

६५. तत्र केषांचिज्ज्ञानं सदा विभु । केषाञ्चिज्ज्ञानं सदाऽविभु। केषांञ्चिज्ज्ञानं कदाचिद्विभु ।

भाष्यम् : अज्ञानशून्या अमरा इत्युक्तप्रकारेण कदाचिदपि भगवज्ज्ञानस्य सङ्कोचाभावेन तत्स्वरूपरूपगुणविभूतीः सदाऽनुभवता नित्यसूरीणां ज्ञानं सदा विभु भवति । मिथ्याज्ञानदुष्कर्म्मलिनदेहयुक्तानां बद्धानां ज्ञानं कर्मानुगुणसङ्कोचविकासवत्सदाऽविभु भवति । “तीरं दृष्टवन्त” इत्युक्तप्रकारेण भगवत्प्रसादेन संसारसागरं तीर्ध्वा तत्तीरं प्राप्तानां मुक्तानां ज्ञानं पूर्वावस्थायामविभूत्तरावस्थायां “सर्वं ह पश्यः पश्यति” (छान्दोग्य 7.26.2) इत्युक्तप्रकारेण विभु भवतीत्यर्थः ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

Leave a comment