Tattva Trayam: Sutram 66, 67, 68

अथ ज्ञानस्योक्तं नित्यत्वादिकमुपपादयति। तत्र प्रथमं ममेदानीं ज्ञानमुत्पन्नं नष्टमित्युत्पत्तिविनाशवत्तयाऽनुभूयमानस्य ज्ञानस्य नित्यत्वं कथमुपपद्यत इति शङ्कां परिहर्तुं तज्जिज्ञासुप्रश्नमनुवदति- ज्ञानं नित्यं चेदित्यादिना।

६६.ज्ञानं नित्यं चेन्मम ज्ञानमुत्पन्नं नष्टमिति व्यवहारः कथमिति चेत् ?

तस्योत्तरमाह – इन्द्रियेत्यादिना।

६७.इन्द्रियद्वारा प्रसृत्य विषयान् गृह्णाति निवर्त्तत इत्यतस्तथा व्यवह्रियते ।

भाष्यम्: “सर्व ह पश्यः पश्यति” (छान्दोग्य 7.26.2) “स चानन्त्याय कल्पते” (श्वेताश्वर 5.9) इति मुक्तिदशायां सर्वविषयकत्वोक्तेस्सर्वसाक्षात्कारयोग्यमपि “यया क्षेत्रज्ञशक्तिः भावेष्टिता नृप सर्व्वगा” (विष्णु पुराण) इत्युक्तप्रकारेण कर्मणा संकुचितम् ।

तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता ।
सर्वभूतेषु भूपाल तारतम्येन वर्तते।। अप्राणिमत्सु स्वल्पा सा स्थावरेषु ततोऽधिका ।
इत्युक्तप्रकारेण कर्मानुगुणतारतम्यवत् ।।
इन्द्रियाणां हि सर्वेषां यद्येकं क्षरतीन्द्रियम् ।
तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ।।

इत्युक्तप्रकारेणेन्द्रियद्वारा निःसृत्य विषयान् गृह्णाति, ततो निवर्तते । तादृशविकाससङ्कोचप्रयुक्तप्रकाशाप्रकाशावादायोत्पन्नं नष्टमिति व्यवह्रियत इत्यर्थः ।

एवमिन्द्रियद्वारा प्रसरतो ज्ञानस्यैकत्वे विषयग्रहणवेलायां प्रकाशावसरे दर्शनश्रवणादिसंज्ञा भेदवदनेकत्वेन कथं प्रकाशत इति शङ्कायामाह इदं चेत्यादिना ।

६८.इदमेकमपि नानात्वेन भासते प्रसरणभेदेन

भाष्यम्: एकमुखेन प्रसरणं विना चक्षुः श्रोत्राद्यनेकेन्द्रियद्वारा प्रसृत्य रूपशब्दाद्यनेकविषयान् गृहणतोऽस्य दर्शनश्रवणादिसंज्ञाभेदेन ज्ञायमानं नानात्वं प्रसरणभेदनिबन्धनमित्यर्थः । अनेन नित्यस्य ज्ञानस्योत्त्पत्तिविनाशव्यवहार हेतुकथनानन्तरं प्रासङ्गिकस्तस्य नानात्वेन प्रकाशस्य हेतुश्चोक्तः । आत्मनो ज्ञानस्य नित्यत्वम् ।
“न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते”,
“न हि द्रष्टुदृष्टेर्विपरिलोपो विद्यते।” (बृहदारण्यक 4.3.30, 23)

ज्ञानं वैराग्यमैश्वर्य्य धर्मश्च मनुजेश्वर । आत्मनो ब्रह्मभूतस्य नित्यमेतच्चतुष्टयम् ।
यथोदपानकरणात् क्रियते न जलाम्बरम् । सदेव नीयते व्यक्तिम सतस्सम्भवः कुतः ।।
तथा हेयगुणध्वंसादवबोधादयो गुणाः ।
प्रकाशन्तेन जन्यन्ते नित्या एवात्मनो हि ते ।।

इत्यादिश्रुतिस्मृतिभिरुक्तम् । एतावता ज्ञाननित्यत्वमुक्तवान्।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

Leave a comment