अथ तस्य द्राव्यत्वमुपपादयितुं तज्जिज्ञासुप्रश्नमनुवदति- द्रव्यत्वमित्यादिना ।
६९. द्रव्यत्वं कथमिति चेत् ?
तद्धेतूनुक्त्वा द्रव्यत्वं साधयति- क्रियेत्यादिना ।
७०.क्रियागुणानामाश्रयत्वादजडत्वाच्च द्रव्यम्भवति ।
भाष्यम्- क्रिया सङ्कोचविकासौ । गुणः संयोगवियोगौ । अजडत्वं स्वयंप्रकाशत्वम् । क्रियाऽऽश्रयो द्रव्यमिति द्रव्यलक्षणकथनात् क्रियाश्रयत्वं गुणाश्रयत्वं च प्रत्येकं द्रव्यत्वसाधकम् । एताभ्यामजडत्वस्यापि कथनात्तदपि द्रव्यत्वसाधकमित्यस्याशयः । तथा हि, जडवस्तुषु द्रव्यमद्रव्यञ्च वर्तते । अजडवस्तुष्वद्रव्यं किञ्चिदपि नास्ति । तस्माज्ज्ञानं द्रव्यमजडत्वात्, यदजडं तद्रव्यम्, यथाऽऽ त्मेत्यजडत्वेन द्रव्यत्वसाधनं युक्तमेव । अत एवेदमजडत्वात् सङ्कोचविकासयोः संयोगवियोगादीनाञ्चाश्रयत्वाच्च द्रव्यमिति तत्त्वशेखरे स्वयमवोचत्। नन्वेवं द्रव्यत्वं चेत् ? आत्मगुणत्वमस्य कथमिति चेत् ? न नित्यतदाश्रितत्वाद्गुणत्वम् ।
आश्रयादन्यतो वृत्तेराश्रयेण समन्वयात् ।
द्रव्यत्वञ्च गुणत्वञ्च ज्ञानस्यैवोपपद्यते ।।
इति यामुनाचाय्यैरुक्तम् । आश्रयादन्यतोवृत्तित्वमत्र क्रियाऽ ऽ श्रयत्वोक्त्या लब्धम् । इदञ्च ज्ञानमात्रस्य न भवति, किन्तु दीपादितेजः पदार्थप्रभाणामपि तुल्यम् । तस्माद्दव्यत्वं गुणत्वमुभयमपि ज्ञानस्योपपन्नम् ।
पूर्वं ज्ञानस्य स्वोक्ताजडत्वविषयकं जिज्ञासुप्रश्नमनुवदति अजडत्वं चेत्यादिना ।
७१.अजडत्वं चेत्सुषुप्तिमूर्च्छाऽऽदिषु कुतो न प्रकाशत इति चेत् ?
भाष्यम्: ज्ञानं यदि स्वयं प्रकाशं तदा सदा प्रकाशेत, सुषुप्त्याद्यवस्थासु कुतो न प्रकाशत इत्यर्थः । तस्योत्तरमाह-प्रसरणाभावादिति ।
७२. प्रसरणाभावान्न प्रकाशते ।
ज्ञानं स्वाश्रयस्य विषयग्रहणवेलायामेव हि स्वयमेव प्रकाशते। सुषुप्त्याद्यवस्थासु तमोगुणाद्यभिभवेन संकुचितं तिरोहितंमणिद्युमणिप्रकाशादिवत्प्रसरणाभावान्न प्रकाशत इत्यर्थः ।
