Tattva Trayam: Sutram 73, 74, 75, 76

अथास्यानन्दरूपत्वमुपपादयति- आनन्दरूपत्वमित्यादिना ।

७३. आनन्दरूपत्वं नाम ज्ञानस्य प्रकाशावस्थायामनुकूलत्वम्

भाष्यम्- प्रकाशावस्थायां स्वाश्रयस्य विषयप्रकाशनावस्थायाम्। तदैव हीदं प्रकाशते । तदवस्थायामनुकूलत्वं नाम तत्तद्विषयाणामनुक्रलत्वेन भानात् तान् विषयीकुर्वतोऽस्य ज्ञानस्य स्वाश्रयस्थ सुखरूपत्वम् ।

ननु तर्हि विषशस्त्रादिदर्शनावस्थायां तद्विषयकं ज्ञानं कथम्प्रतिकूलं भवतीत्याशङ्कयाह- विषशस्त्रादीत्यादि ।

७४. विषशस्त्रादिप्रकाशनावसरे प्रतिकूलत्वस्य हेतुर्देहात्मभ्रमादयः ।

भाष्यम्: तत्प्रकाशनावसरे तद्विषयकज्ञानस्य दुःखरूपत्वे कारणं तत्र बाधकबुद्धिमूलं देहात्मभ्रमः कर्म्मेश्वरात्मकत्वज्ञानाभावच्चेत्यर्थः ।

एतेषां स्वाभाविको वेषः कोवेत्याकांक्षायामाह- ईश्वरात्मकत्वादित्यादि ।

७५.ईश्वरात्मकत्वात्सर्वेषाम्पदार्थानामानुकूल्यमेव स्वभावः । प्रातिकूल्यमौपाधिकम् ।

भाष्यम्: “जगत्सर्व शरीरन्ते” “तानि सर्वाणि तद्वपुः” “तत्सर्वं वै हरेस्तनुः” इति सकलपदार्थानामपि भगवच्छरीरत्वोक्तेर्भगवदात्मकत्वेन ज्ञायमानत्वदशायां सर्वेषामनुकूलतया भानात्सर्वेषां पदार्थानामानुकूल्यमेव स्वभावः, तत्र भासमानं प्रातिकूल्यं देहात्मभ्रमादिमूलकत्त्वादागन्तुकमित्यर्थः ।

एवमीश्वरात्मकत्वात्सकलपदार्थानामानुकूल्यमेव स्वभाव इति किमुच्यते चन्दनकुसुमादीनामानुकूल्यं स्वाभाविकं खल्विति शङ्कायामाह – अन्यदानुकूल्यमित्यादि ।

७६. अन्यदानुकूल्यं स्वाभाविकं चेत् ? कस्यचित्कुत्रचित्कालदेशयोरनुकूलानि चन्दनकुसुमादीनि, देशान्तरे कालान्तरे तस्यैव तद्देश एव तत्काल एवान्यस्य प्रतिकूलानि न स्युः ।

भाष्यम्: अन्यदानुकूल्यमिति स्वोक्ताद्भगवदात्मकत्वप्रयुक्तादानुकूल्यादन्यत् चन्दनकुसुमादिपदार्थेषु

भासमानमानुकूल्यमुच्यते तत्तेषां स्वाभाविकं चेत् भोक्तुः कस्यचित्कस्मिश्वित्काले कम्पिश्चिद्देशेऽनुकूलानि कालान्तरे देशान्तरे वा तस्यैव प्रतिकूलानि, यद्देशकालयोस्तस्यानुकूलानि तद्देशकालयोरेवान्यस्य प्रतिकूलानि च न स्युः । एवम्प्रतिकूलतया ज्ञायमानानि पश्यामः, तस्माद्भगवदात्मकत्वनिबन्धनमानुकूल्यमेव स्वाभाविकम्, अन्यदानुकूल्यं न स्वाभाविकमिति भावः ।

वस्त्वेकमेव दुःखाय सुखायेष्र्ष्यागमाय च। कोपाय च ततस्तस्मादस्तु वस्त्वात्मकं कुतः ।।
तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते ।
तदेव कोपाय ततः प्रसादाय च जायते ।। तस्माद् दुखात्मकं नास्ति न च किञ्चित्सुखात्मकम् ।।

(विष्णु पुराण २/६/३५-३७)

इत्ययमर्थः श्रीपराशरेण भगवता सुविशदमुक्तः । एतेन विषशस्त्रादीनाम्प्रतिकूलतया चन्दनकुसुमादीनामनुकूलतया च भानं देहात्मभ्रमादिभिरीश्वरात्मकत्वात्सकलपदार्थानामानुकूल्यमेव स्वभावः । तस्मात्तदाकारेण भानदशायां सर्वविषयप्रकाशनदशायामपि ज्ञानमानन्दरूपमेवेत्युक्तम् ।

Unknown's avatar

Author: ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

Leave a comment