Tattva traya: Sutram 80, 81, 82

80. केचनैतज्जडं वदन्ति, केचिदजडं वदन्ति ।

एतच्छुद्धसत्त्वमेतद्दर्शनस्थेषु केचिज्जडमिति वदन्ति, केचिदजहमिति वदन्तीत्यर्थः । “इह जडामादिमां केचिदाहुः” इत्यभियुक्ताः । जडत्वं स्वयंप्रकाशराहित्यम् । तदेवाह- अजडत्व इत्यादिना ।

81.अजडत्वे नित्यानां मुक्तानामीश्चरस्य च ज्ञानेन बिना स्वयमेव प्रकाशते ।

भाष्यम्: अजडत्व इति, अजडमिति पक्ष इत्यर्थः । जडमिति केषाञ्चित्पक्षं विहाय तत्पक्षोपपादनादस्यायमेव पक्षोऽभिमत इति ज्ञायते । ज्ञानेन बिना प्रकाशत इति । ज्ञानेनैव न भासतेऽपि तु स्वयमेव भासत इत्यर्थः । नन्वेवं स्वयं भासत इति चेत्संसारिणामपि ज्ञानमनपेक्ष्य स्वयमेव कुतो न भासत इत्याशङ्कायामाह – संसारिणामिति ।

82.संसारिणां न भासते ।

भाष्यम् : इदं चाभियुक्तैर्विस्तरेण प्रतिपादितम् । तथा हि, “त्रिविधाऽ चेतनानीत्यारभ्य तत्र प्रकृतिः कालश्च जडौ, शुद्धसत्त्वद्रव्यमपि केचिज्जडं वदन्ति । जडत्वन्नाम स्वयंप्रकाशराहित्यम् । भगवच्छास्त्रादिकं परामृशन्तो ज्ञानात्मकतया शास्त्रसिद्धतया शुद्धसत्त्वद्रव्यं स्वयंप्रकाशमिति वदन्ति । एवं स्वयंप्रकाशं चेत्संसारिणां शास्त्रेणैव विना स्वयमेव भासेतेति चेत्सर्वेषामात्मनां स्वरूपस्य ज्ञानस्य च स्वयंप्रकाशत्वेऽपि स्वरूपं स्वस्यैव स्वयंप्रकाशम्, अन्येषां ज्ञानान्तरवेद्यं यथा भवति । यथा च धर्मभूतज्ञानं स्वाश्रयस्यैव स्वयंप्रकाशतेनेतरेषाम्, तथेदमपि नियतविषये स्वयंप्रकाशते चेन्न कोऽपि विरोधः ।

यो वेत्ति युगपत्सर्वं प्रत्यक्षेण सदा स्वतः ।
तम्प्रणम्य हरिं शास्त्रन्यायतत्त्वम्प्रचक्ष्महे ।।

इत्युक्तप्रकारेण धर्मभूतज्ञानेन सर्वं सदा साक्षात्कुर्वत ईश्वरस्य शुद्धसत्त्वद्रव्यं स्वयम्प्रकाशत इति कथमुपपद्यत इति चेन्न, अस्य धर्मभूतज्ञाने दिव्यात्मस्वरूपप्रभृतीनि सर्वाणि विषयीकुर्वत्यपि यथा दिव्यात्मस्वरूपं स्वयम्प्रकाशं भवति तथेदमपि स्वयम्प्रकाशं भवाति, तथा मुक्तानां तदवस्थायामिदमपि स्वयंप्रकाशम्भवतीति न कश्चिद्विरोधः । यथा धर्मभूतज्ञानस्य स्वात्मप्रकाशनशक्तिर्विषयप्रकाशाभावकाले कर्मविशेषैः प्रतिबद्धा भवति, तथा शुद्धसत्त्वस्य स्वात्मप्रकाशनशक्तिश्च बद्धदशायां प्रतिबद्धा भवति । तस्माच्छुद्धसत्वं बद्धानां न प्रकाशते ।

धियः स्वयंप्रकाशत्वं मुक्तौ स्वाभाविकं यथा ।
बद्धे कदाचित्संरुद्धं तथाऽत्रापि नियम्यते ।।

“एतावदवस्थाऽन्तरापत्तिर्विकारिद्रव्यस्य न विरुध्यते । तस्मात्प्रतिपन्नार्थस्य न युक्तिविरोधावकाश” इति रहस्यत्रयसारे प्रतिपादितम् ।

Tattva traya: Sutram 79

तत्र शुद्धसत्त्वमित्यादिना-

79. तत्र शुद्धसत्त्वं नाम रजस्तमोऽमिश्रकेवलसत्त्वं नित्यं ज्ञानानन्दजनकं कर्मणा विना केवलभगवदिच्छया विमानगोपुरमण्डपप्रासादादिरूपेणपरिणतं निरवधिकतेजोरूपं नित्यमुक्तैरीश्वरेण च परिच्छेतुमशक्यमत्यद्भुतं वस्तु ।

भाष्यम्- शुद्धसत्त्वं गुणान्तरामिश्रितसत्त्वगुणवदित्यर्थः । तदाह रजस्तम इत्यादिना। “क्षयन्तमस्य रजसः पराके” “तमस्तु पारे, तमसः परस्तात्” “पञ्चशक्तिमये दिव्ये शुद्धसत्त्वे सुखाकरे” इत्यादिश्रुतिस्मृतिभिरुक्तम् । नित्यमनादिनिधनम् तदक्षरे परमे व्योमन् ।”

कालातीतमनाद्यन्तमप्राकृतमचञ्चलम् ।
प्राप्यमर्चिर्मयात्सद् भिर्मयि संन्यस्तमानसैः ।।
यत्तत्पुराणमाकाशं सर्वस्मात्परमं ध्रुवम् ।
यत्पदं प्राप्य तत्त्वज्ञा मुच्यन्ते सर्वकिल्विषैः ।।

इत्येतस्य नित्यत्वमपि श्रुतिसिद्धम् । ज्ञानानन्दजनकमिति, शुद्धसत्त्वमयत्वात् ज्ञानानन्दजनकमित्यर्थः । सत्त्वं ज्ञानसुखावहं खलु । अत एव शुद्धसत्त्व इत्यनन्तरं सुखाकर इत्युक्तम् । कर्मणा विना केवलभगवदिच्छया विमानगोपुरमण्डपप्रासादादिरूपेण परिणतमिति चेतनाः कर्मानुगुणमिच्छन्ति । तदिच्छानुगुणभगवत्सङ्कल्पेन चतुर्विशतितत्त्वरूपेण परिणम्य चेतनानां भोग्यभोगोपकरणभोगस्थानरूपेण स्थितं प्रकृतितत्त्वमिव न भवतीदं, किन्तु स्वभोगार्थतया भगवदिच्छया विमानगोपुरादिरूपेण परिणमत
इत्यर्थः। “देवानां पूरयोध्या तस्यां हिरण्मयः कोशः यो वै तां ब्रह्मणो वेदामृतेनामृतां पुरीम्” (अथर्ववेद 10.2.31) “अपराजिता पूर्ब्रह्मणः प्रजापतेः सभां वेश्म प्रपद्ये” इति श्रुतौ संग्रहेण नित्यविभूतौ विद्यमाना दिव्यनगरदिव्यायतनादय उक्त्ताः । अमुमर्थ श्रीभाष्यकारः श्रीवैकुण्ठगद्ये “दिव्यावरणशतसहस्त्रावृते दिव्यकल्पतरूपशोभिते दिव्योद्यानशतसहस्त्रकोटिभिरावृतेऽतिप्रमाणे दिव्यायतने कस्मिश्चिद्विचित्रदिव्यरत्नमयदिव्याऽ ऽ स्थानमण्डप” (वैकुण्ठ गद्य) इत्यादिना विस्तरेणावोचत् । निरवधिकतेजोरूपमिति । अग्न्यादित्यादितेजः पदार्थानपि खद्योतकल्पान् कुर्वदनवधिकतेजः स्वरूपमित्यर्थः ।

न तत्र सूर्यो भाति न च चन्द्रतारकं । नेमा विद्युतो भान्ति कुतोऽयमग्निः ।। (कठोपनिषद 5.15)

अतर्क्यानलदीप्तं तत्स्थानं विष्णोर्महात्मनः ।
स्वयैव प्रभया राजन् दुष्प्रेक्ष्यं देवदानवैः ।।

(विष्णु पुराण)

इत्यादि । एवं दिव्यसूरिभिरप्येतस्य निरवधिकतेजोरूपत्वं बहुषु स्थलेषूक्तम् ।

नित्यमुक्तैरीश्वरेण च परिच्छेत्तुमशक्यमिति, अस्य परिमाणदयः केनापि परिच्छेत्तुं न शक्यन्त इत्यर्थः । तेषामपीयत्परिमाणमियदैश्वर्यमीदृशस्वभावमिति परिच्छेत्तुमयोग्यमितिनित्यैः परिच्छेत्तुमयोग्यमिति श्रीवैकुण्ठगद्ये भाष्यकारैर्य्यदुक्तम्, तन्मुक्तानामपि तुल्यम् । ईश्वरज्ञानस्यैवैतेषां ज्ञानस्यापि सर्वदर्शित्वसत्त्वात्तेन परिच्छेत्तुं शक्यते चेदेतैरपि परिच्छेत्तुं शक्येतैव । तस्मात्तेनाप्यशक्यमेवेत्यर्थः । तर्हि एतेषां सर्वज्ञताया विरोध इति नाशङ्कनीयम्, सर्वज्ञता हि सर्वेषां यथावस्थिताकारविषयज्ञानम् । परिच्छेद्यं चेत्तथा ज्ञानम् । अपरिच्छेद्यं चेत्तथा ज्ञानम् । निस्सीमस्य कस्यचिदपरिच्छेद्येन ज्ञानं सर्वज्ञत्वानुगुणमिति ।

देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते ।
यद्यप्येवमथाऽपि नैव युवयोः सर्वज्ञता हीयते ।।
यन्नास्त्स्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदुः।
र्व्योमाम्भोजमिदन्तया किल विदन् भ्रान्तोऽयमित्युच्यते । ।

इति श्रीस्तुतौ कूरेशैरुक्तम् । अन्यथा स्वेनापि ज्ञातुमशक्यस्वभाव इत्येतदपि सर्वज्ञतया विरुध्येत । तस्मान्नित्यमुक्तेश्वरैरपरिच्छेद्यमित्यत्र न कोऽपि विरोधः । अनेनास्य विभव उक्तः ।

अत्यद्भुतमिति । अत्यद्भुतत्वं नामानुक्षणमपूर्वाश्चर्यावहत्वम्। अनन्ताश्चर्य्यानन्तमहाविभवेति भाष्यकृतः। एवं शुद्धसत्वमेतादृशमित्युक्तम् ।

Tattva traya: Sutram 77, 78

लोकाचार्यमुपास्महे यतिपतेः कारुण्यपात्रं गुरुम्
श्रीमन्मारुतिकल्पमिन्द्रियजये कारुण्यवारांनिधिम् ।
मोहध्वान्तविवेकशून्यजनता संसृत्यरण्याश्रया
यच्छ्रीसूक्तिमणित्विषैव सुसुखं सन्मार्गमालोकते ॥

अथ अचित्प्रकरणम्

भाष्यम्- तत्त्वत्रयं चिचिदीश्वरश्चेत्युद्देशक्रमेण प्रथमं चिच्छब्दवाच्यस्यात्मनः स्वरूपस्वभावविशेषान् स्फुटमवोचत् । अनन्तरमचिद्वस्तुनः स्वरूपस्वभावविशेषानतिस्फुटमाह । तत्र प्रथममचिल्लक्षणमाह । अचिदित्यादिना ।

77. अचिज्ज्ञानशून्यं विकारास्पदम् ।

भाष्यम् – अचित् चैतन्यानाधारो वस्तु । तदेवाह-ज्ञानशून्यमिति । अत एव श्रुतिर्भोग्यशब्देनाचिद्वस्त्वाभिधत्ते । विकारास्पदत्वं नाम विकारस्याश्रयत्वम् । विकारोऽवस्थान्तरापत्तिः ।
सा च विद्वत्सदैकरूपत्वाभावः ।

एवमेतल्लक्षणकथनानन्तरमस्याचिद्वस्तुनः सत्त्वैकाधारतया सत्त्वादिगुणत्रयाधारतया सत्त्वादिगुणत्रयशून्यतया च त्रैविध्यमाह- इदमित्यादिना ।

78. इदं शुद्धसत्त्वं मिश्रसत्त्वं सत्त्वशून्यं चेति त्रिविधम् ।

भाष्यम्: उद्देशक्रमेणाचित्तत्त्वस्य च स्वरूपस्वभावविशेषान् प्रतिपादयिष्यन् प्रथमं शुद्धसत्त्वस्य प्रकारानाह ।

Tattva Trayam: chit prakaran summary

चित प्रकरण :- सारांश:

भाष्यम् – एवमेतावता चिदित्त्यात्मेति प्रथमं चिच्छब्दवाच्यमात्मवस्तूद्दिश्य, अनन्तरं देहादिविलक्षणमित्यारभ्य शेषमित्यन्तं तत्स्वरूपलक्षणं विस्तरेणोक्त्त्वा, देहादिविलक्षणत्वं कथमित्यारभ्य शेषत्वं नामेत्यन्तेनोक्तलक्षणं परीक्ष्य, अनन्तरमेवंभूतस्यात्मस्वरूपस्य बद्धमुक्तनित्यरूपेण त्रैविध्यमुक्तवा, बद्धात्मनामविद्यादिसंबन्धस्य हेतुं तन्निवृत्तिक्रमं त्रिधात्मवर्गस्य प्रत्येकमानन्त्यं चोक्त्त्वा, तादृशजीवानन्त्यप्रतिभटमेकात्मवादं युक्तिशास्त्राभ्यां निरस्य आत्मभेदं साधयित्वा, प्राग्विस्तरेणोक्तप्रकारं विना सुग्रहं त्रिविधात्मनां लक्षणं प्रदर्थ्य, अनन्तरं ज्ञानस्य स्वरूपस्य च साधर्म्यवेधयें उक्त्व, ज्ञानस्य विशेष मुक्त्वाप्रसङ्गेण त्रिविधचेतनानां ज्ञानस्य विशेषमुक्त्व पूर्वं ज्ञानस्योक्तानि नित्यत्वाजडत्वानन्दरूपत्वानि क्रमेणोपपादितवान्।

एवं चित्तत्त्ववेषकथनं समाप्तम् ।

Tattva Trayam: Sutram 73, 74, 75, 76

अथास्यानन्दरूपत्वमुपपादयति- आनन्दरूपत्वमित्यादिना ।

७३. आनन्दरूपत्वं नाम ज्ञानस्य प्रकाशावस्थायामनुकूलत्वम्

भाष्यम्- प्रकाशावस्थायां स्वाश्रयस्य विषयप्रकाशनावस्थायाम्। तदैव हीदं प्रकाशते । तदवस्थायामनुकूलत्वं नाम तत्तद्विषयाणामनुक्रलत्वेन भानात् तान् विषयीकुर्वतोऽस्य ज्ञानस्य स्वाश्रयस्थ सुखरूपत्वम् ।

ननु तर्हि विषशस्त्रादिदर्शनावस्थायां तद्विषयकं ज्ञानं कथम्प्रतिकूलं भवतीत्याशङ्कयाह- विषशस्त्रादीत्यादि ।

७४. विषशस्त्रादिप्रकाशनावसरे प्रतिकूलत्वस्य हेतुर्देहात्मभ्रमादयः ।

भाष्यम्: तत्प्रकाशनावसरे तद्विषयकज्ञानस्य दुःखरूपत्वे कारणं तत्र बाधकबुद्धिमूलं देहात्मभ्रमः कर्म्मेश्वरात्मकत्वज्ञानाभावच्चेत्यर्थः ।

एतेषां स्वाभाविको वेषः कोवेत्याकांक्षायामाह- ईश्वरात्मकत्वादित्यादि ।

७५.ईश्वरात्मकत्वात्सर्वेषाम्पदार्थानामानुकूल्यमेव स्वभावः । प्रातिकूल्यमौपाधिकम् ।

भाष्यम्: “जगत्सर्व शरीरन्ते” “तानि सर्वाणि तद्वपुः” “तत्सर्वं वै हरेस्तनुः” इति सकलपदार्थानामपि भगवच्छरीरत्वोक्तेर्भगवदात्मकत्वेन ज्ञायमानत्वदशायां सर्वेषामनुकूलतया भानात्सर्वेषां पदार्थानामानुकूल्यमेव स्वभावः, तत्र भासमानं प्रातिकूल्यं देहात्मभ्रमादिमूलकत्त्वादागन्तुकमित्यर्थः ।

एवमीश्वरात्मकत्वात्सकलपदार्थानामानुकूल्यमेव स्वभाव इति किमुच्यते चन्दनकुसुमादीनामानुकूल्यं स्वाभाविकं खल्विति शङ्कायामाह – अन्यदानुकूल्यमित्यादि ।

७६. अन्यदानुकूल्यं स्वाभाविकं चेत् ? कस्यचित्कुत्रचित्कालदेशयोरनुकूलानि चन्दनकुसुमादीनि, देशान्तरे कालान्तरे तस्यैव तद्देश एव तत्काल एवान्यस्य प्रतिकूलानि न स्युः ।

भाष्यम्: अन्यदानुकूल्यमिति स्वोक्ताद्भगवदात्मकत्वप्रयुक्तादानुकूल्यादन्यत् चन्दनकुसुमादिपदार्थेषु

भासमानमानुकूल्यमुच्यते तत्तेषां स्वाभाविकं चेत् भोक्तुः कस्यचित्कस्मिश्वित्काले कम्पिश्चिद्देशेऽनुकूलानि कालान्तरे देशान्तरे वा तस्यैव प्रतिकूलानि, यद्देशकालयोस्तस्यानुकूलानि तद्देशकालयोरेवान्यस्य प्रतिकूलानि च न स्युः । एवम्प्रतिकूलतया ज्ञायमानानि पश्यामः, तस्माद्भगवदात्मकत्वनिबन्धनमानुकूल्यमेव स्वाभाविकम्, अन्यदानुकूल्यं न स्वाभाविकमिति भावः ।

वस्त्वेकमेव दुःखाय सुखायेष्र्ष्यागमाय च। कोपाय च ततस्तस्मादस्तु वस्त्वात्मकं कुतः ।।
तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते ।
तदेव कोपाय ततः प्रसादाय च जायते ।। तस्माद् दुखात्मकं नास्ति न च किञ्चित्सुखात्मकम् ।।

(विष्णु पुराण २/६/३५-३७)

इत्ययमर्थः श्रीपराशरेण भगवता सुविशदमुक्तः । एतेन विषशस्त्रादीनाम्प्रतिकूलतया चन्दनकुसुमादीनामनुकूलतया च भानं देहात्मभ्रमादिभिरीश्वरात्मकत्वात्सकलपदार्थानामानुकूल्यमेव स्वभावः । तस्मात्तदाकारेण भानदशायां सर्वविषयप्रकाशनदशायामपि ज्ञानमानन्दरूपमेवेत्युक्तम् ।

Tattva Trayam: Sutram 69, 70, 71, 72

अथ तस्य द्राव्यत्वमुपपादयितुं तज्जिज्ञासुप्रश्नमनुवदति- द्रव्यत्वमित्यादिना ।

६९. द्रव्यत्वं कथमिति चेत् ?

तद्धेतूनुक्त्वा द्रव्यत्वं साधयति- क्रियेत्यादिना ।

७०.क्रियागुणानामाश्रयत्वादजडत्वाच्च द्रव्यम्भवति ।

भाष्यम्- क्रिया सङ्कोचविकासौ । गुणः संयोगवियोगौ । अजडत्वं स्वयंप्रकाशत्वम् । क्रियाऽऽश्रयो द्रव्यमिति द्रव्यलक्षणकथनात् क्रियाश्रयत्वं गुणाश्रयत्वं च प्रत्येकं द्रव्यत्वसाधकम् । एताभ्यामजडत्वस्यापि कथनात्तदपि द्रव्यत्वसाधकमित्यस्याशयः । तथा हि, जडवस्तुषु द्रव्यमद्रव्यञ्च वर्तते । अजडवस्तुष्वद्रव्यं किञ्चिदपि नास्ति । तस्माज्ज्ञानं द्रव्यमजडत्वात्, यदजडं तद्रव्यम्, यथाऽऽ त्मेत्यजडत्वेन द्रव्यत्वसाधनं युक्तमेव । अत एवेदमजडत्वात् सङ्कोचविकासयोः संयोगवियोगादीनाञ्चाश्रयत्वाच्च द्रव्यमिति तत्त्वशेखरे स्वयमवोचत्। नन्वेवं द्रव्यत्वं चेत् ? आत्मगुणत्वमस्य कथमिति चेत् ? न नित्यतदाश्रितत्वाद्गुणत्वम् ।

आश्रयादन्यतो वृत्तेराश्रयेण समन्वयात् ।
द्रव्यत्वञ्च गुणत्वञ्च ज्ञानस्यैवोपपद्यते ।।

इति यामुनाचाय्यैरुक्तम् । आश्रयादन्यतोवृत्तित्वमत्र क्रियाऽ ऽ श्रयत्वोक्त्या लब्धम् । इदञ्च ज्ञानमात्रस्य न भवति, किन्तु दीपादितेजः पदार्थप्रभाणामपि तुल्यम् । तस्माद्दव्यत्वं गुणत्वमुभयमपि ज्ञानस्योपपन्नम् ।

पूर्वं ज्ञानस्य स्वोक्ताजडत्वविषयकं जिज्ञासुप्रश्नमनुवदति अजडत्वं चेत्यादिना ।

७१.अजडत्वं चेत्सुषुप्तिमूर्च्छाऽऽदिषु कुतो न प्रकाशत इति चेत् ?

भाष्यम्: ज्ञानं यदि स्वयं प्रकाशं तदा सदा प्रकाशेत, सुषुप्त्याद्यवस्थासु कुतो न प्रकाशत इत्यर्थः । तस्योत्तरमाह-प्रसरणाभावादिति ।

७२. प्रसरणाभावान्न प्रकाशते ।

ज्ञानं स्वाश्रयस्य विषयग्रहणवेलायामेव हि स्वयमेव प्रकाशते। सुषुप्त्याद्यवस्थासु तमोगुणाद्यभिभवेन संकुचितं तिरोहितंमणिद्युमणिप्रकाशादिवत्प्रसरणाभावान्न प्रकाशत इत्यर्थः ।

Tattva Trayam: Sutram 66, 67, 68

अथ ज्ञानस्योक्तं नित्यत्वादिकमुपपादयति। तत्र प्रथमं ममेदानीं ज्ञानमुत्पन्नं नष्टमित्युत्पत्तिविनाशवत्तयाऽनुभूयमानस्य ज्ञानस्य नित्यत्वं कथमुपपद्यत इति शङ्कां परिहर्तुं तज्जिज्ञासुप्रश्नमनुवदति- ज्ञानं नित्यं चेदित्यादिना।

६६.ज्ञानं नित्यं चेन्मम ज्ञानमुत्पन्नं नष्टमिति व्यवहारः कथमिति चेत् ?

तस्योत्तरमाह – इन्द्रियेत्यादिना।

६७.इन्द्रियद्वारा प्रसृत्य विषयान् गृह्णाति निवर्त्तत इत्यतस्तथा व्यवह्रियते ।

भाष्यम्: “सर्व ह पश्यः पश्यति” (छान्दोग्य 7.26.2) “स चानन्त्याय कल्पते” (श्वेताश्वर 5.9) इति मुक्तिदशायां सर्वविषयकत्वोक्तेस्सर्वसाक्षात्कारयोग्यमपि “यया क्षेत्रज्ञशक्तिः भावेष्टिता नृप सर्व्वगा” (विष्णु पुराण) इत्युक्तप्रकारेण कर्मणा संकुचितम् ।

तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता ।
सर्वभूतेषु भूपाल तारतम्येन वर्तते।। अप्राणिमत्सु स्वल्पा सा स्थावरेषु ततोऽधिका ।
इत्युक्तप्रकारेण कर्मानुगुणतारतम्यवत् ।।
इन्द्रियाणां हि सर्वेषां यद्येकं क्षरतीन्द्रियम् ।
तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ।।

इत्युक्तप्रकारेणेन्द्रियद्वारा निःसृत्य विषयान् गृह्णाति, ततो निवर्तते । तादृशविकाससङ्कोचप्रयुक्तप्रकाशाप्रकाशावादायोत्पन्नं नष्टमिति व्यवह्रियत इत्यर्थः ।

एवमिन्द्रियद्वारा प्रसरतो ज्ञानस्यैकत्वे विषयग्रहणवेलायां प्रकाशावसरे दर्शनश्रवणादिसंज्ञा भेदवदनेकत्वेन कथं प्रकाशत इति शङ्कायामाह इदं चेत्यादिना ।

६८.इदमेकमपि नानात्वेन भासते प्रसरणभेदेन

भाष्यम्: एकमुखेन प्रसरणं विना चक्षुः श्रोत्राद्यनेकेन्द्रियद्वारा प्रसृत्य रूपशब्दाद्यनेकविषयान् गृहणतोऽस्य दर्शनश्रवणादिसंज्ञाभेदेन ज्ञायमानं नानात्वं प्रसरणभेदनिबन्धनमित्यर्थः । अनेन नित्यस्य ज्ञानस्योत्त्पत्तिविनाशव्यवहार हेतुकथनानन्तरं प्रासङ्गिकस्तस्य नानात्वेन प्रकाशस्य हेतुश्चोक्तः । आत्मनो ज्ञानस्य नित्यत्वम् ।
“न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते”,
“न हि द्रष्टुदृष्टेर्विपरिलोपो विद्यते।” (बृहदारण्यक 4.3.30, 23)

ज्ञानं वैराग्यमैश्वर्य्य धर्मश्च मनुजेश्वर । आत्मनो ब्रह्मभूतस्य नित्यमेतच्चतुष्टयम् ।
यथोदपानकरणात् क्रियते न जलाम्बरम् । सदेव नीयते व्यक्तिम सतस्सम्भवः कुतः ।।
तथा हेयगुणध्वंसादवबोधादयो गुणाः ।
प्रकाशन्तेन जन्यन्ते नित्या एवात्मनो हि ते ।।

इत्यादिश्रुतिस्मृतिभिरुक्तम् । एतावता ज्ञाननित्यत्वमुक्तवान्।

Tattva Trayam: Sutram 61, 62, 63, 64, 65

प्रागात्मस्वरूपवैलक्षण्यं विस्तरेणोक्तम्। तत्र ह्यचिद्विलक्षणत्वमजडत्वमानन्दरूपत्वमव्यक्तत्वमचिन्त्यत्वं निरवयवत्वं निर्विकारत्वं ज्ञानाश्रयत्वमेतानि जीवेश्वरसाधारणानि, नियाम्यत्वादित्रयं चिदचित्साधारणम् । अणुत्वमचित्परमाणुजीवसाधारणम् । एतेषां सर्वेषां मिलितानामचिदीश्वरव्यावर्तकत्वाल्लक्षणत्वं सम्भवति, तथाऽपि सुग्रहं लघु लक्षणमाह – एतेषां लक्षणमित्यादिना ।


६१. एतेषां लक्षणं शेषत्वसहितं ज्ञातृत्वम् ।

भाष्यम्: एतेषामिति त्रिविधचेतनानामित्यर्थः । असाधारणधर्मो हि लक्षणम् । शेषत्वमात्रेणाचिद्वयावृत्त्यसिद्धेर्ज्ञातृत्वमात्रोक्तावीश्वरव्यावृत्त्यसिद्धेश्च शेषत्वे सति ज्ञातृत्वं लक्षणमुक्तम् ।

एवं ज्ञातुरात्मनो ज्ञानस्य स्वरूपस्य च साधर्म्यवैधर्म्य आह- एतेषां ज्ञानमित्यादिना ।

६२. एतेषां ज्ञानं स्वरूपमिव नित्यं द्रव्यमजडमानदन्दरूपञ्च ।

भाष्यम्: स्वरूपमिव नित्यं द्रव्यमजडमानन्दरूपमित्यनेन नित्यत्त्वद्रव्यत्वाजडत्वानन्दरूपत्वानि स्वरूपस्येव ज्ञानस्यापि सन्तीत्युक्तम् ।

नित्यत्वादिकमुपपाद्य वैधर्म्यकथनेऽ नेकग्रन्थव्यवधानं स्यादिति विचार्य्य साधर्म्यकथनानन्तरं वैधर्म्य वक्तु ताञ्जिज्ञासुप्रश्नमुत्क्षिपति – तर्हीत्यादिना ।

६३. तर्हि ज्ञानस्वरूपयोः परस्परं वैलक्षण्यं किमिति चेत् ?

वैधर्म्यमाह- स्वरूपमित्यादिना ।

६४. स्वरूपं धर्मिम सङ्कोचविकासानर्ह स्वव्यतिरिक्ताप्रकाशकं स्वस्मै स्वयंप्रकाशकमणु । ज्ञानं धर्मः सङ्कोचविकासयोग्यं स्वव्यतिरिक्तप्रकाशकं स्वस्मै स्वाप्रकाशमात्मने प्रकाशकं विभु च।

भाष्यम्: धर्मिमत्वं सङ्कोचविकासायोग्यत्वं स्वव्यतिरिक्तार्थाप्रकाशत्वं स्वस्मै” स्वयंप्रकाशकत्वमणुत्वमेतानि स्वरूपस्य विशेषाः धर्मत्वं संकोचनिकासयोग्यत्वं स्वयतिरिक्तार्थप्रकाशकत्वं स्वस्मै स्वयंप्रकाशरहितवं स्वाश्रयस्य स्वयंप्रकाशत्वं विभुत्वमेतानि ज्ञानस्य विशेषाः । विभ्विति ज्ञानस्य स्वाभाविको वेष उक्तः ।

ननु सकलचेतनानां ज्ञानंसमानमेव कुतो न भवतीत्याशङ्कायां सङ्कोचासङ्कोचनिबन्धनं तारतम्यमाह – तत्र केषाञ्चिदित्यादिना:

६५. तत्र केषांचिज्ज्ञानं सदा विभु । केषाञ्चिज्ज्ञानं सदाऽविभु। केषांञ्चिज्ज्ञानं कदाचिद्विभु ।

भाष्यम् : अज्ञानशून्या अमरा इत्युक्तप्रकारेण कदाचिदपि भगवज्ज्ञानस्य सङ्कोचाभावेन तत्स्वरूपरूपगुणविभूतीः सदाऽनुभवता नित्यसूरीणां ज्ञानं सदा विभु भवति । मिथ्याज्ञानदुष्कर्म्मलिनदेहयुक्तानां बद्धानां ज्ञानं कर्मानुगुणसङ्कोचविकासवत्सदाऽविभु भवति । “तीरं दृष्टवन्त” इत्युक्तप्रकारेण भगवत्प्रसादेन संसारसागरं तीर्ध्वा तत्तीरं प्राप्तानां मुक्तानां ज्ञानं पूर्वावस्थायामविभूत्तरावस्थायां “सर्वं ह पश्यः पश्यति” (छान्दोग्य 7.26.2) इत्युक्तप्रकारेण विभु भवतीत्यर्थः ।

Tattva Trayam: Sutram 53, 54, 55, 56, 57, 58, 59, 60

एवं सुखदुःखव्यवस्थाऽनुपपत्तिरेव न भवत्येकात्मपक्षे । अपि तु बद्धमुक्तव्यवस्थायाः शिष्याचार्य्यव्य- वस्थायाश्चानुपपत्तिश्चेत्याह कश्चिदित्यादिना :-

५३. कश्चित्संसरति कश्चिन्मुच्यते कश्चिच्छिष्यः कश्चिदाचार्य इति च न स्यात् ।

आत्मा एकश्चेत्-
अनेकजन्मसाहस्त्रीं संसारपदवीं व्रजन् ।
मोहश्रमं प्रयातोऽसौ वासनारेणुगुण्ठितः ।। (विष्णु पुराण 6.7.19)

इत्युक्तप्रकारेण कश्चित्संसरति शुको मुक्तो वामदेवो मुक्त इत्युक्तप्रकारेण कश्चिन्मुक्तो भवति ।

“तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् । तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाज तां तत्त्वतो ब्रह्माविद्याम् ।” (मुण्डक 1.2.12)

इत्युक्तप्रकारेण कश्चिच्छिष्यो भूत्वोपसत्तिं करोति, कश्चिदाचार्य्यः सन्नुपदेशं करोतीति व्यवस्था न स्यादित्यर्थः।

अन्यां चानुपपत्तिमाह- विषमेत्यादिना :

५४. विषमसृष्टिश्च नोपपद्यते ।

आत्मैकश्चेत् देवतिर्य्यगादिरूपेण केषाञ्चित्सुखोत्तराणां केषाञ्चिदुःखोत्तराणां केषाञ्चिन्मिश्रसुखदुःखानामेवं; लोक पदार्थानां वैषम्येण सर्वेश्वरस्य सृष्टिर्नोपपद्यत इत्यर्थः । जीवभेदः कर्मतारतम्यञ्च खलु विषमसृष्टेर्हेतुः । एर्वं युक्तितोऽनेकविरोधा दर्शिताः ।

अथास्मिन् पक्षे श्रुतिविरोधोऽप्यस्तीत्याह- आत्मभेदमित्यादिना:

५५. आत्मभेदमभिदधत्या श्रुत्या च विरोधः ।

एकात्मपक्षो “नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्” इत्यात्मभेदाभिधायिश्रुतिविरुद्धत्यर्थः ।

नन्वियं श्रुतिरात्मभेदाभिधायिनी चेत् ?
“भोक्ता भोग्यं” “पृथगात्मानम्’ “ज्ञाज्ञौ द्वावजावीशानीशौ” “अन्योन्तर आत्मा विज्ञानमय” इति जीवैकत्वप्रतिपादकश्रुतीनां विरोधः । तस्मादौपाधिक भेदाभिधायिनीयं श्रुतिरिति तन्मतं निराकरोति – श्रुतिरित्यादिना :-

५६. श्रुतिरौपाधिकं भेदमभिधत्त इति न शक्यते वक्तुम्।

औपाधिकभेदो नाम देवमनुष्यादिभेदः कामक्रोधादिभेदश्च ।

औपाधिकभेदो न भवतीत्यत्र हेतुमाह- मोक्षदशायामित्यादिना ।

५७. मोक्षदशायाम्भेदसत्त्वात् ।

“सदा पश्यन्ति” “मम साधर्म्यमागताः” “मुक्तानाम्परमा गतिः” “सायुज्यं प्रतिपन्ना ये” “यस्मिन्पदे विराजन्ते मुक्ताः संसारबन्धनैः” इति मोक्षदशायामात्मभेदस्य श्रुत्याद्युक्तस्य सत्त्वादित्यर्थः । मोक्षदशा हि सर्वोपाधिविनिर्मुक्तदशा । तत्राप्यात्मभेदस्य श्रुतिसिद्धत्त्वात्, नित्यो नित्यानामिति श्रुतिरप्यात्मभेद वदतीति भावः ।

नन्वात्मभेदप्रतिपत्तिहेतूनामौपाधिकानां देवमनुष्यादिभेदानां कामक्रोधादिभेदानां निवृत्तौ आत्मनां स्वरूपमत्यन्तसमतया केनापि प्रकारेण भेदकथनायोग्यं मोक्षदशायां तिष्ठति, तत्रात्मभेदः कथं सिद्ध्यतीति वादिप्रश्नमनुवदति तदानीमित्यादिना,

५८. तदानीं देवमनुष्यादिभेदानाञ्च निवृत्तावात्मनां स्वरूपस्यात्यन्तसमतया केनापि प्रकारेण भेदकथनायोग्यत्वेऽपि

भेदकथना- योग्यत्वे ऽपीत्यन्तेन । दृष्टान्तमुखेन भेदं साधयति- परिमाणेत्यादिना:

५९. परिमाणगुरुत्वाकाराणां साम्येऽपि स्वर्णकलशरत्नव्रीहिप्रभृतीनां यथा भेदः सिध्यति, तथाऽऽत्मस्वरूपंभेदः सिद्धः

परिमाणगुरुत्त्वादिभिः समानानां स्वर्णकलशरत्नब्रीहिप्रभृतीनां पदार्थानां भेदकस्य लक्षणस्याभावेऽपि यथा नानात्वं दृश्यते, तथा केनापि प्रकारेण भेदज्ञापनायोग्यानामेकाकाराणां मुक्तात्मनां स्वरूपभेदः सिद्ध्यतीत्यर्थः ।

पूर्वोक्तंसर्वमनुभाषमाणस्तस्मादात्मभेदोऽवश्यं स्वीकर्तव्य इति निगमयति तस्मादित्यादिना।

६०. तस्मात आत्मभेद: स्वीकार्य्यः

एवं केचिदात्मभेदो नास्तीत्यारभ्यैतावता प्राक् स्वोक्तजीवानन्त्यप्रतिभट मेकात्मवादमुत्क्षिप्य युक्तितः शास्त्रतश्च तं बहुमुखं दूर्षीयत्वाऽऽत्मभेदस्साधितः ।

Tattva Trayam: Sutram 48, 49, 50, 51, 52

एवमुक्तानां त्रिविधात्मवर्गाणां संख्याऽस्ति न वेत्याशङ्कायामाह एते त्रयोऽपीत्यादि:

४८. एते त्रयोऽपि प्रत्येकमनन्ताः ।

भाष्यम्- एते त्रयोऽप्यनन्ता इत्युक्तौ वर्गत्रयस्य समुदितस्यानन्तत्वं ज्ञायेतेत्यभिप्रेत्य प्रत्येकमित्युक्तम् । अनन्ताः इत्यसंख्येया इत्यर्थः ।

उक्तजीवानन्त्यविरोध्येकात्मवादं निराकरोति- केचिदित्यादिना:

४९. केचिदात्मभेदो नास्ति, आत्मैक एवेत्ति वदन्ति ।

भाष्यम् केचिदित्यनादरोक्तिः । एवं वदन्तः क इति चेत्? जीवाद्वैतप्रतिपादकशास्त्रे कुदृष्टयः । ब्रह्माद्वैतं जीवाद्वैतमिति शास्त्रे प्रातपाद्यमानमद्वैतं द्विविधम् । तत्र ब्रह्माद्वैतं नाम प्रकार्य्यद्वैतम् । जीवाद्वैतं प्रकाराद्वैतम्। एतन्त्रियामकं किमिति चेत् ? ब्रह्मप्रकरणेषु “सर्व खल्विदं ब्रह्म” “ऐतदात्म्यमिदं सर्वं” “पुरुष एवेदं सर्वम्” इति समानाधिकरण्येन ब्रह्माद्वैतप्रतिपादनात्, समानाधिकरण्यस्य प्रकारभेदविशिष्टप्रकार्येकत्वपरत्वात् । एकः सन् बहुधा विचवारेति प्रकार बहुत्वस्य कण्ठोक्ते आत्मनां साम्योक्ते ऐक्यविधिशेषस्य नेह नानाऽस्ति किञ्चनेत्या (बृहदारण्यक 4.4.19) दिभेदनिषेधस्य विहितैक्यावरोधिभेदविषयकत्वात् सामान्यनिषेधस्य विहितव्यतिरिक्तविषयकत्वेन प्रकारिबहुत्वनिषेधपरत्वात्, “न तत्समःश्वाभ्यधिकश्च दृश्यते” इति तुल्यप्रकार्यन्तरनिषेधस्य कण्ठोक्तेः प्रकारिद्वैतमेव ब्रह्माद्वैतम्, जीवबहुत्वस्य श्रुतिसिद्धत्वात् । अन्यथा बद्धमुक्तव्यवस्थानुपपत्तेः, उपदेशानुपपत्तेः सुखादिव्यवस्थाऽ नुपपत्तेः ।

पुमान्न देवो न नरो न पशुर्न च पादपः ।
चतुर्विधो विभेदोऽयं मिथ्याज्ञाननिबन्धनः ।। (विष्णु पुराण 2.13.98)

“देवादिभेदे विध्वस्ते ।” इत्यादिभिर्भेदविशेषनिषेधस्य कण्ठोक्तेः ।

तस्यायुक्ततां साधयति तत्पक्ष इत्यादिना ।

५०. तत्पक्षे कस्यचित्सुखित्वकालेऽन्यस्य कस्यचिद्दुःखित्वं न स्यात् ।

तत्पक्षे- तथाऽऽत्मभेदाभावपक्षे । अहं सुखीति कस्यचित्सुखोत्तरत्वकालेऽन्यस्य कस्यचिदहं दुःखीति दुःखातुरत्वमिति सुखदुःखव्यवस्था न स्यादित्यर्थः । सुखदुःखयोरुभयोरेकाश्रयत्व उभयप्रतिसन्धानमेकस्यैव स्यात् । अतः सुखदुःखयोर्नियतत्वादात्मभेद आवश्यक इति भावः ।

तादृशसुखदुःखव्यवस्थाहेतुर्देहभेद इति तेषां युक्तिमनुवदति- तच्चेत्यादिना ।

५१. तैच्च देहभेदेनेति चेत् ?

तदनुपपत्तिमाहसौभरीत्यादिना

५२. सौभरिशरीरेऽपि दृश्येत ।

देहभेदस्य सुखदुःखनियमहेतुत्वेऽने- कदेहपरिग्रहवतः सौभरेरपि स नियमो दृश्येतत्यर्थः । देहभेदस्य सुखदुःखनियामकत्वाभावे जन्मान्तरानुभव एतज्जन्मनि कुतो न स्मर्य्यत इति चेत् ? स स्मरणाभावः संस्कानुद्धृतवात्, तन्नाशाद्वा। शरीरान्तरे सुखदुःखस्मृत्याद्यभावोऽप्यन्यतरेणेति चेत् ? एकस्मिन्नपि शरीरे स्मृतिर्न स्यात् । तस्मात्सुखदुःखनियमहेतुर्देहभेद इति न शक्यते वक्तुम् ।