Tattva Trayam: Sutram 29, 30

ज्ञातृत्वकर्तृत्वभोक्तृत्वानां त्रयाणां वक्तव्यत्वेऽपि ज्ञानाश्रय इति ज्ञातृत्वमात्रस्याभिधानमन्ययोरनभिधानं च कथं युज्यत इति शङ्कायामाह ज्ञातेत्यादि ।

29. ज्ञातेत्युक्तौ कर्ता भोक्ता चेत्युक्तः ।

एवं प्रतिज्ञामात्रमयुक्तमिति तत्र हेतुमाह-कर्तृत्वेत्यादिना ।

30.कर्तृत्वभोक्तृत्वे ज्ञानावस्थाविशेषौ ।

भाष्यम्

हेयोपादेयविज्ञानमूलं ज्ञातृत्वमात्मनः ।

तत्तत्प्रहाणोपादानचिकीर्षाकर्तृताश्रयाः ।।

इत्युक्तप्रकारेणात्मनो ज्ञातृत्वं हेयोपादेयप्रतिपत्तेर्हेतुः । तत्तद्धेयपरित्यागोपादेयपरिग्रहयोश्चिकीर्षा कर्तृत्वमूला । कर्तुर्हि चिकीर्षा जायते, साच चिकीर्षा ज्ञानावस्थाविशेषः । तया सह कर्तृत्वस्य प्रत्यासत्तिं दृष्ट्वा कर्तृत्वं ज्ञानावस्थाविशेष इत्युपचारः कृतः । अन्यथा कर्तृत्वस्य क्रियाऽऽश्रयत्वरूपत्वात् तज्ज्ञानावस्थाविशेष इति मुख्योक्तिर्न सम्भवति । क्रिया हि नाम जानाति इच्छति यतते करोतीत्यत्र ज्ञानचिकीर्षाप्रयत्नान्तरभाविनी प्रवृत्तिरूपा, तदाश्रयत्वं कर्तृत्वम् । तच्च ज्ञानावस्थाविशेष इत्यौपचारिकप्रयोगो वक्तव्यः। अथ भोक्तृत्वं नाम भोगाश्रयत्वम् । भोगश्च सुखदुःखरूपानुभवज्ञानम्, तज्ज्ञानावस्थाविशेष एव । तदाश्रयत्वस्य ज्ञानावस्थाविशेषत्वोक्तिश्चौपचारिक्येव । एवं ज्ञानस्य तस्य च विद्यमानप्रत्यासत्त्या तदैक्यकथनसम्भवात्, ज्ञातृत्वोक्त्यैव कर्तृत्वभोक्तृत्वे चोक्ते इत्यत्र न कोऽपि विरोधः ।

Tattva Trayam: Sutram 26, 27,28

बौद्ध मत (ज्ञानात्मवादि) खण्डन

26. ज्ञानाश्रयत्वं नाम ज्ञानस्याधारत्वम् ।

भाष्यम्- ज्ञानाश्रयत्वमित्यादि । ज्ञानं नाम स्वसत्तामात्रेण स्वाश्रय स्वपरव्यवहारहेतुरात्मधर्मः । अस्यात्मन आधारत्वं च दीपप्रभयोरुभयोरपि तेजोद्रव्यत्वेऽपि दीपस्य प्रभाऽऽ श्रयत्ववदात्मनो ज्ञानस्वरूपत्वेऽपि स्वधर्मभूतस्य तथा पृथ‌स्थित्युपलम्भौ न स्यातां, तथा तदाधारत्वम् । “अथ यो वेदेदं जिघ्राणीति स आत्मा” “मनसैवैतान्कामान् पश्यन् रमते” “न पश्यो मृत्युं पश्यति” “विज्ञातारमरे केन विजानीयात् जानात्येवायं पुरुषः,” “एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्त्ता विज्ञानात्मा पुरुषः,” “एवमेवास्य परिद्रष्टुः” इत्यादिश्रुत्यादिभिरात्मनो ज्ञातृत्वं सिद्धम् ।

एवं भूतस्यात्मनो ज्ञातृत्वमनङ्गीकृत्य ज्ञानमात्रमात्मेति वदतां बौद्धादीनां मतं निराकर्तुं तन्मतमुत्क्षिपतिआत्मेत्यादिना ।

27. आत्मा ज्ञानानाधारो ज्ञानमात्रमिति चेत् ?

28. अहं ज्ञानमित्येव प्रतिसन्दधीत न त्वहं जानामीति ।

भाष्यम् :
अहमिदं जानामीति प्रत्यक्षेण तन्निराकरोति अहमित्यादिना । आत्मनो ज्ञानाश्रयत्वं विना केवलज्ञानमस्वरूपत्वं चेत् ? अहं ज्ञानमिति स्वात्मानं ज्ञानत्वेनैव प्रतिसन्दधीत न त्वहमिदं जानामीति ज्ञातृत्वेनेत्यर्थः । अमुमर्थमहं जानामीत्युक्तौ विषयग्राहिणः कस्यचिज्ज्ञानस्य काश्चिदाश्रय इति ज्ञायते। एवमात्मनो ज्ञातृत्वं प्रत्यक्षसिद्धत्वादबाधितमिति भावः ।

अहमिदमभिवेद्यीत्यात्मविद्याविभेदे।

स्फुरति यदि तदैक्यं बाह्यमप्येवमस्तु ।।


इति हि भट्टार्योऽपि बौद्धमतं निराचकार ।

Tattva Trayam: Sutram 23, 24,25

एवं निर्विकारस्यात्मवस्तुनः परिणामित्वं वदतामार्हतानां मतमयुक्तमिति दर्शयति आर्हता इत्यादि ।

23. आर्हता आत्मा देहपरिमाण इत्याहुः,

भाष्यम्:
आर्हता जैनाः । ते हि पादे मे वेदनेत्यादिप्रकारेणापादचूडं देहे दुःखानुभवो देहपरिमाणत्वाभावे न सम्भवति । तस्मादात्मा स्वकर्मानुगुण्येन परिगृहीतानां गज पिपीलिकादिशरीराणामनुरूपं परिणम्य, तत्तद्देहपरिमाणो भवतीति वदन्ति । तदेवाह देहपरिमाण इत्याहुरिति ।

तन्निराकरोति- तदित्यादिना

24. तच्छ्रुतिविरुद्धम्।

भाष्यम्:
अत्रानेन विवक्षिता श्रुतिः “अमृताक्षरं हरः” इत्यात्मनो निर्विकारत्वप्रतिपादिका । आत्मा देहपरिमाण इति पक्षो निर्विकार आत्मेति श्रुत्या बाधित इति तत्त्वशेखरे
स्वयमुक्तत्वात् । “एषोऽणुरात्मा” “बालाग्रशतभागस्य’ इत्यादिश्रुतयो देहपरिमाणपक्षबाधिका अत्र विवक्षिता इत्यपि वदन्ति ।

एतद्विषये दूषणान्तरमाह- अनेकदेहानित्यादिना ।

25. अनेकदेहान्परिगृह्णतां योगिनां स्वरूपस्य शैथिल्यं च प्रसज्येत ।

भाष्यम्:

देहपरिमाणपक्षे संसिद्धयोगानां सौभरिप्रभृतीनामेककालेऽनेकदेहान् परिगृहणतांस्वस्वरूपमनेकधा कृत्वा तत्तदेहपरिग्रहप्रसङ्गः । यद्वा, परकायप्रवेशमुखेनानेकशरीराणि परिगृहणतां योगिनां स्वरूपस्य स्थूलशरीरं त्यक्त्‌वा ततः सूक्ष्मशरीरपरिग्रहसमये तस्य सर्वस्यावकाशाभावाच्छैथिल्यं स्यादित्यर्थः । एवं चात्माऽ कार्त्यमितिसूत्रोक्तप्रकारेणाल्पमहत्परिमाणानि। गजपिपीलिकाऽऽदिशरीराणि स्वकर्मानुगुणं परिगृह्णतां गजशरीरं त्यक्त्वा पिपीलिकाशरीरपरिग्रहणसमये गजशरीरपरिमाणस्य स्वरूपस्य पिपीलिकाशरीरेऽवकाशाभावाच्छैथिल्यं स्यादिति योजना तु योगिनां स्वरूपस्येत्युक्त्याऽत्रास्य नाभिप्रेता ।

Tattva Trayam: Sutram 22

22. एवंस्थितत्वाच्छस्त्राग्निजलवातातपप्रभृतिभिश्छेदन- दहनक्लेदन शोषणादीनामयोग्यम् ।

भाष्यम् –एवंप्रकारत्वाच्छेद्यादिविसजातीयमित्याह- एवंस्थितत्वादित्यादिना । एवमित्यनेनाव्यक्तत्वादीनि चत्वारि निर्विकारित्वमात्रं वा परामृश्यते । शख्खाग्रीइत्यादिना । शस्त्राग्न्यादयश्छेदनदहनादिकं यदा कुर्वन्ति, तदा तत्तद्वस्तूनि व्याप्य कुर्वन्ति । आत्मनः सर्वाचिद्वस्तुव्यापकतया ततोऽप्यत्यन्तसूक्ष्मत्वाद् व्याप्यानां स्थूलानां तेषां व्यापकं सूक्ष्ममात्मवस्तु व्याप्यविकार – यितुमनर्हत्वाद् शस्त्राग्निजलवातातपादिप्रयुक्तानां छेदनदहनक्लेदन- शोषणानामनर्हमित्यर्थः ।

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लदयन्त्यापो न शोषयति मारुतः ।।
अच्छेद्यो ऽ यमदाह्योऽ यमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ।। (गीता २/23-24 )

इति गीयते ।

Tattva Trayam: Sutram 18, 19,20,21

18.अव्यक्तत्वं नाम घटपटादिग्राहिचक्षुराद्यग्राह्यत्वम्।

भाष्यम् – अव्यक्तत्वमित्यादि छेदनादियोग्यानि घटपटादीनि वस्तूनि यैः प्रमाणैर्व्यज्यन्ते तैरयमात्मा न व्यज्यत इत्यव्यक्त इति भाष्यकारैरुक्तं, तथैवायमाह। केनापि प्रमाणेन न व्यजत इत्यव्यक्तमित्युक्तौ तु तुच्छत्वं स्यात् । अतो मानसज्ञानमात्रगम्यं न त्वैन्द्रियकज्ञानगम्यमिति भावः । अव्यक्तशब्दार्थो गत्वा गत्वोत्तरोत्तरमित्यारभ्यात्मस्वरूपवैलक्षण्यमभिदधता दिव्यसूरिणाऽपि ज्ञानमतिक्रान्तमिन्यैन्द्रियकज्ञानागोचरत्वमुक्तम् ।

19. अचिन्त्यत्वं नाम अचित्सजातीयतया चिन्तयितुमनर्हत्वम्।

भाष्यम्– अचिन्त्यत्वमित्यादि । यतश्छेद्यादिविसजातीयस्तत एव सर्ववस्तुविजातीयत्वेन तत्तत्स्वभावयुक्ततया चिन्तयितुमपिनार्ह इति भाष्यकृतोक्तम् । अयमपि तदेव वदति । अन्यथा अचिन्त्यत्वं केनापि प्रकारेण चिन्तयितुमयोग्यत्वमित्युक्तावात्मस्वरूपविषयश्रवणमननादिवैयर्थ्यप्रसङ्गः। तस्मादचित्सजातीयताबुद्धयनर्हत्वमेवा – चिन्त्यशब्दार्थः । एवम् “अव्यक्तोऽयमचिन्त्योऽयम् इति गीतोपनिषदाचाय्र्योक्तप्रकारे णात्मस्वरूपवैलक्षण्यप्रकटनार्थ- मनेनाप्यत्राव्यक्तत्वाचिन्त्यत्वे उक्ते ।

20. निरवयवत्वं नाम अवयवसमुदायानात्मकत्वम् ।

भाष्यम् – निरवयवत्वमित्यादि । विज्ञानमयो विज्ञानमिति चोक्तप्रकारेण ज्ञानैकाकारतयाऽचिद्वस्तुवदवयवसङ्घातात्मकत्वाभाव इत्यर्थः ।

21. निर्विकारत्वं नामाचिद्वद्विकारत्वेन विनैक रूपतयाऽवस्थानम् ।

भाष्यम् – निर्विकारत्वमित्यादि । “अमृताक्षरं हरः” “आत्माशुद्धोऽ क्षर” इत्यक्षरशब्दवाच्यवस्तुत्वात् क्षरण स्वभावतया क्षरशब्दवाच्याचिद्वद् विकारित्वं विना सदैकरूपेणावस्थानमित्यर्थः । अत एवाऽविकार्योऽयमिति श्रीगीतोपनिषदाचार्य्यः ।

Tattva Trayam: Sutram 15, 16, 17

15. मूल- नन्वणुर्हृदयदेशे तिष्ठति चेत्सर्वत्र शरीरे सुखदुःखे कथमनुभवतीति चेद् ?

भाष्यम्-

नन्वेवं सति सर्वशरीरव्यापिसुखदुःखानुभवः कथं घटेतेति शङ्कामनुवदति । नन्वित्यादिना । अयमात्माऽ णुपरिमाणो हृदयप्रदेशमात्रे तिष्ठति चेत् ? पादे मे वेदना, शिरसि मे वेदना, पादे मे सुखं, शिरसि मे सुखमित्यापादचूडं सर्वत्र शरीरेऽविशेषेण सुखदुःखानुभवः कथमित्यर्थः तस्योउत्तरमाह- नेत्यादिना

16. न, मणिद्युमणिदीपादीनामेकदेशस्थानां प्रभा यथा सर्वत्र व्याप्नोति, तथा ज्ञानं सर्वत्र व्याप्नोत्यतो न तद्भोगविरोधः ।

भाष्यम्-

मणिद्युमणिदीपादीनां प्रभाववत्पदार्थानापेकदेशस्थानामपि प्रभा यथा सर्वत्र व्याप्नोति, तथाऽऽत्मनो हृदयप्रदेशे स्थितस्यापि तद्धर्मभूतं ज्ञानं सर्वत्र देहे व्याप्नोतीति सर्वत्र शरीरे सुखदुःखोपभोगस्य न काचित्प्रतिहतिरित्यर्थः । अयं च “गुणाद्वाऽ ऽ लोकवद्” (2.3.30) इतिसूत्रार्थः। “वा शब्दो मतान्तरव्यावृत्यर्थः । आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यावस्थितः, आलोकवत् । यथा मणिप्रभृतीनामेकदेशवर्त्तिनामालोकोऽनेकदेशव्यापी दृश्यते, तद्वहृदयस्थस्यात्मनो ज्ञानं सकलदेहं व्याप्य वर्त्तते । ज्ञातुः प्रभा स्थानीयज्ञानस्य स्वाश्रयादन्यत्र वृत्तिमणिप्रभावदुपपद्यते इति प्रथमसूत्रे स्थापितमिति” (श्री भाष्यम्) अत्र भाष्यम् । एवं ज्ञानव्याप्त्या सर्वं भुङ्गे । इत्ययमर्थो बृहदारण्यक उक्तः “प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति, प्रज्ञया घ्राणं समारुह्य घ्राणेन सर्वान् गन्धानाप्नोति, प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति, प्रज्ञया श्रोत्रं समारुह श्रोत्रेण सर्वान् शब्दानाप्नोति, प्रज्ञया जिह्वां समारुह जिह्वया सर्वान् रसानाप्नोति, प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्माण्याप्नोति, प्रज्ञया शरीरं समारुह्य शरीरेण सुख- दुःखे आप्नोति, प्रज्ञयोपस्थं समारुह्योपस्थेनानन्दरतिं प्रज्ञां चाप्नोति, प्रज्ञया पादौ समारुह्य पादाभ्यां सर्वा गतीराप्नोति, प्रज्ञया धियं समारुह्य धिया विज्ञानं काममाप्नोति” इत्यभिधानात् ।

नन्वेकस्मिन् शरीर एवमङ्गीकारेऽपि एकस्यैवैककालेऽ नेकशरीरपरिग्रहः स्वरूपव्याप्तिमन्तरा न सम्भवति इत्याशंकायामाह – एकस्येत्यादि ।

17. एकस्यैककालेऽनेकशरीरपरिग्रहश्च ज्ञानव्याप्त्या।

भाष्यम्- एकस्यानेकशरीरपरिग्रहः कालभेदेन सम्भवतीत्यतस्तद्वयावृत्त्यर्थम् – एककाल इति । एककालेऽनेकदेहपरिग्रहः सौभरिप्रभृतिषु सम्प्रतिपन्नः ।

Tattva Trayam: Sutram 13, 14

13. मूल- अणुत्वं कथमिति चेत् ?

भाष्यम् –

अचिद्विलक्षणस्याजडस्यानन्दरूपस्य नित्यस्यात्मनो विभुत्वसम्भवादेवम्भूतात्मस्वरूपस्याणुत्वं कथमिति जिज्ञासुप्रश्नमनुवदति अणुत्वमित्यादिना । तस्योत्तरमाह हृदयेत्यादिना ।

14. हृदयप्रदेशादुत्क्रमणगमनागमनानां शास्त्रेणोक्तत्वादणुत्वं भवति ।

भाष्यम्-
“हृदिह्येवायमात्मा” (प्रश्नोपनिषद 3.6) इति हृदयस्थितेः, “तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूनों वाऽन्येभ्यो वा शरीरदेशेभ्यः” (बृहदारण्यक 6.4.2) इत्युत्क्रमणस्य,
“ये वै के चास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति” (कौषीतकि 1.2) इति गमनस्य,
“तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्म्मणे” (बृहदारण्यक 4.4.6) इत्यागमनस्य च निदर्दोषप्रमाणेन वेदान्तशास्त्रेण प्रतिपादितत्त्वाद्ः अणुत्वं स्वीकर्त्तव्यमित्यर्थः । विभुत्वे एतत्सर्वं न सम्भवतीति भावः। सूत्रकारोऽप्यात्मनोऽणुत्वसाधनावसरे “उत्क्रान्तिगत्यागतीनाम्” (2.3.29) इति उत्क्रान्त्यादिभिरेव साधितवान् ।

“एषोऽणुरात्मा चेतसा वेदितव्यः” (मुण्डक 3.1.9)

“बालाग्रशत भागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ।।” (श्वेताश्वर 5.9)

Tattva Trayam: Sutram 11, 12

11. मूल- नित्यत्वं सर्वकालवर्तित्वम्

भाष्यम् – नित्यत्वमित्यादि । एतद्विरोधिशङ्कामनूद्य परिहरति सर्वकालेत्यादिना ।

12. सर्वकालसत्त्वे जन्ममरणाद्युपपत्तिः कथमिति चेन्न- जन्मं देहसम्बन्धो, मरणं देहवियोगः ।

भाष्यम् –
आत्मा यदि सर्वकालवर्ती, तदा “प्रजापतिः प्रजा असृजत” “सन्मूलाः सोम्येमाः सर्वाः प्रजाः” “यतो वा इमानि भूतानि जायन्ते” “यतः प्रसूता जगतः प्रसूतिस्तोयेन जीवान् विससर्ज भूम्याम्” इत्यादिश्रुति वाक्यैरुक्तमात्मनो जन्ममरणादिकं कथमुपपद्यत इत्यर्थः । जन्मेत्यादि । तत्रोक्तं मरणं देहवियोग इत्यर्थः । आत्मा नित्यश्चेत् सृष्टेः प्रागेकत्वावधारणं कथमुपपद्येतेति चेन्न, एकत्वं हि नामरूपविभागाभावोऽ तो नानुपपत्तिः । संहारदशायामात्मनोऽ भावे ईश्वरास्योपादानत्वासम्भवोऽ कृताभ्यागमकृतविप्रणाशयोः प्रसङ्गश्च । अत आत्मनित्यत्वमवश्यं स्वीकार्य्यम् । “न जायते म्रियते वा विपश्चित्” “ज्ञाज्ञौ द्वावजावीशानीशौ” “नित्यो नित्यानाम् ।”

“प्रकृतिं पुरुषं चैव विद्धयनादी उभावपि।” “न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे” इत्यादय आत्मनित्यत्वप्रतिपादकाः श्रुतिस्मृत्यादयो बहुशः सन्ति।

Tattva Trayam: Sutram 9, 10

9. मूल- आनन्दरूपत्वं सुखस्वरूपत्वम्,

भाष्यम्-

आनन्दरूपत्वमित्यादि। आनन्दरूपत्वं स्वत एवेष्टत्वम् । तच्च स्वभावत एवानुकूलत्वम् ।

अनुकूलं सुखं दुःखं प्रतिकूलमिति स्थिते ।
स्वात्मा स्वस्यानुकूलो हीत्यात्मसाक्षिक एव सः ।।

इत्युक्तप्रकारेण स्वस्य स्वयमेव सुखरूपं भवतीत्यर्थः । एवमात्मस्वरूपं सुखरूपमित्यत्र सुप्तप्रतिबुद्धप्रत्यभिज्ञां प्रमाणमाहप्रबुद्धइत्यादिना 

10. मूल – “सुखमहमस्वाप्सम्” इति प्रतिसन्दधातीति सुखरूपं भवति।

भाष्यम्:

“सुखमहमस्वाप्सम्” इति प्रत्यभिज्ञैवात्र प्रमाणमिति तत्त्वशेखरे स्वयमेवावोचत् सुषुप्तिदशायां परागर्थानुभवाभावात् प्रत्यगर्थस्मरणसद्भावात् सुप्तोत्थितेन परामृश्यमानं सुखं स्वरूपसुखमेव भवेत् । इदानीं यथा सुखं भवति तथाऽस्वाप्समिति “सुखमहमस्वाप्सम्” इति प्रतिसन्धानस्य विषय इति तु न युक्तम्, प्रतिपन्नशरीरस्यातथात्वाद् “मधुरमगायम्” इति प्रतिपत्तितुल्यत्वात् । अमुमर्थ श्रीभाष्ये “एवं हि सुप्तोत्थितस्य परामर्शः सुखमहमस्वाप्सम” इति । अनेन प्रत्यवमर्शेण तदानीं मप्यहमर्थस्यैवात्मनः सुखित्वं ज्ञातृत्वं च ज्ञायते । न च वाच्यं यथेदानीं सुखं भवति, तथा तदानीमस्वाप्समित्येषा प्रतिपत्तिरिति, अतद्रूपत्वात्प्रतिपत्तेरिति भाष्यकारोऽप्याह स्वरूपस्यानुकूलत्वाभावे प्रेमास्पदत्वं न स्यात् । “आश्चर्य्यवत्पश्यति कश्चिदेनम्” इत्यादिभिश्चायमर्थ सिद्धः । “आर्द्र ज्वलति निर्वाणमयमात्मा” “ज्ञानानन्दमयस्त्वात्मा ।” ज्ञानानन्दैकलक्षणमित्त्यादिश्रुतिस्मृत्यादिष्वात्मनो ज्ञानानन्दरूपत्वं सुस्पष्टम् । एवं प्रकृतेः परत्वोक्तेर्देहात्मवादो निरस्तः । अजडत्वानन्दरूपत्वोक्तेर्जडात्मवादो निरस्तः 

Tattva Trayam: Sutram 8

मूल- अजडत्वं नाम ज्ञानेन विना स्वयमेव प्रकाशमानत्वम्।


भाष्यम्-

अजडत्वमित्यादि । अजडत्वं नामानन्याधीन- प्रकाशत्वं, स्वयं प्रकाशत्वमिति यावत् । स्वयंप्रकाशत्वं च दापस्य दीपान्तरनिरपेक्षत्व व्यवहारहेतुत्ववत् प्रकाशान्तरनिरपेक्षस्व व्यहारहेतुत्वम् । तदेवाह- ज्ञानेनेत्यादिना । “हृद्यन्तज्योतिः पुरुषः।” “यत्रायं पुरुषः। स्वयं ज्योतिर्भवति विज्ञानघनः” “आत्मा ज्ञानमयः” “तच्च ज्ञानमयं व्यापि” “स्वयंवेद्यमनुपममात्मसंवेद्यं तज्ज्ञानम्” इति ।