मूल- मुमुक्षोश्चेतनस्य मोक्षोत्पत्तौ तत्त्वत्रयज्ञानमपेक्षितम् ।
भाष्यम्-
मुमुक्षुर्मोक्षेच्छावान् संसारविमोचनेच्छावानिति यावत्। मुमुक्षोः इत्यनेन संसारनिवृत्ताविच्छोत्पत्तिर्दुर्लभेति सूच्यते। एतदिच्छाऽनुत्पत्तेरेव ह्यनादिकालं सम्सरत् । उज्जिजीवयिषुः सर्वेश्वरोऽप्येतदिच्छोत्पत्तिपर्यन्तं विलम्बते संसारं द्रढ़यितुमिच्छां कुर्वत आत्मनस्तन्निवृत्ताविच्छोत्पत्तिर्दुर्लभा खलु, इदानीमस्य चेतनोक्तिरपि साभिप्राया; सचाभिप्रायः – ‘चैतन्यप्रयोजनसिद्धयुपक्रम इदानीमेव’ इति, अनादिकालं व्यर्थमेव जातम् चैतन्यमुज्जीवनानुपयुक्तत्वात्। अथ संसारनिवृत्तीच्छा च निरस्तातिशयाह्लादसुखभवैकलक्षणाया भगवत्प्राप्तेरुपयुक्ता । ‘लक्ष्मीकान्तमेकमेव विषयीकरोति यत् तदेव हि ज्ञानम्‘, आत्मप्राप्त्यर्था संसारनिवृत्तीच्छा तु विपरीतज्ञानकार्यम् । तस्माद्भगवत्प्राप्ति विरोधिनः संसारस्य विमोचन इच्छावतोऽधिकारिणस्तादृशमोक्षरूपपुरुषार्थसिद्धौ तत्त्वज्ञानमपेक्षितमित्यर्थः ।
न च तत्त्वज्ञानोत्पत्तेः प्राक् कथं मुमुक्षेति वाच्यम्। “परीक्ष्य लोकान्” “जायमानम्” इत्यादि श्रुतिस्मृत्युक्तप्रक्रियया तत्सम्भवात् । तत्त्वज्ञानस्यावश्यापेक्षितत्वोक्त्या तत्त्वज्ञानान्मोक्ष इति नियमः स्मारितः, तत्त्वज्ञानान्मोक्ष इत्येतत्सकलसिद्धान्तसाधारणम्; मोक्षतत्त्वयोरेव हि विप्रतिपत्तिः । नन्वेवं ज्ञानान्मोक्ष इति नियमस्वीकारे ।
पशुर्मनुष्यः पक्षीवा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमंपदम् ।।
यं यं स्पृशति पाणिभ्यां यं यं पश्यति चक्षुषा ।
स्थावराण्यपि मुच्यन्ते कि पुनर्बान्धिवा जनाः ।।
इति ज्ञानायोग्यतिर्यक्स्थावराणामपि वैष्णवसम्बन्धेन मोक्षसिद्धिप्रतिपादकवचनानां वैयर्थ्यं स्यादिति चेन्न, तेषां मुमुक्षुत्वाभावात् । प्रकृतेमुमुक्षोश्चेतनस्य मोक्षसिद्धौ तत्त्वज्ञानमपेक्षितमित्युक्तम् । तत्र मुमुक्षुत्वतत्त्वज्ञानयोरुभयोरभावेऽपि तदुभयपरिपूर्णस्य कस्यचिद्वैष्णवस्याभिमान एव कायर्यकर इत्युक्तम्।
अतोऽभिमानिनोज्ञानविशेषं दृष्ट्वाऽभिमानान्तर्भूतस्यास्येश्वरः कार्य करोतीति ज्ञानान्मोक्ष इत्येतन्त्रियमस्तत्र सद्वारकस्सिध्यति । तत्त्वज्ञानमित्यनुक्त्वा तत्त्वत्रयज्ञानमित्युक्तत्वाद् न्यूनाधिकतत्त्वान्यभिदधतां बाह्यकुदृष्टीनां मतं प्रतिक्षिप्तम् । अनेन तत्त्वत्रयमितिनिर्णयकरणे प्रमाणं निर्दोषप्रमाणभूतो वेदान्तः । तत्र ‘भोक्ता भोग्यं प्रेरितारं च मत्वा ।’ इति भोक्तृभोग्यप्रेरयितृशब्दै: चिदचिदीश्वरात्मकतत्त्वानि त्रीण्यभिहितानि । तस्माद्वेदान्तप्रतिपाद्यं तत्त्वत्रयमिति निश्चित्य मोक्षसिद्धी तत्वत्रयज्ञानमपेक्षितमित्युक्तम् ।
ननु “तमेवं विद्वानमृत इह भवति” “नान्यः पन्था अयनाय विद्यते” इति वेदान्तैर्भगवत्तत्त्वज्ञानस्यैव मोक्षोपायत्वमभिहितम् । अनेन तत्त्वान्तरपरिज्ञानस्यापि मोक्षोपायत्वं कथमुच्यत इति चेत् ? भगवत्तत्वस्य सकलचेतनाचेतनविलक्षणत्वेन तेषां कारणत्वेन व्यापकत्वेन धारकत्वेन शेषित्वेन च ज्ञातव्यतया तत्त्वान्तराभावे ईश्वरस्यैव ज्ञानासम्भवात् तत्त्वत्रयज्ञानापेक्षा निरबाधा।
“भोक्ता भोग्यं प्रेरितारं च मत्वा ।” “पृथगात्मानं प्रेरितारं च मत्त्वा जुष्टस्ततस्तेनामृतत्वमेति” इतिश्रुतेरयमेवाशयः । अन्यथा तमेवं विद्वानितिश्रुतिविरोधापत्तेः । अत एवमेव तच्छ्रुतिच्छाययाऽभिहितम् । तस्मान्न वेदान्तविरोधप्रसङ्गावकाशः ।