15. मूल- नन्वणुर्हृदयदेशे तिष्ठति चेत्सर्वत्र शरीरे सुखदुःखे कथमनुभवतीति चेद् ?
भाष्यम्-
नन्वेवं सति सर्वशरीरव्यापिसुखदुःखानुभवः कथं घटेतेति शङ्कामनुवदति । नन्वित्यादिना । अयमात्माऽ णुपरिमाणो हृदयप्रदेशमात्रे तिष्ठति चेत् ? पादे मे वेदना, शिरसि मे वेदना, पादे मे सुखं, शिरसि मे सुखमित्यापादचूडं सर्वत्र शरीरेऽविशेषेण सुखदुःखानुभवः कथमित्यर्थः तस्योउत्तरमाह- नेत्यादिना
16. न, मणिद्युमणिदीपादीनामेकदेशस्थानां प्रभा यथा सर्वत्र व्याप्नोति, तथा ज्ञानं सर्वत्र व्याप्नोत्यतो न तद्भोगविरोधः ।
भाष्यम्-
मणिद्युमणिदीपादीनां प्रभाववत्पदार्थानापेकदेशस्थानामपि प्रभा यथा सर्वत्र व्याप्नोति, तथाऽऽत्मनो हृदयप्रदेशे स्थितस्यापि तद्धर्मभूतं ज्ञानं सर्वत्र देहे व्याप्नोतीति सर्वत्र शरीरे सुखदुःखोपभोगस्य न काचित्प्रतिहतिरित्यर्थः । अयं च “गुणाद्वाऽ ऽ लोकवद्” (2.3.30) इतिसूत्रार्थः। “वा शब्दो मतान्तरव्यावृत्यर्थः । आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यावस्थितः, आलोकवत् । यथा मणिप्रभृतीनामेकदेशवर्त्तिनामालोकोऽनेकदेशव्यापी दृश्यते, तद्वहृदयस्थस्यात्मनो ज्ञानं सकलदेहं व्याप्य वर्त्तते । ज्ञातुः प्रभा स्थानीयज्ञानस्य स्वाश्रयादन्यत्र वृत्तिमणिप्रभावदुपपद्यते इति प्रथमसूत्रे स्थापितमिति” (श्री भाष्यम्) अत्र भाष्यम् । एवं ज्ञानव्याप्त्या सर्वं भुङ्गे । इत्ययमर्थो बृहदारण्यक उक्तः “प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति, प्रज्ञया घ्राणं समारुह्य घ्राणेन सर्वान् गन्धानाप्नोति, प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति, प्रज्ञया श्रोत्रं समारुह श्रोत्रेण सर्वान् शब्दानाप्नोति, प्रज्ञया जिह्वां समारुह जिह्वया सर्वान् रसानाप्नोति, प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्माण्याप्नोति, प्रज्ञया शरीरं समारुह्य शरीरेण सुख- दुःखे आप्नोति, प्रज्ञयोपस्थं समारुह्योपस्थेनानन्दरतिं प्रज्ञां चाप्नोति, प्रज्ञया पादौ समारुह्य पादाभ्यां सर्वा गतीराप्नोति, प्रज्ञया धियं समारुह्य धिया विज्ञानं काममाप्नोति” इत्यभिधानात् ।
नन्वेकस्मिन् शरीर एवमङ्गीकारेऽपि एकस्यैवैककालेऽ नेकशरीरपरिग्रहः स्वरूपव्याप्तिमन्तरा न सम्भवति इत्याशंकायामाह – एकस्येत्यादि ।
17. एकस्यैककालेऽनेकशरीरपरिग्रहश्च ज्ञानव्याप्त्या।
भाष्यम्- एकस्यानेकशरीरपरिग्रहः कालभेदेन सम्भवतीत्यतस्तद्वयावृत्त्यर्थम् – एककाल इति । एककालेऽनेकदेहपरिग्रहः सौभरिप्रभृतिषु सम्प्रतिपन्नः ।
