Tattva traya: Sutram 90, 91, 92

अथैतस्याः प्रकृतेर्म्महदादिविकाराणामुत्प त्तेर्मूलमाह-अस्या इत्यादिना ।

  1. अस्या गुणवैषम्येण महदादिविकारा जायन्ते ।
    भाष्यम्: गुणानां वैषम्ये परस्परोद्रेकः, के ते गुणा इत्याकांक्षायामाह गुणा इत्यादि ।
  2. गुणाः सत्वरजस्तमांसि,

कीदृशास्ते इत्याकांक्षायामाह –
एते प्रकृतेरिति ।

  1. एते प्रकृतेः स्वरूपानुबन्धिनस्स्वभावाः प्रकृत्यवस्थायामनुद्भुता विकारदशायामुद्धता भवन्ति ।

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।। (गीता)

सत्त्वं रजस्तम इति प्रकृतेर्गुणा इत्यादिप्रमाणं स्वरूपानुबन्धिन इत्यागन्तुकत्वाभावेन सत्ताप्रयुक्तत्वादेतद्विनाकृता न काप्यवस्थेति भावः । एतेषां स्वभावसत्त्वस्य स्वप्रकृतिस्वरूपानुबन्धित्वस्य चोक्त्या मूलप्रकृतिन्नम सुखदुःखमोहात्मकानि लाघवप्रकाशनचलनोपष्टम्भन- गौरवावरणकार्य्याण्यत्यन्तातीन्द्रियाणि काय्यैकनिरूपणविवेकान्यन्यूनानतिरेकाणि समतामुपेतानि सत्त्वरजस्तमंसि द्रव्याणीत्येतान् द्रव्यत्वेन प्रकृतिस्वरूपत्वेन च स्वीकुर्वतां सांख्यानां मतं निरस्तम्, तन्मतनिराकरणार्थमेव यामुनाचार्या अपि गुणाः प्रधानमिति पृथगवदन् । प्रकृत्यवस्थायामनुद्भूता विकारदशायामुद्भूता इति साम्यापन्नत्वात्प्रकृत्यवस्थायामेतेषां स्वरूपविभागो न ज्ञायते, वैषम्यापत्त्या विकृत्यवस्थायां स्वरूपविभागो ज्ञायत इत्यर्थः । सत्त्वरजस्तमांसि त्रयो गुणाः प्रकृतेस्स्वरूपानुबन्धिनः स्वभावविशेषाः कार्यैकनिरूपणीयाः प्रकृत्यवस्थायामनुद्धृतास्तद्विकारेषु महदादिषूद्भूता इति भाष्यकारैरुक्तम् ।

Tattva traya: Sutram 88, 89

अनेन पाशुरेण तत्त्वान्येवाभिहितानि, न तु तेषां क्रमोऽप्युक्तः । तस्मादत्र प्रथमतत्त्वं किमित्याकांक्षायामाह ।
अत्रेत्यादि

  1. अत्र प्रथमतत्त्वम्प्रकृतिः ।
    भाष्यम् :- प्रकृतिः प्रधानमव्यक्तमिति च प्रथमतत्त्वस्य नामानि । प्रकृतिरिति नाम्नो निदानं प्रागेवोक्तम् । प्रधानमिति, प्रधानमित्युच्यते भगवल्लीलायाः प्रधानोपकरणत्वात् अव्यक्तमित्युच्यतेऽ नभिव्यक्तगुणविभागत्वात् ।

अथैवं प्रथमतत्त्वभूतायाः प्रकृतेरवस्थाविशेषानाह- अस्य चेत्यादिना ।

  1. अस्य चाविभक्ततमो विभक्ततमोऽक्षरमिति चावस्थाविशेषास्सन्ति ।

भाष्यम् :- “अव्यक्तमक्षरे लीयतेऽक्षरं तमसि लीयते, तमः परे देवे एकीभवति “इत्युक्तप्रकारेण संसारसमयेऽव्यक्तावस्थानिवृत्तेरवस्था, ततस्तन्निवृत्तिः, ततोऽतिसूक्ष्मतया तमः शब्दवाच्यता, ततोऽपि नामरूपविभागानर्हतया सर्वेश्वरेणैकीभावो भवतीत्यतोऽ विभक्ततम” इति “सर्गकाले तु सम्प्राते प्रादुरासीत्तमोनुद” इत्युक्तप्रकारेण तेन प्रेरित सन्नामरूपविभागयोग्यं यथा भवति, तथा तस्माद्विभक्तं विभ कार्योन्मुखं भवतीति विभक्ततम इति, अनन्तरं सङ्कल्पविशेषेण पुरुषसमष्टिगर्भत्वं यथा ज्ञायते, तथाऽवस्थाम्प्राप्य स्थितत्वादक्षरमिति च अत्र केचनावस्थाविशेषाः सन्तीत्यर्थः ।
तस्मादस्याविभक्तमस्त्वं नामाक्षरावस्थानिवृत्तौ तमःशब्दवाच्यतया नामरूपविभागानर्हतया च सर्वेश्वरविषये एकीभवनम् । विभक्ततमस्त्वं नाम नामरूपविभागार्हता यथा स्यात्तथा विभक्ततया कार्योन्मुखत्वम् । अक्षरत्वं नामेदमचित् अत्र पुरुषसमष्टिरिति विवेचनानर्हमतिसूक्ष्मायास्तमोऽवस्थाया निवृत्तौ पुरुषसमष्टिगर्भत्वं यथा ज्ञायते, तथाविधावस्थाप्राप्तिः । “गुणत्रयवैषम्यस्यानन्तर- पूर्वावस्थागुणसाम्यलक्षणमव्यक्तं यस्यामवस्थायां गुणसाम्यवैषम्यमस्फुटं तदवस्थस्य चेतनसमष्टिगर्भत्वमक्षरशब्देनोच्यते न तु चेतन मात्रं, तस्याव्यक्तप्रकृतित्वतमोविकृतित्वायोगात् । अतस्सर्व तत्त्वजातं चिदिचिदात्मकं मन्तव्यम् “प्रधानादिविशेषान्तं चेतनाचेतनात्मकम्’ इतिपराशरवचनात् । अत्र चिद्गर्भवस्तुन्यक्षरशब्द उपचारतः, प्रयोगेऽन्यथासिद्धे शक्तत्यन्तरकल्पनायोगात् । “अक्षरं तमसि लीयत” इति. चिद्गर्भत्वमचित्त्वमपि, यत्र विवेक्तुमशक्यं, तदवस्थमतिसूक्ष्मम्प्रधानं तमः शब्देनाभिलप्यमक्षराद्यवस्थाप्राप्तयौन्मुख्यविशिष्टं तदेव विभक्ततमः । तदौन्मुख्यरहितमविभक्ततमः परमात्मशरीरतयाऽपि चिन्तयितुमशक्यं सलिलविलीनलवणचन्द्रकान्तस्थसलिलसूर्यकान्तस्थवह्निकल्पं सर्वज्ञपरमात्मैकवेद्यमवतिष्ठते भूतलविनिहितबीजस्थानीयमविभक्ततमः मृन्निः सृतबीजवद्विभक्ततमः । सलिलसंसृष्टार्द्राशिथिलावयबीजतुल्यमक्षरमुच्छूनबीजसमानमव्यक्तम्। अंकुरस्थानीयो महानिति विवेक इति सुबालोपनिषद्व्याख्याने श्रुतप्रकाशिकाकारैरेतदवस्थाविशेषाः सुस्पष्टमभिहिताः । एतेनाक्षर- तमसी कुसुमस्य मुकुलकोरकावस्थावदस्य सङ्कोचदशारूप- त्वान्महदादिवन्न तत्त्वान्तरमिति सिद्धम् ।

Tattva traya: Sutram 86, 87

प्रकृतिरित्यादिना ।

86. प्रकृतिरित्युच्यते विकारोत्पादकत्वात् । अविद्या ज्ञानविरोधित्वात् । माया विचित्रसृष्टिकरत्वात् ।

भाष्यम्: मूलप्रकृतिरविकृतिरित्यादौ प्रकृतिशब्दः कारणवाचितया प्रयुक्तः स चोपादानकारणवाचकः । अत एव ब्रह्मणो जगदुपादानत्वकथनावसरे सूत्रकारः (“येनाश्रुतं श्रुतं भवत्य मतं मतमविज्ञातं विज्ञातम्” इति प्रतिज्ञा) “प्रकृतिश्च प्रतिज्ञादृष्टान्तानुरोधात्” इति प्रकृतिशब्दं प्रायुङ्ग । अत एवेदं प्रकृतिरित्युच्यते महादादिविकाराणां स्वस्मादुत्पादनात् ।

अविद्याशब्दो विद्याभावस्य विद्येतरस्य विद्याविरोधिनश्च वाचको यद्यपि, तथाऽपि विषयानुगुणः प्रयोगो भवति, तस्मादियं ज्ञानविरोधित्वेनाऽविद्येत्युच्यते। ज्ञानानन्दयोर्विरोधीति, अस्य ज्ञानविरोधित्वं प्रागुक्तम् । यथाऽसुरराक्षसास्त्राणि आश्चर्यकरतया मायाशब्देन व्यवह्रियन्ते, तथेयमपि विचित्रसृष्टिकरत्वान्मायेत्युच्यते। विचित्रसृष्टिकरत्वञ्च परस्परविलक्षणविस्मयनीयकार्यकरत्वम् ।

87. कर्मेन्द्रियपञ्चभूतानि । अत्र प्राणगाप्रकृतिर्म्महदहङ्कारमनांसीत्युक्तप्रकारेण चतुर्विशतितत्त्वरूपम् ।

भाष्यम्: पञ्च विषयाः शब्दादयः । वर्द्धमानेतिविशेषणेन चेतनान् विकृतान् कर्तुमुपयुक्तस्तेषामुद्रेक उच्यते। अत्र विशेष्यमात्रमपेक्षितम् । पञ्चज्ञानेन्द्रियाणि श्रोत्रादीनि, कर्मेन्द्रियाणि वागादीनि, पञ्चभूतानि गगनादीनि । अत्र प्राणगेति, संसारदशायामात्मनोऽत्यन्तसंसृष्टेत्यर्थः । अत्रापि विशेष्यमात्रमेव तत्त्वसंख्यायामपेक्षितम् । महदहङ्कारमनांसि, महत्तत्वमहङ्कारतत्त्वं मनश्च । एवं चतुर्विशतितत्त्वानि वदता दिव्यसूरिणा तन्मात्राण्यन- भिधाय शब्दादयोऽभिहिताः, तन्मात्राणां भूतैः स्वरूपभेदाभावाद- वस्थाभेदमात्रत्वात् । तन्मात्ररूपाणि भूतानि पञ्च पञ्चतत्त्वानि, शब्दादयः पञ्च पञ्चतत्त्वानीति स्वीकृत्यैतान्येकादशेन्द्रियाणि प्रकृतिमहदहङ्काराश्च चतुर्विंशतितत्त्वानीति केषांचित्यक्षः । उभयपक्षेऽपि तत्त्वसंख्यायां न्यूनाधिकभावो नास्ति । तस्मादेतद्याशुरोक्तप्रकारेण चतुर्विशतितत्त्वरूपमित्युक्तम् ।

Tattva traya: Sutram 85

मिश्र सत्त्वन्नाम रजस्तमोयुक्तसत्त्ववत् । तदेवाह सत्त्वरजस्मोभिरिति ।

85- मिश्रसत्त्वन्नाम सत्त्वरजस्तमोभिस्त्रिभिर्युक्तो बद्धचेतनानां ज्ञानानन्दयोस्तिरोधायको विपरीतज्ञानजनको नित्य ईश्वरस्य क्रीडापरिकरः प्रदेशभेदेन कालभेदेन च सदृशासदृशविकारोत्पादकः प्रकृत्यऽविद्यामायाऽपरनामाचिद्विशेषः ।

भाष्यम्- सत्वरजस्तमोभिस्त्रिभियुक्त इति ।

त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् । (विष्णु पुराण 1.2.21)
त्रिगुणं कर्मिणं क्षेत्रं प्रकृते रूपमुच्यते ।।
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।। (गीता)

इत्यादिकमत्र प्रमाणम् । बद्धचेतनानां ज्ञानानन्दयोस्तिरोधायक इति, गुणत्रयात्मकतया रजस्तमोंऽ शाभ्यां ज्ञानादेस्तिरोधायक इत्यर्थः । चेतनानां ज्ञानानन्दयोस्तिरोधायक इति सामान्येनानुक्त्‌त्वा बद्धचेतनानामिति विशेषणात् कर्मसंसृष्टचेतनानां ज्ञानादीनामेव तिरोधायकः । अन्यथा ऐच्छिकप्राकृतशरीरं परिगृहणतां नित्यमुक्तानां ज्ञानादेरिदं सङ्कोचकरं स्यात् । अत एव

अहतसहजदास्याः सूरयः स्त्रस्तगन्धा विमलचरमदेहा इत्यमी रङ्गधा ममहितमनुजतिर्यक्स्थावरत्वाश्रयन्त” (रंगराज स्तव पूर्वशतक 33)

इत्युक्तप्रकारेण नित्यमुक्तानामत्रागत्य प्राकृतदेहान् परिगृह्य शेष्यतिशयं कुर्वता तदानीं सङ्कोचं न करोति। तस्माद्वद्धचेतनानां ज्ञानादेरेवेदं तिरोधायकमिति सिद्धम्। “अनीशया शोचति मुह्यमानः” (मुण्डक 3.1.2) “अनादिमायया सुप्तः” (पाँचरात्र) “भगवन्मायातिरोहितस्वप्रकाश‘ (शरणागति गद्य) इत्यादि । विपरीतज्ञानजनक इति । विपरीतज्ञानमतस्मिस्तद्बुद्धिः । सा चानात्मनि देह आत्मत्वबुद्धिः, अस्वतन्त्र आत्मनि स्वतन्त्रत्वबुद्धिः, अनन्यशेषेऽन्यशेषत्वबुद्धिः, अनीश्वरेष्वीश्वरत्वबुद्धिः, अपुरुषार्थ ऐश्वर्यादौ पुरुषार्थत्वबुद्धिः, अनुपायेषूपा- यत्बुद्धिरेवमादिका । यथार्थज्ञानं नोत्पादयतीत्येव न, अपि त्वेतादृशविपरीतज्ञानान्यपि बद्धचेतनानामुत्पादयतीत्यर्थः । भगवत्स्वरूपतिरोधानकरीं विपरीतज्ञानजननीमिति अयमर्थो भाष्यकारैरुक्तः । नित्य इति । उत्पत्तिविनाशरहित इत्यर्थः । “अजामेकाम्” (श्वेताश्वर) “गौरनाद्यन्तवती सा जनित्री भूतभाविनी । (मंत्रिकोपनिषद 4)”

अचेतना परार्था च नित्या सततविक्रया ।
विकार जननी मज्ञामष्टरूपामजां ध्रुवाम् ।।
(मंत्रिकोपनिषद 3) इत्यादि ।

ईश्वरस्य क्रीडापरिकर इति । सर्वेश्वरस्य जगत्सृष्ट्यादिलीलायाः परिकर इत्यर्थः।

क्रीडतो बालकस्येव चेष्टां तस्य निशामय ।
अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी ।।
मोदते भगवान् भूतैर्बालः क्रीडनकैरिव । त्वं न्यञ्चद्भिरुदञ्चद्भिः कर्मसूत्रोपपादितैः ।
हरे विहरसि क्रीडां कन्दुकैरिव जन्तुभिः ।।
(विष्णु पुराण 12.18-19)

इत्यादि भिरुक्तायाः सर्वेश्वरस्य लीलाया गुणत्रयात्मिका प्रकृतिः खलु प्रधानोपकरणम् । “सितासिता च रक्ता च सर्वकामदुधा विभोः” इत्यादि “दैवी ह्येषा गुणमयी मम माया दुरत्यया” इति स्वयमेवोक्तम् ।

प्रदेशभेदेन कालेभेदेन च सदृशासदृशविकारोत्पादक इति, प्रदेशभेदो गुणवैषम्यशून्यप्रदेशो गुणवैषम्यवान्, प्रदेशश्च । अस्य गुणवैषम्यं कार्योन्मुखे स्थूले, अन्यत्र सर्वत्र साम्यापन्नगुणवदेव भवति । तत्र गुणवैषम्यशून्य प्रदेशः सदृशविकारवान्, गुणवैषम्यवान् विसदृशविकारवान् भवति । सदृश विकारो नाम नामरूपविभागनिर्देशानर्हः सूक्ष्मविकारः, विसदृशविकारो नाम नामरूपविभागनिर्देशयोग्यः स्थूलविकारः, “गुणसाम्यम- नुद्रिक्तन्यूनम्” इत्युक्तत्वादव्यक्तावस्थायां सर्वेऽपि विंकाराः सदृशा भवन्ति, महदादिर्विसदृशविकारः ।

अथ कालभेदो नाम संहारकालः सृष्टिकालश्च । संहारकालेऽ स्याविभक्ततमत्वेन स्थितत्वात्कुत्रापि गुणवैषम्याभावेन सर्वत्राविशेषेण सदृश एव विकारः सृष्टिकाले भगवदधिष्ठानविशेषेण विभक्ततया कार्योन्मुखस्य गुणवैषम्ये सति विसदृशविकारा भवन्ति । सततविकारास्पदतयाऽस्य सत्ताप्रयुक्तो हि विकारः । तस्य सौक्ष्म्यासौक्ष्म्यनिबन्धनो विभागनिर्देश एव । अन्यथा निर्विकारतया काचिदवस्था नास्ति ।

प्रकृत्यविद्यामायापरनामाचिद्विशेष इति । मिश्रसत्त्वं नामैवंविधोऽचिद्विशेष इति वाक्यान्वयः । प्रकृत्यादिनामभेदोऽस्य स्वभावप्रयुक्त इत्याह ।

Tattva traya: Sutram 83, 84

आत्मन इत्यादिना ।

83. आत्मनो ज्ञानाच्च भेदः कथमिति चेत् ?


अनेकैर्हेतुभिस्तं दर्शयति- अहमित्यादिना ।

84. अहमित्यभानात् शरीरादिरूपेण परिणामात्, विषययैविना भानात्, शब्दस्पर्शादिमत्त्वाच्च भिद्यते ।

भाष्यम् : अहमित्यभानादिति इदमिति हि प्रकाशते, अनेनात्मनो भेदसिद्धिः । शरीरादिरूपेण परिणामादिति, आत्मनो ज्ञानाच्च भिन्नमित्यर्थः । एकरूपत्वादात्मनो न परिणामः । ज्ञानस्य परिणामित्वेऽपि शरीरादिरूपेण परिणामो नास्ति, विषयनिरपेक् प्रकाशमानत्वात् शब्दस्पर्शाद्यऽनाश्रयत्वाच्च विषयासन्निधाने प्रकाशमानाच्छब्दस्पर्शाद्यनाश्रयात्तद्ग्रहकात् ज्ञानाद्भिन्नमिति सिद्धम्। एवं शुद्धसत्त्वप्रकारमवोचत् ।

Tattva traya: Sutram 80, 81, 82

80. केचनैतज्जडं वदन्ति, केचिदजडं वदन्ति ।

एतच्छुद्धसत्त्वमेतद्दर्शनस्थेषु केचिज्जडमिति वदन्ति, केचिदजहमिति वदन्तीत्यर्थः । “इह जडामादिमां केचिदाहुः” इत्यभियुक्ताः । जडत्वं स्वयंप्रकाशराहित्यम् । तदेवाह- अजडत्व इत्यादिना ।

81.अजडत्वे नित्यानां मुक्तानामीश्चरस्य च ज्ञानेन बिना स्वयमेव प्रकाशते ।

भाष्यम्: अजडत्व इति, अजडमिति पक्ष इत्यर्थः । जडमिति केषाञ्चित्पक्षं विहाय तत्पक्षोपपादनादस्यायमेव पक्षोऽभिमत इति ज्ञायते । ज्ञानेन बिना प्रकाशत इति । ज्ञानेनैव न भासतेऽपि तु स्वयमेव भासत इत्यर्थः । नन्वेवं स्वयं भासत इति चेत्संसारिणामपि ज्ञानमनपेक्ष्य स्वयमेव कुतो न भासत इत्याशङ्कायामाह – संसारिणामिति ।

82.संसारिणां न भासते ।

भाष्यम् : इदं चाभियुक्तैर्विस्तरेण प्रतिपादितम् । तथा हि, “त्रिविधाऽ चेतनानीत्यारभ्य तत्र प्रकृतिः कालश्च जडौ, शुद्धसत्त्वद्रव्यमपि केचिज्जडं वदन्ति । जडत्वन्नाम स्वयंप्रकाशराहित्यम् । भगवच्छास्त्रादिकं परामृशन्तो ज्ञानात्मकतया शास्त्रसिद्धतया शुद्धसत्त्वद्रव्यं स्वयंप्रकाशमिति वदन्ति । एवं स्वयंप्रकाशं चेत्संसारिणां शास्त्रेणैव विना स्वयमेव भासेतेति चेत्सर्वेषामात्मनां स्वरूपस्य ज्ञानस्य च स्वयंप्रकाशत्वेऽपि स्वरूपं स्वस्यैव स्वयंप्रकाशम्, अन्येषां ज्ञानान्तरवेद्यं यथा भवति । यथा च धर्मभूतज्ञानं स्वाश्रयस्यैव स्वयंप्रकाशतेनेतरेषाम्, तथेदमपि नियतविषये स्वयंप्रकाशते चेन्न कोऽपि विरोधः ।

यो वेत्ति युगपत्सर्वं प्रत्यक्षेण सदा स्वतः ।
तम्प्रणम्य हरिं शास्त्रन्यायतत्त्वम्प्रचक्ष्महे ।।

इत्युक्तप्रकारेण धर्मभूतज्ञानेन सर्वं सदा साक्षात्कुर्वत ईश्वरस्य शुद्धसत्त्वद्रव्यं स्वयम्प्रकाशत इति कथमुपपद्यत इति चेन्न, अस्य धर्मभूतज्ञाने दिव्यात्मस्वरूपप्रभृतीनि सर्वाणि विषयीकुर्वत्यपि यथा दिव्यात्मस्वरूपं स्वयम्प्रकाशं भवति तथेदमपि स्वयम्प्रकाशं भवाति, तथा मुक्तानां तदवस्थायामिदमपि स्वयंप्रकाशम्भवतीति न कश्चिद्विरोधः । यथा धर्मभूतज्ञानस्य स्वात्मप्रकाशनशक्तिर्विषयप्रकाशाभावकाले कर्मविशेषैः प्रतिबद्धा भवति, तथा शुद्धसत्त्वस्य स्वात्मप्रकाशनशक्तिश्च बद्धदशायां प्रतिबद्धा भवति । तस्माच्छुद्धसत्वं बद्धानां न प्रकाशते ।

धियः स्वयंप्रकाशत्वं मुक्तौ स्वाभाविकं यथा ।
बद्धे कदाचित्संरुद्धं तथाऽत्रापि नियम्यते ।।

“एतावदवस्थाऽन्तरापत्तिर्विकारिद्रव्यस्य न विरुध्यते । तस्मात्प्रतिपन्नार्थस्य न युक्तिविरोधावकाश” इति रहस्यत्रयसारे प्रतिपादितम् ।

Tattva traya: Sutram 79

तत्र शुद्धसत्त्वमित्यादिना-

79. तत्र शुद्धसत्त्वं नाम रजस्तमोऽमिश्रकेवलसत्त्वं नित्यं ज्ञानानन्दजनकं कर्मणा विना केवलभगवदिच्छया विमानगोपुरमण्डपप्रासादादिरूपेणपरिणतं निरवधिकतेजोरूपं नित्यमुक्तैरीश्वरेण च परिच्छेतुमशक्यमत्यद्भुतं वस्तु ।

भाष्यम्- शुद्धसत्त्वं गुणान्तरामिश्रितसत्त्वगुणवदित्यर्थः । तदाह रजस्तम इत्यादिना। “क्षयन्तमस्य रजसः पराके” “तमस्तु पारे, तमसः परस्तात्” “पञ्चशक्तिमये दिव्ये शुद्धसत्त्वे सुखाकरे” इत्यादिश्रुतिस्मृतिभिरुक्तम् । नित्यमनादिनिधनम् तदक्षरे परमे व्योमन् ।”

कालातीतमनाद्यन्तमप्राकृतमचञ्चलम् ।
प्राप्यमर्चिर्मयात्सद् भिर्मयि संन्यस्तमानसैः ।।
यत्तत्पुराणमाकाशं सर्वस्मात्परमं ध्रुवम् ।
यत्पदं प्राप्य तत्त्वज्ञा मुच्यन्ते सर्वकिल्विषैः ।।

इत्येतस्य नित्यत्वमपि श्रुतिसिद्धम् । ज्ञानानन्दजनकमिति, शुद्धसत्त्वमयत्वात् ज्ञानानन्दजनकमित्यर्थः । सत्त्वं ज्ञानसुखावहं खलु । अत एव शुद्धसत्त्व इत्यनन्तरं सुखाकर इत्युक्तम् । कर्मणा विना केवलभगवदिच्छया विमानगोपुरमण्डपप्रासादादिरूपेण परिणतमिति चेतनाः कर्मानुगुणमिच्छन्ति । तदिच्छानुगुणभगवत्सङ्कल्पेन चतुर्विशतितत्त्वरूपेण परिणम्य चेतनानां भोग्यभोगोपकरणभोगस्थानरूपेण स्थितं प्रकृतितत्त्वमिव न भवतीदं, किन्तु स्वभोगार्थतया भगवदिच्छया विमानगोपुरादिरूपेण परिणमत
इत्यर्थः। “देवानां पूरयोध्या तस्यां हिरण्मयः कोशः यो वै तां ब्रह्मणो वेदामृतेनामृतां पुरीम्” (अथर्ववेद 10.2.31) “अपराजिता पूर्ब्रह्मणः प्रजापतेः सभां वेश्म प्रपद्ये” इति श्रुतौ संग्रहेण नित्यविभूतौ विद्यमाना दिव्यनगरदिव्यायतनादय उक्त्ताः । अमुमर्थ श्रीभाष्यकारः श्रीवैकुण्ठगद्ये “दिव्यावरणशतसहस्त्रावृते दिव्यकल्पतरूपशोभिते दिव्योद्यानशतसहस्त्रकोटिभिरावृतेऽतिप्रमाणे दिव्यायतने कस्मिश्चिद्विचित्रदिव्यरत्नमयदिव्याऽ ऽ स्थानमण्डप” (वैकुण्ठ गद्य) इत्यादिना विस्तरेणावोचत् । निरवधिकतेजोरूपमिति । अग्न्यादित्यादितेजः पदार्थानपि खद्योतकल्पान् कुर्वदनवधिकतेजः स्वरूपमित्यर्थः ।

न तत्र सूर्यो भाति न च चन्द्रतारकं । नेमा विद्युतो भान्ति कुतोऽयमग्निः ।। (कठोपनिषद 5.15)

अतर्क्यानलदीप्तं तत्स्थानं विष्णोर्महात्मनः ।
स्वयैव प्रभया राजन् दुष्प्रेक्ष्यं देवदानवैः ।।

(विष्णु पुराण)

इत्यादि । एवं दिव्यसूरिभिरप्येतस्य निरवधिकतेजोरूपत्वं बहुषु स्थलेषूक्तम् ।

नित्यमुक्तैरीश्वरेण च परिच्छेत्तुमशक्यमिति, अस्य परिमाणदयः केनापि परिच्छेत्तुं न शक्यन्त इत्यर्थः । तेषामपीयत्परिमाणमियदैश्वर्यमीदृशस्वभावमिति परिच्छेत्तुमयोग्यमितिनित्यैः परिच्छेत्तुमयोग्यमिति श्रीवैकुण्ठगद्ये भाष्यकारैर्य्यदुक्तम्, तन्मुक्तानामपि तुल्यम् । ईश्वरज्ञानस्यैवैतेषां ज्ञानस्यापि सर्वदर्शित्वसत्त्वात्तेन परिच्छेत्तुं शक्यते चेदेतैरपि परिच्छेत्तुं शक्येतैव । तस्मात्तेनाप्यशक्यमेवेत्यर्थः । तर्हि एतेषां सर्वज्ञताया विरोध इति नाशङ्कनीयम्, सर्वज्ञता हि सर्वेषां यथावस्थिताकारविषयज्ञानम् । परिच्छेद्यं चेत्तथा ज्ञानम् । अपरिच्छेद्यं चेत्तथा ज्ञानम् । निस्सीमस्य कस्यचिदपरिच्छेद्येन ज्ञानं सर्वज्ञत्वानुगुणमिति ।

देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते ।
यद्यप्येवमथाऽपि नैव युवयोः सर्वज्ञता हीयते ।।
यन्नास्त्स्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदुः।
र्व्योमाम्भोजमिदन्तया किल विदन् भ्रान्तोऽयमित्युच्यते । ।

इति श्रीस्तुतौ कूरेशैरुक्तम् । अन्यथा स्वेनापि ज्ञातुमशक्यस्वभाव इत्येतदपि सर्वज्ञतया विरुध्येत । तस्मान्नित्यमुक्तेश्वरैरपरिच्छेद्यमित्यत्र न कोऽपि विरोधः । अनेनास्य विभव उक्तः ।

अत्यद्भुतमिति । अत्यद्भुतत्वं नामानुक्षणमपूर्वाश्चर्यावहत्वम्। अनन्ताश्चर्य्यानन्तमहाविभवेति भाष्यकृतः। एवं शुद्धसत्वमेतादृशमित्युक्तम् ।

Tattva traya: Sutram 77, 78

लोकाचार्यमुपास्महे यतिपतेः कारुण्यपात्रं गुरुम्
श्रीमन्मारुतिकल्पमिन्द्रियजये कारुण्यवारांनिधिम् ।
मोहध्वान्तविवेकशून्यजनता संसृत्यरण्याश्रया
यच्छ्रीसूक्तिमणित्विषैव सुसुखं सन्मार्गमालोकते ॥

अथ अचित्प्रकरणम्

भाष्यम्- तत्त्वत्रयं चिचिदीश्वरश्चेत्युद्देशक्रमेण प्रथमं चिच्छब्दवाच्यस्यात्मनः स्वरूपस्वभावविशेषान् स्फुटमवोचत् । अनन्तरमचिद्वस्तुनः स्वरूपस्वभावविशेषानतिस्फुटमाह । तत्र प्रथममचिल्लक्षणमाह । अचिदित्यादिना ।

77. अचिज्ज्ञानशून्यं विकारास्पदम् ।

भाष्यम् – अचित् चैतन्यानाधारो वस्तु । तदेवाह-ज्ञानशून्यमिति । अत एव श्रुतिर्भोग्यशब्देनाचिद्वस्त्वाभिधत्ते । विकारास्पदत्वं नाम विकारस्याश्रयत्वम् । विकारोऽवस्थान्तरापत्तिः ।
सा च विद्वत्सदैकरूपत्वाभावः ।

एवमेतल्लक्षणकथनानन्तरमस्याचिद्वस्तुनः सत्त्वैकाधारतया सत्त्वादिगुणत्रयाधारतया सत्त्वादिगुणत्रयशून्यतया च त्रैविध्यमाह- इदमित्यादिना ।

78. इदं शुद्धसत्त्वं मिश्रसत्त्वं सत्त्वशून्यं चेति त्रिविधम् ।

भाष्यम्: उद्देशक्रमेणाचित्तत्त्वस्य च स्वरूपस्वभावविशेषान् प्रतिपादयिष्यन् प्रथमं शुद्धसत्त्वस्य प्रकारानाह ।

Tattva Trayam: chit prakaran summary

चित प्रकरण :- सारांश:

भाष्यम् – एवमेतावता चिदित्त्यात्मेति प्रथमं चिच्छब्दवाच्यमात्मवस्तूद्दिश्य, अनन्तरं देहादिविलक्षणमित्यारभ्य शेषमित्यन्तं तत्स्वरूपलक्षणं विस्तरेणोक्त्त्वा, देहादिविलक्षणत्वं कथमित्यारभ्य शेषत्वं नामेत्यन्तेनोक्तलक्षणं परीक्ष्य, अनन्तरमेवंभूतस्यात्मस्वरूपस्य बद्धमुक्तनित्यरूपेण त्रैविध्यमुक्तवा, बद्धात्मनामविद्यादिसंबन्धस्य हेतुं तन्निवृत्तिक्रमं त्रिधात्मवर्गस्य प्रत्येकमानन्त्यं चोक्त्त्वा, तादृशजीवानन्त्यप्रतिभटमेकात्मवादं युक्तिशास्त्राभ्यां निरस्य आत्मभेदं साधयित्वा, प्राग्विस्तरेणोक्तप्रकारं विना सुग्रहं त्रिविधात्मनां लक्षणं प्रदर्थ्य, अनन्तरं ज्ञानस्य स्वरूपस्य च साधर्म्यवेधयें उक्त्व, ज्ञानस्य विशेष मुक्त्वाप्रसङ्गेण त्रिविधचेतनानां ज्ञानस्य विशेषमुक्त्व पूर्वं ज्ञानस्योक्तानि नित्यत्वाजडत्वानन्दरूपत्वानि क्रमेणोपपादितवान्।

एवं चित्तत्त्ववेषकथनं समाप्तम् ।

Tattva Trayam: Sutram 73, 74, 75, 76

अथास्यानन्दरूपत्वमुपपादयति- आनन्दरूपत्वमित्यादिना ।

७३. आनन्दरूपत्वं नाम ज्ञानस्य प्रकाशावस्थायामनुकूलत्वम्

भाष्यम्- प्रकाशावस्थायां स्वाश्रयस्य विषयप्रकाशनावस्थायाम्। तदैव हीदं प्रकाशते । तदवस्थायामनुकूलत्वं नाम तत्तद्विषयाणामनुक्रलत्वेन भानात् तान् विषयीकुर्वतोऽस्य ज्ञानस्य स्वाश्रयस्थ सुखरूपत्वम् ।

ननु तर्हि विषशस्त्रादिदर्शनावस्थायां तद्विषयकं ज्ञानं कथम्प्रतिकूलं भवतीत्याशङ्कयाह- विषशस्त्रादीत्यादि ।

७४. विषशस्त्रादिप्रकाशनावसरे प्रतिकूलत्वस्य हेतुर्देहात्मभ्रमादयः ।

भाष्यम्: तत्प्रकाशनावसरे तद्विषयकज्ञानस्य दुःखरूपत्वे कारणं तत्र बाधकबुद्धिमूलं देहात्मभ्रमः कर्म्मेश्वरात्मकत्वज्ञानाभावच्चेत्यर्थः ।

एतेषां स्वाभाविको वेषः कोवेत्याकांक्षायामाह- ईश्वरात्मकत्वादित्यादि ।

७५.ईश्वरात्मकत्वात्सर्वेषाम्पदार्थानामानुकूल्यमेव स्वभावः । प्रातिकूल्यमौपाधिकम् ।

भाष्यम्: “जगत्सर्व शरीरन्ते” “तानि सर्वाणि तद्वपुः” “तत्सर्वं वै हरेस्तनुः” इति सकलपदार्थानामपि भगवच्छरीरत्वोक्तेर्भगवदात्मकत्वेन ज्ञायमानत्वदशायां सर्वेषामनुकूलतया भानात्सर्वेषां पदार्थानामानुकूल्यमेव स्वभावः, तत्र भासमानं प्रातिकूल्यं देहात्मभ्रमादिमूलकत्त्वादागन्तुकमित्यर्थः ।

एवमीश्वरात्मकत्वात्सकलपदार्थानामानुकूल्यमेव स्वभाव इति किमुच्यते चन्दनकुसुमादीनामानुकूल्यं स्वाभाविकं खल्विति शङ्कायामाह – अन्यदानुकूल्यमित्यादि ।

७६. अन्यदानुकूल्यं स्वाभाविकं चेत् ? कस्यचित्कुत्रचित्कालदेशयोरनुकूलानि चन्दनकुसुमादीनि, देशान्तरे कालान्तरे तस्यैव तद्देश एव तत्काल एवान्यस्य प्रतिकूलानि न स्युः ।

भाष्यम्: अन्यदानुकूल्यमिति स्वोक्ताद्भगवदात्मकत्वप्रयुक्तादानुकूल्यादन्यत् चन्दनकुसुमादिपदार्थेषु

भासमानमानुकूल्यमुच्यते तत्तेषां स्वाभाविकं चेत् भोक्तुः कस्यचित्कस्मिश्वित्काले कम्पिश्चिद्देशेऽनुकूलानि कालान्तरे देशान्तरे वा तस्यैव प्रतिकूलानि, यद्देशकालयोस्तस्यानुकूलानि तद्देशकालयोरेवान्यस्य प्रतिकूलानि च न स्युः । एवम्प्रतिकूलतया ज्ञायमानानि पश्यामः, तस्माद्भगवदात्मकत्वनिबन्धनमानुकूल्यमेव स्वाभाविकम्, अन्यदानुकूल्यं न स्वाभाविकमिति भावः ।

वस्त्वेकमेव दुःखाय सुखायेष्र्ष्यागमाय च। कोपाय च ततस्तस्मादस्तु वस्त्वात्मकं कुतः ।।
तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते ।
तदेव कोपाय ततः प्रसादाय च जायते ।। तस्माद् दुखात्मकं नास्ति न च किञ्चित्सुखात्मकम् ।।

(विष्णु पुराण २/६/३५-३७)

इत्ययमर्थः श्रीपराशरेण भगवता सुविशदमुक्तः । एतेन विषशस्त्रादीनाम्प्रतिकूलतया चन्दनकुसुमादीनामनुकूलतया च भानं देहात्मभ्रमादिभिरीश्वरात्मकत्वात्सकलपदार्थानामानुकूल्यमेव स्वभावः । तस्मात्तदाकारेण भानदशायां सर्वविषयप्रकाशनदशायामपि ज्ञानमानन्दरूपमेवेत्युक्तम् ।